वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 227, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०७ जन्मा हृदयज्वरः । अन्यच्च । तात, अस्खलितभ्रातृशतोऽहं यदा तदाऽनव- धारितवासुदेवसामोपन्यासः, संप्रति हि दृष्टपितामहाचार्यानुजराजचक्र- विपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः सन्धिम् । अन्यच्च । नयवेदिन्संजय, हीयमानाः किल रिपोर्नृपाः संदधते परान् । दुःशासने हतेऽहीनाः सानुजाः पाण्डवाः कथम् ॥ ६ ॥ त्वेन = मूर्खताया 'बालिशस्तु शिशौ मूर्खे' इति मेदिनी । व्यामोहः = वैचित्यम् । अस्खलितभ्रातृशतः = अस्खलितम् अविनष्टं भ्रातृशतं यस्य सः, अवधीरितासुदेव- सामोपन्यासः = अवधीरितः तिरस्कृतः वासुदेवसामोपन्यासः कृष्णकृतशान्तिस्थापनं येन सः, आसमिति क्रियापदशेषः । उदात्तपुरुषव्रीडावहं = महापुरुषलज्जाकरम्, 'उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपी'ति हैमः । असुखावसानम् = असुखम् दुःखम् अवसाने अन्ते यस्य तम् । अन्वयः - रिपोः हीयमानाः, नृपाः' परान्, संदधते, किल, सानुजाः, ( रिपोः ) अहीनाः, पाण्डवाः, दुःशासने, हते, कथम् ( सन्दधते ), ॥ ६ ॥ सम्प्रति सन्धिः सम्भवत्यपि नेत्याह - हीयमानाः किलेति । रिपोः = शत्रो, हीयमानाः = क्षीयमाणाः, नृपाः किल परान् = शत्रुम्, सन्दधते = सन्धिं कुर्वते, किल, सानुजाः 'अत एव रिपोः अहीनाः, पाण्डवाः, दुःशासने हते हीनं, माम् कथं, सन्दधते ? पाण्डवानां सबलत्वान्मम दुर्बलत्वान्नीतिविरुद्धः सन्धिः कथं स्यादिति भावः । अत्र काव्यलिङ्गमलङ्कारः । अनुष्टुप् छन्दः ॥ ६ ॥ वाला हृदयज्वर होता ही है । और भी पिताजी ! जब मैं सौ भाइयों से था उस समय तो वासुदेव [कृष्ण] के शान्ति के उपदेश पर मेरा ध्यान नहीं गया, अब इस समय पितामह [भीष्म], आचार्य [ द्रोण ], कनिष्ठ भ्राता तथा राजन्यमण्डल की विपत्तियों को देखकर अपने केवल शरीर के स्नेह से उदार पुरुषों के लिए लज्जाजनक तथा दुःखान्त सन्धि को पाण्डवों के साथ दुर्योधन किस प्रकार करेगा ? और भी नीतिविशारद संजय । शत्रु की अपेक्षा न्यूनशक्तिवाले राजा लोग शत्रुओं से सन्धि करते हैं। दुःशासन के वधोपरान्त पाण्डव अपने भाइयों के साथ हैं उनमें किसी तरह की न्यूनता नहीं है फिर किस प्रकार वे सन्धि कर सकते हैं । [ अर्थात इस समय मेरे कुटुम्बियों का संहार हो गया है अतः मेरी शक्ति न्यून है, पाण्डवों के भाइयों में से किसी का मरण नहीं हुआ है अतः उनकी शक्ति पूरी है फिर युधिष्ठिर मेरी सन्धि को किस प्रकार स्वीकार कर सकते हैं ? ] ॥ ६ ॥