वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 28, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ७ यदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारनामकनाटकं प्रयोक्तुमुद्यता वयम् । तदत्र कविपरिश्रमानुरोधाद्वा उदात्तवस्तुकथागौर- वाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये । ( नेपथ्ये । ) विरलानपि = अल्पानपि, 'विरलेऽल्पे कृशे' इति हैमः । गुणलेशान् = गुणकणान् , भजत = सेवध्वम् , गृह्णीतेत्यर्थः । अत्रोत्प्रेक्षापूर्णोपमयोः संसृष्टिः । आर्याछन्दः । लक्षणमुक्तं प्राक् ॥ ५ ॥ इदम् = अग्रेविधास्यमानम् , यत् मृगराजलक्ष्मणः = मृगेण राजते यः स मृगराजः, चन्द्रः तद्वाचकः द्विजराजशब्दः तत्र द्विजराजोपाद्व्यस्येत्यर्थः । एतेन कवेर्ब्राह्मणत्वं सूचितम् । कवेः = प्रबन्धकर्तुः, भट्टनारायणस्य = एतन्नामकस्य, अभि- नवकृति = नूतनकृति, वेणीसंहारनामकं = वेण्याः, द्रौपदीकेशरचनायाः जटाभूताया इत्यर्थः । संहारः, मोचनं यस्मिन् तत् वेणीसंहारं तन्नाम यस्य तद्वेणीसंहारनामकम्, शेषाद्विभाषेति कप्प्रत्ययः । अथवा वेण्याः केशरचनायाः संहारः संयमनम् बन्धन- मित्यर्थः, यस्मिन्, तन्नाम यस्य । संयमनस्य ग्रन्थेन प्रतिपाद्यतासम्बन्धः । नाटकं, प्रयोक्तुं = कर्तुम्, उद्यताः = सन्नद्धाः, वयम् । उदात्तम् = विशुद्धम्, शौर्यादिगुण संयुक्तमित्यर्थः । वस्तु = नाटकस्य प्रधानपात्रं, नायक इत्यर्थः । द्वयोः कर्मधारय- समासः । तस्य कथा = प्रबन्धकल्पना, तत्र गौरवं गुरुत्वं, तस्मात् । नूतनं यन्नाटकम् । नाटकलक्षणञ्च - नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् । प्रख्यातवंशी राजर्षिर्धीरोदात्तः प्रतापवान् ॥ दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः । एक एव भवेदङ्गी शृङ्गारो वीर एव वा ॥ इति । तस्य यद्दर्शनकुतूहलम् तस्मात् । भवद्भिः = सदस्यैः, अवधानं = चित्तेऽचञ्चलतां दीयमानम्, अभ्यर्थये = प्रार्थये । नेपथ्ये = जवनिकान्तर्भूमी । कविकेसरी (सिंह) अथवा द्विजराज पदवी से विभूषित भट्टनारायणद्वारा रचित वेणी- संहार नाटक का अभिनय करने के लिये हम लोग तैयार हो रहे हैं, आप लोगों से प्रार्थना की जाती है कि कवि के परिश्रम के कारण, वा श्रेष्ठाख्यान की महत्ता ही से सही, अथवा नये नाटक के देखने की उत्कट अभिलाषा ही के कारण आप लोग शान्तचित्त हो जायें । ( नेपथ्य में )