वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 229, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०९ भ्रातॄणां निहते शते विषहते दुर्योधनो जीवितुम् । तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिना भीमं दिक्षु न विक्षिपामि कृपणः सन्धिं विदध्यामहम् ॥ ७ ॥ गान्धारी—हा जाद दुस्सासण, हा मदङ्कदुल्ललिद, हा जुअराअ अस्सुदपुव्वा क्खु कस्स वि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणी हंद गन्धारी, दुक्खसदं पसूदा ण उण सुदसदम् । ( हा जात दुःशासन, हा युवराज, अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हन्त गान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतम् । ) ( सर्वे रुदन्ति । ) संजयः—( बाष्पमुत्सृज्य । ) तात, अम्ब, प्रतिबोधयितुं महाराजमिमां पार्थः = पृथापुत्रो युधिष्ठिरः, एकेन, अपि अनुजेन = भ्रात्रा, विना एकस्य भ्रातुर्मरण इत्यर्थः । मरणम् = स्वमृत्युम् प्रतिज्ञातवान् । युधिष्ठिरस्येयं प्रतिज्ञाऽऽ- सीद् यदेकस्यापि भ्रातुर्मरणेऽहं न प्राणान् धारयिष्यामीति । दुर्योधनः, भ्रातॄणाम् शते, ( अपि ) निहते, जीवितुम्, विषहते = शक्नोति समर्थोऽस्तीत्यर्थः । अनुचित- मिदमिति भावः । दुःशासनशोणिताशनम् = दुःशासनरुधिरपायिनम् अरिम्, गदा- कोटिना = गदाग्रेण, भिन्नम् = विदीर्णम्, तम् = आततायिनम् भीमम्, दिक्षु = दिशाम्, न, विक्षिपामि, किन्तु विक्षिपाम्येव । कृपणः = कदर्यः, ( सन् ), अहम् सन्धिम्, विदध्याम् = कुर्याम्, न कुर्यामिति भावः । भीमविनाश एव श्रेयान् न पुनः सन्धि- रिति भावः । अत्र यमकं शब्दालङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ ७ ॥ ईदृशी = जीवन इव दुःशासनस्य वक्षसो रुधिरपानरूपा । महाराजं = दुर्योधनम्, प्रतिबोधयितुम् = आश्वासयितुम्, इमाम् भूमि = युद्ध- और सौ भ्राताओं के मृत्यु के मुखमें चले जाने पर भी दुर्योधन जीवित रहना चाहता है । दुःशासन के रक्त पीने वाले उस शत्रु भीम को दिक्पालों के लिए [ यदि ] मैं बलि नहीं बनाता [ तो फिर ] बेचारा बनकर सन्धि करूँगा [ अर्थात् भीम के वध से मेरा मनोरथ सिद्ध होगा न कि सन्धि करने से ] ॥ ७ ॥ गान्धारी—हाय बेटा दुःशासन, हाय मेरी गोद के लाल, हाय युवराज ! संसार में इस प्रकार की विपत्ति किसी भी व्यक्ति पर आज तक नहीं सुनो गई । हाय सौ वीरों को जन्माने वाली गान्धारी तुम्हें धिक्कार है । तूने सौ तरह की विपत्तियों को उत्पन्न किया न कि सौ पुत्रों को । (सब रोते हैं) संजय—(आँसू पोंछता हुआ ) पिता जी और माता जी ! आप लोग महाराज को १४ दे०