भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 25, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 25

४ 'वेणीसंहारं नाटकं' अपि च । दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन । आकृष्यास्त्रं सगर्वैरुपशमितवधूसम्भ्रमैर्दैत्यवीरैः सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥ ३ ॥ रतावङ्गत्वान् प्रेयोऽलङ्कारः । कालिकेलि इति छेकानुप्रासः । शार्दूलविक्रीडितं छन्दः । सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ॥ २ ॥ अन्वयः—मयपुरदहने, देव्या, सप्रेम, दृष्टः, असुरीभिः, किमिदमिति भयात्, सम्भ्रमात्, च, शान्तान्तस्तत्त्वसारैः, ऋषिभिः, सकरुणम्, विष्णुना, सस्मितेन, ( सता ) उपशमितवधूसम्भ्रमैः, सगर्वैः, दैत्यवीरैः, अस्त्रम्, आकृष्य, देवताभिः, सानन्दम् ( दृष्टः, ) धूर्जटिः, युष्मान्, पातु ॥ ३ ॥ द्वादशपदानन्यभिप्रायेणाह—दृष्टः सप्रेमेति । मयपुरदहने = मयेन निर्मितम् पुरं मयपुरम्। शाकपार्थिवादित्वादुत्तरपदलोपः । तस्य दहने त्रिपुरासुरपुरदाहकाल- इत्यर्थः । देव्या = पार्वत्या, सप्रेम = सानुरागम् अनुरागे हेतुश्च मत्स्वामिनि ईदृशी शक्तिरिति ज्ञानम्, दृष्टः = विलोकितः । कर्मणि क्तः । असुरीभिः = दैत्यस्त्रीभिः, असुरीति पुंयोगे ङीष् । 'असुरा दैत्यदैतेये'त्यमरः । किमिदमापतितमिति भयात् = भीतेः, सम्भ्रमाच्च = उद्वेगाच्च, उद्वेगश्च-अहो ईदृशस्यापि असुरराजस्य पराभवः कदाचिदस्माकमपि स्वामिनामेव स्यादिति । दृष्ट इत्यस्य सर्वतन्त्रेऽन्वयः । शान्ता- न्तस्तत्त्वसारैः = शान्तमन्तः अन्तःकरणं येषां तेषां सत्यं ब्रह्मेति शान्तान्त- स्तत्त्वं सः सारः, वेद्यत्वेनं प्रधानं येषां ते शान्तान्तस्तत्त्वसाराः तैः, 'तत्त्वं परमात्मनि वाद्यभेदे चे'ति हैमः । ऋषिभिः = मुनिभिः, सकरुणं=सदर्यं सकरुणमिति क्रिया- विशेषणं तेन कर्मत्वम् । विष्णुना=पुण्डरीकाक्षेण, सस्मितेन = ईषद्व्राससहितेन, हासे हेतुश्च कथं दैत्यारेः मम कार्यं शिवः करोतीति । उपशमितवधूसम्भ्रमैः=शमित- स्त्रीसंवेगैः, 'समो संवेगसम्भ्रमो'इत्यमरः । सगर्वैः-साहङ्कारैः, दैत्यवीरैः=असुरशूरैः, 'शूरो वीरश्च विक्रान्त' इत्यमरः । अस्त्रम् = आयुधम् आकृष्य = गृहीत्वा, देवताभिः = मयदानव के द्वारा निर्मित त्रिपुरासुर के नगर को भस्म करते समय देवी उमा के द्वारा बड़े प्रेम के साथ, असुररमणियोंके द्वारा 'अरे ! क्या हो गया' इस प्रकार की पुकार युक्त भय और व्याकुलता के साथ, विषय-वासना से निवृत्तात्मा वशिष्ठादि ऋषियों के द्वारा करुणा के साथ, भगवान् विष्णु के द्वारा मन्द मुस्कान के साथ, शस्त्र उठाकर अपनी भयभीत ललनाओं को आश्वासन देते हुए दैत्यवीरों के द्वारा गर्वीले नेत्रों के साथ, तथा देवताओं द्वारा बड़ी प्रसन्नता के साथ देखे गए भगवान् शङ्कर आप लोगों की रक्षा करें॥३॥