वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 26, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५ ( नान्द्यन्ते ) सूत्रधारः—अलमतिप्रसङ्गेन । श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः । तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ ४ ॥ अमरैः, सानन्दम् = सहर्षम्, दृष्टः, धूर्जटिः = हरः, 'धूर्जटिर्नीललोहितः । हरः स्मर- हरः' इत्यमरः । युष्मान् = सदस्यान्, पातु = रक्षतु । महाभारतसङ्ग्रामोऽपि द्रौप- द्याप्रेम्णा, असुरप्रकृतिभिर्दुर्योधनस्त्रीमानुमत्यादिभिर्भयोद्वेगाभ्यां, व्यासादिभिः सदयम्, दैत्यैः घटोत्कचादिभिः सगर्वैः अस्त्रं गृहीत्वा, इन्द्रादिदेवताभिः सहर्ष, कृष्णेन सस्मितेन दृष्ट इत्यपि अनेन श्लोकेन कथितम् । अत्र शृङ्गारभयानकशान्तयुद्धवीररसानां धूर्ज- टिविषयकरतावङ्गत्वार्द्रसवदलङ्कारः । तथा सानन्दमित्यत्र हर्षाख्यभावस्य तत्रैवाङ्ग- त्वात्प्रेयोलङ्कारः । स्रग्धरा छन्दः । म्रभ्नैर्यानां त्रयेण त्रिमुनियुतियुता स्रग्धरा कीर्तितेयम् ॥ ३ ॥ नान्द्यन्ते = नान्द्या अवसाने । सूत्रधारः = स्थापकः न तु नान्दीकर्ता, नान्दीं प्रयुज्य निष्क्रामेत् सूत्रधारः सहानुगः । स्थापकः प्रविशेत्तत्पश्चात् सूत्रधारगुणाकृतिः ॥ इति वचनात् । नान्दी तु सूत्रधारेणैव पठनीया, 'सूत्रधारः पठेदेनां मध्यमं स्वरमाश्रितः ॥' इति भरतवचनात् । अलमतिप्रसङ्गेन—अन्यानि नाट्याङ्गानि अप्रयोजनानि नव- नाटकदर्शनेच्छया सदस्यानां स्वयमेव कृतावधानत्वात् । अन्वयः—यः, श्रवणाञ्जलिपुटपेयम् , भारताख्यम्, अमृतम्, विरचितवान्, अरागम्, अकृष्णम्, तम्, कृष्णद्वैपायनम्, अहम्, वन्दे ॥ ४ ॥ प्रबन्धस्यास्य महाभारतार्थप्रतिपादकत्वसूचनाय भारतस्य तत्कर्तुर्व्यासस्य च प्रशंसामाह—श्रवणेति । यः = कृष्णद्वैपायनः, व्यास इत्यर्थः । श्रवणमेवाञ्जलिपुटं तेन पेयम् श्रवणाञ्जलिपुटपेयम् = कर्णहस्तसम्पुटश्राव्यम् , 'अञ्जलिस्तु पुमान् हस्तसंपुटे' इति मेदिनी । भारतमाख्या यस्येति भारताख्यम्=महाभारतसंज्ञकम् , अमृतं= सुधासदृशम्, विरचितवान्=अकरोत् , अरागम्=रजोगुणरहितम्, रागस्य रजो- ( नान्दी पाठ के अनन्तर ) सूत्रधार—बस, बस अधिक विस्तार की कोई आवश्यकता नहीं । जिस कृष्ण द्वैपायन [ वेदव्यास ] ने महाभारत नामक अमृत की, जो कानों के छिद्र रूपी अञ्जलिपुट के द्वारा पीने लायक है, रचना की हैं, राग से परे, अज्ञान से रहित उस ( वेदव्यास ) को प्रणाम है !