वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 248, कुल 355 में से
संदर्भ में पढ़ें२२८ वेणीसंहारं नाटकं धृतराष्ट्रः—संजय, दारुणः खलूक्षेपः पापस्य । संजयः—तात, कर्मणा कृतनिःशेषविप्रियाः सम्प्रति वाचा व्यवस्यन्ति । दुर्योधनः—सूत, कथय गत्वोभयो 'रयं तिष्ठती'ति । सूतः —यथाऽऽज्ञापयति देवः (तानुपसृत्य ) ननु भो वृकोदराऽर्जुनौ, एष महाराजस्तातेनाऽम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । अर्जुनः—आर्य, प्रसीद । न युक्तं पुत्रशोकोपपीडितौ पितरौ पुनरस्मद्- दर्शनेन भृशमुद्वेलयितुम् । तद्गच्छावः । भीमः—मूढ, अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून् गन्तुम् ( उपसृत्य ।) संजय, पित्रोर्नमस्कृतिं श्रावय । अथवा तिष्ठ स्वयं दारुणः = भीषणम्, उपक्षेपः = फलम् । अथवा भयप्रदर्शनम् । पूर्वपक्षे पाप- स्यर्थः, अघः, उत्तरपक्षे पापिनः भीमस्येत्यर्थः । कर्मणा = क्रियया, कृतनिःशेषविप्रियाः = कृताः निःशेषविप्रियाः सकलापकारा यैः ते, सम्प्रति, वाचा = वाङ्मात्रेण व्यवस्यन्ति = कीर्तयन्ति । तथा च पूर्वमपकारं कृत्वा सम्प्रति कथयति दारुण इति अथवा भीमः पूर्वं दुःशासनादीन् हत्वा साम्प्रतं वाचा दुःखाकरोतीत्यर्थः । उभयोः = भीमार्जुनयोः, अयं = दुर्योधनः । न्यग्रोधच्छायायां = वटच्छायायाम् । सदाचारः = शिष्टव्यवहारः, गुरुजनस्य प्रणामादिरूपस्तदाह—न युक्तमिति । धृतराष्ट्र—संजय ! इस दुरात्मा का दोषारोप तो असह्य है । संजय—पिता जी, कार्य से तो अनिष्ट सीमा तक पहुँचा चुके हैं अब वचन से भी अनिष्ट करने की चेष्टा कर रहे हैं । दुर्योधन—दोनों से जाकर कह दो—'यह बैठे हुए हैं' । सूत—महाराज की जो आज्ञा । (पहले समीप जाकर ) अयि भीमसेन और धनञ्जय ! यह महाराज पिता और माता के साथ वट ( बरगद ) की छाया में बैठे हुए हैं । अर्जुन—आर्य ! क्षमा कीजिए । पुत्रशोक से सन्तप्त माता और पिताजी (गान्धारी और धृतराष्ट्र ) को अपनी आकृति दिखला कर अत्यन्त व्यग्र करना उचित नहीं । अतः [ यहाँ से ] चल दें । भीम—मूर्ख ! सदाचार का उल्लंघन नहीं करना चाहिए ! गुरुजनों को प्रणाम किए बिना जाना उचित नहीं । (समीप जाकर) संजय ! जाकर माता और पिताजी को हम