वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 247, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२७ भीमः—भो भो सुयोधनानुजीविनः, किमिति सम्भ्रमादयथार्थं चरन्ति भवन्तः ! कथयत तावदिदमावयोरगमनं स्वामिनस्तस्य कुरुपतेः । अल- मावयोः शङ्कया । कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥२६॥ अन्वयः—द्यूतच्छलानाम्, कर्त्ता, जतुमयशरणोद्दीपनः, कृष्णाकेशोत्तरीयव्यप- नयनमरुत्, अभिमानी, यस्य, पाण्डवाः, दासाः, सः, दुःशासनादेः, अनुजशतस्य, गुरुः, अङ्गराजस्य, मित्रम्, राजा, असौ, दुर्योधनः, क्व, आस्ते, ( यूयम् ) कथयत, रुषा, द्रष्टुम्, न अभ्यागतौ, स्वः ॥ २६ ॥ अन्येषां शङ्काभावे कारणमाह-कर्ता द्यूतेति । द्यूतच्छलानां = द्यूतम् अक्षैः क्रीडा तदेव छलानि तेषाम्, कर्ता, जतुमयशरणोद्दीपनः=लाक्षामयगृहप्रज्वालन- हेतुः, लाक्षागृहे वसतां पाण्डवानां दाहार्थं तद्गृहं पुरोचनद्वारा दुर्योधनः, प्रजज्वाल । अभिमानी = अहङ्कारी, कृष्णाकेशोत्तरीयव्यपनयनमरुत् = द्रौपदीकेशाम्बरपृथक्करणेन मरुत् वायुरिव, यस्य, पाण्डवाः, दासाः, सः दुःशासनादेः, अनुजशतस्य, गुरुः = श्रेष्ठः । एतेन यस्य साहाय्येन दीभत्समारितं स तु विनष्ट इति सूचितम् । अङ्ग- राजस्य = कर्णस्य, मित्रम्, राजा = नृपाभिमानी असौ, दुर्योधनः क्व, आस्ते, कथयत, यूयमिति शेषः । अस्य कर्मवाक्यं पूर्वोक्तमस्ति इत्यन्तम् । रुषा = क्रोधेन, ( तम् ) द्रष्टुम्, न, अभ्यागतौ = सम्प्राप्तौ स्वः = विद्वावहे अस्-धातोलंटि वसि, 'श्नसोर- ल्लोपः' इत्यकारस्य लोपः । आवामिति शेषः । इह छलनामकं नाट्याङ्गम् । 'प्रियाभे- दप्रियेर्वाक्यैर्विलोभ्य छलनाच्छलम् ।' इति दर्पणकारवचनात् । स्रग्धरा छन्दः ॥२५॥ भीम—अरे अरे सुयोधन के अनुचरो ! भय से क्यों खड़बड़ा रहे हो ? अपने स्वामी कुरुराज तक हम लोगों के आने के इस सन्देश को पहुँचा दो । हम लोगों के विषय में किसी प्रकार का सन्देह न करो । जुआरूपी कपटों का विधाता, लाक्षानिर्मित भवन का दाहकर्त्ता वह अहङ्कारी राजा दुर्योधन, जो द्रौपदी के केश और वस्त्रों के अपहरण करने में वायु के समान है, पाण्डव लोग जिसके सेवक हैं, दुःशासन प्रभृति सौ भाइयों का जो ज्येष्ठ भ्राता है और कर्ण का परम मित्र है, कहाँ है ? बतलाओ । क्रोध से नहीं, किन्तु केवल उनसे मिलने के लिए हम दोनों आये हुए हैं ॥ २६ ॥