वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 204, कुल 355 में से
संदर्भ में पढ़ें१८४ वेणीसंहारं नाटकं रप्पवाणेहिं चिरं णिज्झइअ अद्धपहे एव्व भाईरही विअ आगच्छन्ती जहा भववदा विसमलोअणेण तथा तिधा किदा सत्ती । ( ततो देव, कुमारवृष- सेनेनाकर्णपूरितैनिशितक्षुरप्रबाणैश्चिरं निर्धार्यार्धपथ एव भागीरथीवागच्छन्ती यथा भगवता विषमलोचनेन तथा त्रिधा कृता शक्तिः । ) दुर्योधनः -- साधु वृषसेन, साधु । ततस्ततः । सुन्दरकः - तदो अ देव एदस्सि अन्तले कलमुखरेण वीरलोअसाहुवा- देण अन्तरिदो समरतूरणिग्घोसो । सिद्धवालणगणविमुक्ककुसुमप्पअरेण पच्छादिदं समलङ्गणम् । भणिअं अ सामिणा अङ्गराएण-- 'भो वीर विकोदल, असमत्तो तुह मह वि संसलब्बवारो । ता अणुमण्ण अ मृदु- त्तअम् । पेक्खामहे दाव वस्सस्स तुह भादुणो अ धणुव्वेदसिक्खाचउर- त्तणम् । तुह वि एदं पेक्खणिज्जम्' त्ति । ( ततश्च देव, एतस्मिन्नन्तरे कलमुख- रेण वीरलोकसाधुवादेनान्तरितः समरतूर्यनिर्घोषः । सिद्धचारणगणविमुक्तकुसुमप्रकरेण आकर्णपूरितैः = कर्णमभिव्याप्य पूरितः कर्णपर्यन्ताकृष्टैरित्यर्थः । क्षुरप्रवाणैः = क्षुरप्रनामकबाणविशेषैः, निर्धार्य निश्चित्य, अर्धपथे= यथोऽधं 'अर्धं नपुंसकमिति तत्पुरुषः । एव आगच्छन्ती स्वर्गादित्यर्थः । भागीरथी = भगीरथस्येयम् 'तस्येदमि'- त्यण् डीप् च, भगीरथेनानीता गङ्गा, विषमविलोचनेन = शिवेन, यथा त्रिधा कृता अतएव 'गङ्गा त्रिपथगा' इत्युच्यते तथा शक्तिः त्रिधा कृता अर्धपथ एव । कुमारवृषसेनेन शक्तिखण्डनात्तस्य पराक्रमेण प्रसन्नेः वीरजनैः साधु, साधु इति कृतं तदाह एतस्मिन्नन्तरे इति । कलमुखरेण = शब्देन तत्परमुखेन, यद्यपि वीर- लोकसाधुवादस्य मुखरत्वं न सम्भवति तथापि औपचारिकं तत् । अन्तरितः = प्रच्छादितः समरतूर्यनिर्घोष सङ्ग्रामस्य वाद्यविशेषशब्दः । सिद्धचारणगणविमुक्त- कुसुमप्रकरेण=सिद्धः देवयोनिविशेषः, चारणः कुशीलवः ताभ्यां विमुक्तेन कुसुम- प्रकरेण पुष्पसमूहेन, 'सिद्धो व्यासादिके देवयोनौ निष्पन्नमुक्तयोरि'ति कःपः। चार- क्षुरप्र बाणों से भली भाँति निर्धारित करके आधे मार्ग में ही उस शक्ति को तीन भागों से इस तरह विच्छिन्न कर डाला जिस प्रकार [ स्वर्ग से जाती हुई ] जाह्नवी [ गङ्गा ] को शङ्कर भगवान् ने बीच मार्ग में ही तीन भागों से विभक्त कर दिया था । दुर्योधन - धन्य ! वृषसेन !! तो फिर क्या हुआ ? सुन्दरक - इसके पश्चात् महाराज ! इसी अवसर में वीरों के धन्य धन्य की पुकार के कोलाहल से रणभेरी का शब्द छिप गया । सिद्ध और चारणों के द्वारा की गई पुष्पवर्षा से रणाङ्गण [ युद्धस्थल ] आच्छन्न हो गया और स्वामी कर्ण ने कहा, 'ऐ वीर भीमसेन