भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 200, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 200

१८० वेणीसंहारं नाटकं सुन्दरकः—तदो अ देव, अवहीरिदसअलराअधाणुक्कचक्कपरावकमसा- लिणो सुदस्स तहाविहेण समरकम्मालम्भेण हरिसरोसकरुणासङ्कड़े वट्टमा- णस्स सामिणो अङ्कराअस्स णिवडिआ सरपद्धइ भीमसेणे बोप्पपञ्जाउला दिट्ठी कुमालविससेणे । ( ततश्च देव, अवधीरितसकलराजधानुष्कचक्रपराक्रम- शालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासंकटे वर्तमानस्य स्वा- मिनोऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने । ) दुर्योधनः—( सभयम् ।) ततस्ततः । सुन्दरकः—तदो अ देव, उभअवलप्पउत्तसाहुकारामरिसिदेण गण्डी- विणा तुरगेसु सारहिं पि रहवरे धनु पि जीआइ पि णलिन्दलञ्छणे सिदादवत्त अ व्वावारिदो समं सिलीमुहासारो । (ततश्च देव, उभयबलप्रवृत्त- साधुकारामर्षितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रे च व्यापारितः समं शिलीमुखासारः ।) अवधीरितसकलराजधानुष्कचक्रपराक्रमशालिनः = अवधीरितं सकलराजधानुष्क- चक्रं येन स चासौ पराक्रमशाली तस्य, सुतस्य, तथाविधेन = आश्चर्यप्रयोजकेन समरकर्मारम्भेण = सङ्ग्रामप्रक्रियारम्भेण, हर्षरोषकरुणासङ्कटे=पुत्रकर्तृकतादृशयुद्ध- दर्शनेन हर्षः, अल्पवयस्केन सह शत्रुकर्तृकयुद्धस्य दर्शनेन क्रोधः, महाबलेन सह बालकर्तृकयुद्धस्य दर्शनेन करुणा, एतत्रितयसमुदाय एव सङ्कटम् तत्र वर्तमानस्य स्वामिनः, अङ्गराजस्य = कर्णस्य शरपद्धतिः = बाणसमूहः, भीमसेने, निपतिता, बाष्पपर्याकुला = अश्रुव्याप्ता दृष्टिः = नेत्रम्, अङ्गराजस्येत्यस्यात्राप्यन्वयः । कुमार- वृषसेने निपतितेत्यस्यात्रापि सम्बन्धः । उभयबलप्रवृत्तसाधुकारामर्षितेन = उभयबलेन कौरवपाण्डवसैन्येन प्रवृत्तो यः साधुकारः तेनामर्षितः क्रुद्धः तेन, जीवायां = धनुर्गुणे, नरेन्द्रलाञ्छने=राजचिह्ने, सितातपत्रे = श्वेतच्छत्रे, शिलीमुखासारः = बाणधारा । सुन्दरक—पुनः हे महाराज ! सभी धनुर्धर राजाओं के समूह को तिरस्कृत करनेवाले पराक्रम से युक्त पुत्र के इस प्रकार के युद्धकर्म से प्रसन्नता; क्रोध और दया की विपत्ति से उपस्थित कर्ण के बाणों की वर्षा भीमसेन पर तथा अश्रुपूर्ण दृष्टि कुमार वृषसेन पर पड़ी । दुर्योधन—( भयपूर्वक ) तो फिर...... ! सुन्दरक—फिर भी महाराज ! दोनों पक्ष से उठे हुए 'साधु' शब्द से क्रुद्ध होकर अर्जुन ने [ कुमार के ] घोड़ों पर, सारथि पर, दिव्य रथ पर, धनुष पर, प्रत्यञ्चा पर और · राजचिह्न श्वेत छत्र पर भी एक ही समय में बाणों की वर्षा करना आरम्भ कर दिया । ·