भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 27, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 27

६ वेणीसंहारं नाटकं ( समन्तादवलोक्य ) तत्र भवतः परिषदग्रेसरान्विज्ञाप्यं नः किंचिदस्ति । कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषोऽत्र । मधुलिह इव मधुविन्दून्विरलानपि भजत गुणलेशान् ॥ ५ ॥ गुणकार्यत्वात् तस्य रजोगुणे उपचारः । अकृष्णम्=अतमसम्, तमोगुणरहितमित्यर्थः । अनेन विशेषणद्वयेन व्यासस्य सत्त्वगुणप्रधानत्वं सूचितम् । तं, कृष्णद्वैपायनं= व्यासम्, अहं = सूत्रधारगुणाकृतिः स्थापकः, वन्दे—प्रणमामि । अत्र भारतेऽमृत- त्वारोपनिमित्तकः श्रवणेऽञ्जलिपुटत्वारोप इति परम्परितरूपकालंकारः । आर्याछन्दः । यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या ॥ इति लक्षणात् । अत्र गणनियमश्च— लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे जः । षष्ठो जश्च न लघु वा प्रथमेऽर्द्धे नियतमार्यायाः ॥ षष्ठे द्वितीयलात्परकेन्ले मुखलाश्च सयतिपदनियमः । चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ इति । जातिगणलक्षणञ्च — ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः । गणाश्चतुलँघूपेताः पश्चार्यादिपु संस्थिताः ॥ इति ॥ ४ ॥ समन्तात् = परितः, चतुर्दिक्ष्वित्यर्थः । तत्रभवतः = पूज्यान् , परिषदग्रेसरान्= सभापुरःसरान्, विज्ञाप्यं = विज्ञापनीयम्, नः=अस्माकम् । ‘बुद्धिभक्षार्थयोः शब्दकर्मणां निजेच्छ्ये’त्यभियुक्तोक्त्या विज्ञाप्यमित्यत्र मुख्ये कर्मणि प्रत्ययाद् गौणकर्मणो द्वितीया । अन्वयः —अत्र, अपरः, कुसुमाञ्जलिः, इव, एषः, काव्यबन्धः, प्रकीर्यते, मधु- विन्दून्, मधुलिहः, इव, विरलान्, अपि, (अस्य) गुणलेशान् ( यूयम् ) भजत । कुसुमाञ्जलिरिति । अत्र सभ्यानामग्रे अपरः=द्वितीयः, कुसुमाञ्जलिरिव = पुष्पाञ्जलिसदृशः, एषः, काव्यबन्धः=कविकृतप्रबन्धः, प्रकीर्यते=विस्तार्यते, मधु- बिन्दून्=मधुपृषतान् , ‘पृषन्ति विन्दुपुषता’ इत्यमरः । मधुलिहः = भ्रमराः, इव, ( चारों तरफ देखकर ) मै आप माननीय सभासद महानुभावों से कुछ विनम्र निवेदन करना चाहता हूँ । इस परिषद् में यह नाटक-काव्य दूसरी पुष्पाञ्जलि की तरह सेवा में उपस्थित किया जाता है इसके लेशमात्र भी गुणों का जो फूलों के रस की तरह हैं, भ्रमर की भाँति आप लोग आस्वादन करें ॥ ५ ॥