वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 230, कुल 355 में से
संदर्भ में पढ़ें२१० वेणीसंहार नाटकं भूमिं युवामागतौ । तदात्माऽपि तावत्संस्तभ्यताम् । धृतराष्ट्रः—वत्स दुर्योधन, एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानबन्धमरिषु त्वदेकशेषजीविताम्बनेयं तपस्विनी गान्धारी कमव- लम्बतां शरणमहं च । दुर्योधनः—श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् । कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः । स्थानम्, युवां = गान्धारीधृतराष्ट्रौ आगतौ । संस्तभ्यतां—स्थिरीक्रियताम् अवल- म्ब्यताम् प्रतिबोध्यमानस्याग्रे स्वयमेव यदि धैर्यच्युतः स्यात्तदा प्रतिबोध्यमानो जनोऽतीव विह्वलः स्यादतः साम्प्रतं युवयोर्विलापो न युक्त इति भावः । विमुखेषु=विपरीतेषु प्रतिकूलेष्वित्यर्थः । भागधेयेषु = भाग्येषु (सत्सु) अरिषु= शत्रुपु, मानबन्धम् = अहङ्कारग्रन्थिम् अमुञ्चति, च त्वयि, त्वदेकशेषजीवितावल- म्बना=त्वम् एकः शेषः अवशिष्टः जीवितावलम्बनम् प्राणाधारः यस्याः सा । शरणम्= रक्षितारम्, 'शरणं गृहरक्षित्रोः' इत्यमरः । अन्वयः—कलितभुवनाः, भुक्तैश्वर्याः, तिरस्कृतविद्विषः, प्रणतशिरसाम्, राज्ञाम्, चूडासहस्रकृतार्चनाः, अरीन्, अभिमुखम्, घ्नन्तः, सङ्ख्ये, शतम्, आत्मजाः, हताः, अम्बया, सहितः, तातः, सगरेण ऊढाम्, धुरम् वहतु ॥ ८ ॥ धैर्यमेव शरणमित्याह-कलितभुवना इति । कलितभुवनाः=कलितम् आयत्तीकृतं भुवनं लोकः यैः ते, भुक्तैश्वर्याः = प्राप्तैश्वर्यभोगाः तिरस्कृतविद्विषः = अवमानित- शत्रवः, प्रणतशिरसाम् = नतमस्तकानाम्, राज्ञाम्, चूडासहस्रकृतार्चनाः = चूडा- आश्वासित करने के लिए यहाँ पर आये हैं अतः पहले अपने को तो आश्वासन दीजिये । धृतराष्ट्र-पुत्र दुर्योधन ! इस प्रकार से विधाता के वाम होने पर और तुम्हारे शत्रु- विषयक स्वाभाविक अभिमान के परित्याग न करने पर तपस्विनी गान्धारी, जिसके लिए केवल तुम्हीं एक जीवनाधार बच गए हो, किसका आधार ले और मैं भी किसकी शरण में जाऊँ ? दुर्योधन-सुनिए जो करने का समय उपस्थित है- [आपके] शतसंख्याकपुत्र, जिन्होंने भूमण्डल का शासन किया है; सम्पत्तियों का उपभोग कर लिया है शत्रुओं को तृण-समान भी नहीं समझा है, नतमस्तक राजाओं के सहस्रों मस्तकों से पूजित होते हुए और सम्मुख आए शत्रुओं का संहार करते हुए