वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 24, कुल 355 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण है:
अपि च । कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरमोद्गते- रक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः॥ २ ॥ अन्वयः—कालिन्द्या, पुलिनेषु रासे, रसम्, उत्सृज्य, गच्छन्तीम् केलिकुपि- ताम्, अश्रुकलुषाम्, राधिकाम् अनुगच्छतः तत्पादप्रतिमानिवेशितपदस्य, उद्भूत- रोमोद्गतेः, प्रसन्नदयितादृष्टस्य, कंसद्विषः, अक्षुण्णः, अनुनयः, वः, पुष्णातु ॥ २ ॥ 'आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत ॥' इति दर्पणकारवचनादेकश्लोकमा- त्रस्य नान्दीत्वाभावादाह-कालिन्द्या इति । कालिन्द्याः = यमुनायाः, 'कालिन्दी सूर्य- तनया यमुने'त्यमरः । पुलिनेषु=तोयोत्थितेषु, जलमध्यस्थानेष्विति यावत् । 'तोयो- त्थितं तत्पुलिनमि'त्यमरः । रासे = गोपक्रोडाविशेषे, रसम् = रागम् 'रसः स्वादे जले वीर्ये शृङ्गारादौ द्रवे विषे । बले रागे' इति हैमः । उत्सृज्य=विहाय, गच्छन्तीम्, केलिकुपितां=क्रीडायामेव क्रोधवतीम्, अश्रुकलुषाम् = रुदतीम्, राधिकाम् = कृष्ण- जायाम्, अनुगच्छतः = पश्चाद्व्रजतः, तत्पादप्रतिमानिवेशितपदस्य = यस्याः राधा- याः पादप्रतिमासु चरणचिह्नेषु निवेशिते, दत्ते पदे, चरणौ येन असौ तत्पादप्रति- मानिवेशितपदः, तस्य, राधाचरणचिह्नदत्तचरणस्य अत एव उद्भूतरमोद्गतेः=प्राप्त- रोमाञ्चस्य, प्रसन्नदयितादृष्टस्य = प्राप्तप्रसादराधिकावलोकितस्य, मत्पादाङ्कस्पर्शे- नापि अस्य रोमोद्गतिर्जातेति हेतो राधिका प्रसन्ना भूत्वा विलोकितवतीति भावः । कंसद्विषः = कृष्णस्य, अक्षुण्णः = अखण्डितः अनुनयः = प्रार्थना, वः = युष्मान्, पुष्णा- तुः=पुष्यतु । अनेन श्लोकेन द्रौपद्याः क्रोधो रोदनं शत्रुविनाशेन प्रसन्नता ततश्च भीमकृतानुनयस्याखण्डत्वमित्यपि सूचितम् । अत्र रोमाञ्चाद्यभावस्य कृष्णविषयक- है, इन सभासदों के नेत्रों के लिए आनन्ददायी अभिनय में हम लोगों की सफलता का सम्पादन करे ॥ १ ॥ यमुना के बालुकामय तट पर रास होते समय अप्रसन्न होकर श्री राधिका रानी उन्हें छोड़कर आँसू गिराती हुई चल दीं, कंसारि भगवान् श्रीकृष्ण ने भी उनका अनुसरण किया। राधिका जी के चरण-चिह्न पर भगवान् के चरण पड़ते ही भगवान् के रोम रोम पुलकित हो उठे जिसे देखकर राधिका रानी का भ्रम दूर हो गया और वे मान करना भूल गईं और सतृष्ण नेत्रों से उन्हें देखने लगीं इस प्रकार का भगवान् का अनुनय सभा में समुपस्थित आप सज्जनों का पोषक बने ॥ २ ॥