वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 200, कुल 355 में से
संदर्भ में पढ़ें१८० वेणीसंहारं नाटकं सुन्दरकः—तदो अ देव, अवहीरिदसअलराअधाणुक्कचक्कपरावकमसा- लिणो सुदस्स तहाविहेण समरकम्मालम्भेण हरिसरोसकरुणासङ्कड़े वट्टमा- णस्स सामिणो अङ्कराअस्स णिवडिआ सरपद्धइ भीमसेणे बोप्पपञ्जाउला दिट्ठी कुमालविससेणे । ( ततश्च देव, अवधीरितसकलराजधानुष्कचक्रपराक्रम- शालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वा- मिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने । ) दुर्योधनः—( सभयम् ।) ततस्ततः । सुन्दरकः—तदो अ देव, उभअवलप्पउत्तसाहुकारामरिसिदेण गण्डी- विणा तुरगेसु सारहिं पि रहवरे धनु पि जीआइ पि णलिन्दलञ्छणे सिदादवत्त अ व्वावारिदो समं सिलीमुहासारो । (ततश्च देव, उभयबलप्रवृत्त- साधुकारामर्षितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रे च व्यापारितः समं शिलीमुखासारः ।) अवधीरितसकलराजधानुष्कचक्रपराक्रमशालिनः = अवधीरितं सकलराजधानुष्क- चक्रं येन स चासौ पराक्रमशाली तस्य, सुतस्य, तथाविधेन = आश्चर्यप्रयोजकेन समरकर्मारम्भेण = सङ्ग्रामप्रक्रियारम्भेण, हर्षरोषकरुणासङ्कटे=पुत्रकर्तृकतादृशयुद्ध- दर्शनेन हर्षः, अल्पवयस्केन सह शत्रुकर्तृकयुद्धस्य दर्शनेन क्रोधः, महाबलेन सह बालकर्तृकयुद्धस्य दर्शनेन करुणा, एतत्रितयसमुदाय एव सङ्कटम् तत्र वर्तमानस्य स्वामिनः, अङ्गराजस्य = कर्णस्य शरपद्धतिः = बाणसमूहः, भीमसेने, निपतिता, बाष्पपर्याकुला = अश्रुव्याप्ता दृष्टिः = नेत्रम्, अङ्गराजस्येत्यस्यात्राप्यन्वयः । कुमार- वृषसेने निपतितेत्यस्यात्रापि सम्बन्धः । उभयबलप्रवृत्तसाधुकारामर्षितेन = उभयबलेन कौरवपाण्डवसैन्येन प्रवृत्तो यः साधुकारः तेनामर्षितः क्रुद्धः तेन, जीवायां = धनुर्गुणे, नरेन्द्रलाञ्छने=राजचिह्ने, सितातपत्रे = श्वेतच्छत्रे, शिलीमुखासारः = बाणधारा । सुन्दरक—पुनः हे महाराज ! सभी धनुर्धर राजाओं के समूह को तिरस्कृत करनेवाले पराक्रम से युक्त पुत्र के इस प्रकार के युद्धकर्म से प्रसन्नता; क्रोध और दया की विपत्ति से उपस्थित कर्ण के बाणों की वर्षा भीमसेन पर तथा अश्रुपूर्ण दृष्टि कुमार वृषसेन पर पड़ी । दुर्योधन—( भयपूर्वक ) तो फिर...... ! सुन्दरक—फिर भी महाराज ! दोनों पक्ष से उठे हुए 'साधु' शब्द से क्रुद्ध होकर अर्जुन ने [ कुमार के ] घोड़ों पर, सारथि पर, दिव्य रथ पर, धनुष पर, प्रत्यञ्चा पर और · राजचिह्न श्वेत छत्र पर भी एक ही समय में बाणों की वर्षा करना आरम्भ कर दिया । ·