वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 23, कुल 355 में से
संदर्भ में पढ़ें२ वेणीसंहारं नाटकं विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥ १ ॥ द्धेरिति । हरिचरणयोः = कृष्णपादयोः, प्रकीर्णः = विस्तीर्णः अयम्, पुष्पाणामञ्जलिः = पुष्पाञ्जलिस्थकुसुमानि । मञ्चाः क्रोशन्तीतिवदञ्जलिशब्दस्य अञ्जलिस्थपुष्पेषु लक्षणा । अस्य सदसः = सन्निकृष्टसभास्थजनस्य । सदःपदस्य तत्स्थजने लक्षणा । नयन- सुभगां = नेत्रानुरागजनिकां सिद्धिं, नः = अस्माकं, विधत्ताम् = विदधातु । कीदृशो- ऽञ्जलिरित्याकाङ्क्षायामाह — निषिद्धेरिति । निषिद्धैः = वारितैः, अपि, एभिः = उप- स्थितैः, मधुकरैः ॥ मधुव्रतैः 'मधुव्रतो मधुकर' इत्यमरः । लुलितमकरन्दः=लुलितः सञ्चालितः, मकरन्दः पुष्परसः यस्मात् असौ लुलितमकरन्दः, 'मकरन्दः पुष्परसः' इत्यमरः । इन्दोः = चन्द्रमसः, 'हिमांशूश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः' इत्यमरः । करैः = किरणैः, अन्त = मध्ये, छुरितः = व्याप्त इव, अत एव सम्भिन्नमुकुलः = विकसितकुड्मलः, 'कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । चन्द्रकिरणस्पर्शादिवाञ्जलि- स्थकलिका विकसिता, इत्युत्प्रेक्षते कविना, अनेन । श्लोकेनानेन भीष्मादिभिर्निवारिता अपि दुर्योधनादयः प्रवृत्ताः, श्रेष्ठजनाज्ञोल्लङ्घनात् पराजिताश्चेति सूचितम् । यथा निषिद्धालयः पुष्परसं नास्वादयन्ति तथैव दुर्योधनादयोऽपि फलं नाप्नुवन्निति भावः । अत्र निषेधरूपकारणसत्त्वेपि अलोलनरूपकार्याभावात् । विशेषोक्तिरलङ्कारः वाच्यो- त्प्रेक्षा च करैः करैरिति यमकं शब्दालङ्कारः । शिखरिणी छन्दः-रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी' इति लक्षणात् । क्रमशः य म न स भ ल गणैः एकेन गुरुवर्णेन च घटिता षड्भिरेकादशेश्चाक्षरैः कृतविरामा शिखरिणीत्यर्थः । पद्यम् द्वेधा—वृत्तं जातिश्च । तत्र अक्षरसंख्यातं वृत्तम् , मात्रासंख्याता जातिरित्युच्यते । तदुक्तम्—पद्यं चतुष्पदी यच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ इति ॥ तत्र वृत्तगणलक्षणञ्च— मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ॥ जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः । गुरुरेको गकारस्तु लकारो लघुरेकक इति ॥ १ ॥ जिनके कृपाकटाक्ष से प्राप्त हुआ कुछ ज्ञान । आज उन्हीं गुरुचरण में धरता हूँ मैं ध्यान ॥ २ ॥ नान्दीपाठ—श्री भगवान् वासुदेव के चरणों में समर्पित पुष्पाञ्जलि, जिसके मकरन्द को बार-बार निवारण करने पर भी इन बेहया मधुकरों ने बिखेर दिया है तथा सुधांशु की किरणें इसके पुष्पों के भीतर प्रविष्ट होकर कलिका से पुष्प के रूप में परिणत कर दी