वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 22, कुल 355 में से
संदर्भ में पढ़ेंॐ
वेणीसंहार-नाटकम्
‘प्रबोधिनी’–‘प्रकाश’टीकाद्वयोपेतम्
प्रथमोऽङ्कः
निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः करैरिन्दोरन्तश्छुरित इव संभिन्नमुकुलः ।
✤ प्रबोधिनी ✤ राधिकाराधितं कृष्णं शिरसा नौमि साञ्जलिः । वेणीसंहारटीकायाः करणे कृतनिश्चयः ॥ १ ॥ पद्मासनां शुद्धगिरम्प्रणम्य रामेश्वरं ज्ञाननिधिश्च वेणीम् । गुर्वङ्घ्रिचिन्तारतरामदेवः प्रबोधिनीसंवलिताङ्करोति ॥ २ ॥ अन्वयः—निषिद्धैः, अपि, एभिः, मधुकरैः, लुलितमकरन्दः, इन्दोः, करैः अन्तश्छुरितः, इव, सम्भिन्नमुकुलः, हरिचरणयोः प्रकीर्णः, अयम्, पुष्पाणाम्, अञ्जलिः, अस्य, सदसः, नयनसुभगाम्, सिद्धिम्, नः, विधत्ताम् ॥ १ ॥ इह कविकुलमूर्द्धन्यो भट्टनारायणः प्रारिप्सितवेणीसंहारनाटकस्य निर्विघ्नपरि- समाप्तिकामो रङ्गविघ्नोपशान्तिजनकामीश्वरस्तुतिरूपां नान्दीं निर्दिशति—निषि-
✤ प्रकाश ✤ दीन बन्धु भगवान् श्याम सुन्दर वपुधारी । निर्विकार आकारहीन सर्वेश मुरारी । जो अनाथ के नाथ सदा भक्तन हितकारी । चरण कमल में ध्यान धरत जिनके त्रिपुरारी । पुरुष पुरातन ब्रह्म वह, अखिल विश्व के प्राणधन । दें बुद्धि ज्ञान तम नाश करि, नट नागर आनन्दघन ॥ १ ॥