वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 241, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२१ ज्वलनः शोकजन्मा मामयं दहति दुःसहः । समानायां विपत्तौ मे वरं संशयितो रणः ॥ २० ॥ धृतराष्ट्रः—( दुर्योधनं परिष्वज्य रुदन् । ) भवति तनय लक्ष्मीः साहसेष्वीदृशेषु द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् । अन्वयः – दुःसहः, शोकजन्मा, अयम्, ज्वलनः, माम्, दहति, ( एवं ) समा- नायाम्, विपत्तौ, मे, संशयितः, रणः, वरम् ॥ २० ॥ ज्वलन इति । दुःसहः, शोकजन्मा = शोकाज्जन्म यस्य सः, अयम्, ज्वलनः = अग्निः, माम् दहति = भस्मीकरोति, ( एवं सति ) समानायाम् = तुल्यायाम्, यदि सङ्ग्राममपि न करिष्यामि तदापि दाहान्मम मृत्युः स्यादेवातः सङ्ग्रामकरणाकरण- योस्तुल्यत्वम् । विपत्तौ, मे संशयितः = प्राणसंशयस्थानम्, रणः = समरः, वरम् = श्रेष्ठ । रणगमनं युक्तमस्माकं कदाचिज्जयोऽपि स्यादिति भावः । अनुष्टुप् छन्दः ॥ अन्वयः—( हे ) तनय, ईदृशेषु, साहसेषु लक्ष्मीः भवति, ( परम् ) भीमम्, भीमम्, उत्प्रेक्ष्य, एतत्, हृदयम्, द्रवति ( हे ) मानशौण्ड, ते चेष्टितम् अनिकृति- निपुणम्, अरीणाम् सङ्गरम् छलवहुलम्, ( अतः ) हा, हतः अस्मि ॥ २१ ॥ त्वं निश्छलः पाण्डवाश्छलीति कथं तव विजयः स्यादित्याह-भवतीति । तनय= हे पुत्र । ईदृशेषु = सहायकाभावेऽपि युद्धगमनरूपेषु, साहसेषु लक्ष्मीः, भवति । सत्यं संशयः साहसेष्विति पाठे साहसेषु = युद्धगमनरूपेषु सत्यम् संशयः = जया- जयविषयकसन्देहः, भवति, पूर्वपाठे परिमितव्यवहारः । उत्तरपाठे संशये हेतु माह—द्रवतीति । भीमम् भीषणम् भीमम् = भीमसेनम् उत्प्रेक्ष्य = विज्ञाय, एतत्, हृदयम्, द्रवति = भयाच्छिथिलीभवति, हे मानशौण्ड- मानमत्त 'शौण्डौ मत्ते च विख्याते' इति विश्वः । ते=तव, चेष्टितम् = व्यापारः, अतिकृतिनिपुणम् = शोक से उत्पन्न असह्य यह शोकाग्नि मुझे भस्म कर रहा है यदि दोनों प्रकार की विपत्तियाँ [ युद्ध में मृत्यु पाना, शोकाग्नि में भस्म होना ] एक ही प्रकार की हैं तो संशय- ग्रस्त युद्ध श्रेयस्कर होगा । अर्थात् शोक की ज्वाला से जलना ही पड़ेगा । युद्ध में तो मृत्यु. निश्चित नहीं है कदाचित् मैं विजयी बन जाऊँ तो मृत्यु से बच जाऊँगा ऐसी अवस्था में शोक- की ज्वाला में जलने की अपेक्षा युद्ध में जाना मेरे लिये अच्छा होगा ॥ २० ॥ धृतराष्ट्र—दुर्योधन का आलिङ्गन करके रोते हैं । पुत्र ! इस प्रकार के उत्साह से लक्ष्मी की प्राप्ति [ अवश्य ] होती है, [ परन्तु ] इस भयङ्कर भीम को देखकर मेरा हृदय विदीर्ण हो रहा है । हे मानियों में अग्रगण्य ! तुम्हारा