वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 225, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०५ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् । वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥ ५ ॥ दुर्योधनः—समयात्प्रतिनिबृत्य किं मया कर्तव्यम् । गान्धारी—जाद, जं पिदा द विउरो वा भणदि । ( जात, यत्पिता ते विदुरो वा भणति । ) संजयः—देव, एवमिदम् ! ययोः = द्रोणभीष्मयोः, बलेन = शक्त्या, दायादाः = बान्धवाः, युधिष्ठिरादयः, 'दायादौ सुतबान्धवौ' इत्यमरः । न, गणिताः, तिरस्कृता इत्यर्थः । तौ द्रोणभीष्मौ हतौ । तथा च तव युद्धावतरणं न युक्तं सहायकाभावादित्याशयः । कर्णबलेन जयः स्यादित्यपि न सम्भवतीत्याह—कर्णस्येति । आत्मजं पुत्रम्, वृषसेनम्, अग्रतः, कर्णस्येत्यस्यात्राप्यन्वयः । तथा च कर्णस्याग्र एव, शमग्रतः = विनाशयतः, फाल्गु- नात् = अर्जुनात्, जगत्, भीतं = त्रस्तम्, येन कर्णेन स्वपुत्ररक्षणमपि नाकारि, तस्य = साहाय्येन जयासंभव इति भावः, मे=मम, वत्सानाम् = एकोनशतसंख्याक पुत्राणाम् निधनेन = मरणेन, रिपुः = भीमः, अधुना, त्वयि, शेषप्रतिज्ञः अस्तीति शेषः । भीमस्य प्रतिज्ञाऽऽसीद्यद् धृतराष्ट्रस्य पुत्रशतं हनिष्यामीति तत्रान्येषां पुत्राणां वधेन त्वमेव प्रतिज्ञाविषयाऽवशिष्टोऽसि तादृशफाल्गुनसाहाय्येन भीमस्य प्रतिज्ञापूर्तौ न कोऽपि संशयः, तथा च तव संग्रामावतरणं न युक्तमिति भावः । ( अतः ) वैरिषु, मानम् = अहङ्कारम्, मुञ्च = त्यज, ( हे ) तात, इमौ अन्धौ = नेत्रविहीनौ, पितरौ पालय । यद्यपि मातुः गान्धार्या नेत्रे आस्तां तथापि पत्युरान्ध्येन गान्धार्यापि पाति- व्रत्यरक्षणार्थं नेत्रे वस्त्रेण आच्छाने अकारिषताम्, अत उच्यते-पितरावन्धाविति । शार्दूलविक्रीडितं छन्दः ॥ ५ ॥ प्रतिनिबृत्य = परावृत्य सङ्ग्रामं त्यक्त्वेत्यर्थः । भी नहीं समझा वे द्रोणाचार्य और भीष्म मार डाले गए। सब लोगों के नेत्र के सामने कर्णपुत्र वृषसेन की हत्या करते हुए अर्जुन से संसार कम्पित हो गया मेरे पुत्रों के संहार से यह शत्रु केवल तुम्हारे लिए अवशिष्ट प्रतिज्ञ है (अर्थात् शत्रु ने अपनी सम्पूर्ण प्रतिज्ञायें पूर्ण कर लीं। केवल तुम्हारे विषय में की गई प्रतिज्ञा अवशिष्ट है) शत्रुविषयक अभिमान का परित्याग करो और अपने इन नेत्रविहीन माता-पिता का पालन करो ॥ ५ ॥ दुर्योधन—युद्ध से विमुख होकर मुझे क्या करना होगा ? गान्धारी—जो तुम्हारे पिता और विदुर कहें। संजय—महाराज ! ऐसा करना चाहिए।