भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 244, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 244

२२४ वेणीसंहारं नाटकं

धृतराष्ट्रः—किं वा शल्य उत वाऽश्वत्थामा । संजयः—हा कष्टम् । गते भीष्मे हते द्रोणे कर्णे च विनिपातिते । आशा बलवती राजञ्छल्यो जेष्यति पाण्डवान् ॥ २३ ॥ दुर्योधनः—किं वा शल्येनोत वाऽश्वत्थाम्ना । कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा । शल्य = मद्रपतिः, अश्वत्थामा = द्रोणपुत्रः । उतशब्दो विकल्पे 'आहो उताहो किमुत विकल्पे' इत्यमरः । अन्वयः—भीष्मे, गते, द्रोणे, हते, कर्णे, च, विनिपातिते (हे) राजन्, शल्यः, पाण्डवान्, जेष्यति, आशा, बलवती, ( भवति ) ॥ २३ ॥ एतादृशेषु वीरेषु सेनापतिषु सत्सु यदि विजयो न जातः तदा शल्येन विजय- स्याशा व्यर्थेत्याह—गते—भीष्म इति । भीष्मे, गते = शरशय्यां प्राप्ते, द्रोणे हते, कर्णे च विनिपातिते = हठाद् व्यापादिते ( सति ) हे राजन् शल्यः पाण्डवान् जेष्यति, न जेष्यतीति भावः । आशा = तृष्णा, बलवती, भवतीति शेषः । केवलमाशेव न तु जयः स्यादिति भावः, अनुष्टुप् छन्दः ॥ २३ ॥ अन्वयः—कर्णालिङ्गनदायी, वा, पार्थप्राणहरः, अपि, वा, अयम्, आत्मौ, अनि- वारितसम्पातैः, अश्रुवारिभिः, ( अभिषिक्तः ) ॥ २४ ॥ स्वयमेवाभिषिक्त इत्याह—कर्णालिङ्गनेति । कर्णालिङ्गनदायी = कर्णालिङ्गनं राधासुतपरिष्वजं दातु शीलमस्य, स्वर्गन् कर्णं मृत्वा आलिङ्गयिष्यामीत्यर्थः । मृतः स्यामिति यावत् । वा = अथवा, पार्थप्राणहरः=अर्जुनस्य विनाशकः, वा, अयम् = धृतराष्ट्र—शल्य को अथवा अश्वत्थामा को (सेनापति अभिषिक्त किए हो) ? संजय—हाय ! दुःख !! भीष्म के संहार होने पर, द्रोणाचार्य के वध होने पर तथा कर्ण की जीवनयात्रा समाप्त होने पर शल्य पांडवों पर विजयी होगा । महाराज ! (कदा नहीं) आशा अतीव प्रबल होती है । अभिप्राय यह है—भीष्मपितामह ऐसे वीर जो संसार में अद्वितीय थे और द्रोणाचार्य के समान भी कोई दूसरा वीर नहीं था । वही दशा कर्ण की भी समझिये । जब ये सब वीर इस संग्राम में तलवार के घाट उतारे गये तो फिर क्या आशा की जाय कि शल्य पाण्डवों को युद्ध में जीतेगा ? केवल आशा बलवती है जो कभी नहीं मरती ॥ २३ ॥ दुर्योधन—शल्य अथवा अश्वत्थामा से क्या प्रयोजन । या तो मैं कर्ण का आलिङ्गन करूँगा या अर्जुन के प्राण का हरणकर्त्ता बनूँगा । निरन्तर