वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 224, कुल 355 में से
संदर्भ में पढ़ें२०४ वेणीसंहारं नाटकं विराजमानौ शोकेऽपि तनयाननुशोचतम् ॥ ४ ॥ गान्धारी — जाद, एदं एव्व सम्पदं प्पभूदं जं तुमं वि दाव एक्को णाणु सोचिदव्वो । ता जाद, प्पसीद । एसो दे सीसञ्जली । णिवट्टीअदु सम- रब्वावारादो । अपच्छिमं करेहि पिदुणो वअणम् । ( जात, एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको नानुशोचितव्यः । तज्जात, प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापारात् । अपश्चिमं कुरु पितुर्वचनम् । ) धृतराष्ट्रः—वत्स, शृणु वचनं तवाम्बाया मम च निहताशेषबन्धु- वर्गस्य । पश्य— दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ शोकेऽपि = दुःखे सत्यपि, विराजमानौ = शोभमानौ ( सन्तौ ) अथवा दुःखेऽपि स्थितौ कुन्त्या अपि पुत्रविनाशादिति भावः । युवाम् = मातापितरौ, तनयान् = पुत्रान्, अनुशोचतं = चिन्तयतम् । यथा कुन्तीपुत्रेण तव पुत्रा हतास्तथैव त्वत्पुत्रेण मया कुन्तीपुत्रा हता भविष्यन्तीति भावः । अत्र सहोक्तिरलङ्कारः । अनुष्टुप् छंदः ॥ एतदेव, प्रभूतं = प्रचुरम्, अत्यन्तमित्यर्थः । साम्प्रतं = युक्तम्, 'युक्तं द्वे साम्प्रतं स्थान' इत्यमरः । युक्तमित्याह — यत्त्वमपीति । शीर्षाञ्जलिः = प्रणामः, अनुनय इत्यर्थः । विनय इति यावत् । पितुर्वचनम्, अपश्चिमं = अनुलङ्घ्यम्, कुरु । अन्वयः—ययोः, बलेन, दायादाः, न, गणिताः, तौ, द्रोणभीष्मौ, हतौ, कर्णस्य आत्मजम्, ( कर्णस्य ) अग्रत शमयतः फाल्गुनात्, जगत्, भीतम्, मे वत्सानाम्, निधनेन रिपु अधुना, त्वयि, शेषप्रतिज्ञः, ( अतः ) वैरिषु, मानम्, मुञ्च, ( हे ) तात, इमो, अन्धौ, पितरौ, पालय ॥ ५ ॥ शत्रुपराजयं न कर्तुं शक्नोपित्वमित्याह — दायादा इति । मरे नहीं हैं आपके बहुत से पुत्र मर चुके हैं इससे वह आप लोगों को देखकर प्रसन्न होती है। अब उसके पुत्रों का आज वध करके आप लोगों के समान ही उसे दुःखी बना देता हूँ फिर आप लोग उसके साथ अपने पुत्रों के लिए शोक कीजिए ] ॥ ४ ॥ गान्धारी—पुत्र, इस समय यही अतुलसम्पत्ति है जो कि तुम्हारे एक के विषय में अनुताप नहीं करना है। अतः पुत्र ! प्रसन्न हो । यह तुम्हारे शिर पर मैं हाथ रखती हूँ । [ अर्थात् तुम्हें मेरी सौगन्ध ] युद्ध से विमुख हो जाओ । पिता के निर्देश [ आज्ञा ] की अवहेलना न करो ? धृतराष्ट्र—बेटा ! मेरी और अपने माता की, जिनके सम्पूर्ण परिवार का सत्यानाश हो गया, बात सुनो देखो— जिन दो (भीष्म और द्रोण) के आधार पर तुमने शत्रुओं (पाण्डवों) को तृण समा