भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२७ भीमः—भो भो सुयोधनानुजीविनः, किमिति सम्भ्रमादयथार्थं चरन्ति भवन्तः ! कथयत तावदिदमावयोरगमनं स्वामिनस्तस्य कुरुपतेः । अल- मावयोः शङ्कया । कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥२६॥ अन्वयः—द्यूतच्छलानाम्, कर्त्ता, जतुमयशरणोद्दीपनः, कृष्णाकेशोत्तरीयव्यप- नयनमरुत्, अभिमानी, यस्य, पाण्डवाः, दासाः, सः, दुःशासनादेः, अनुजशतस्य, गुरुः, अङ्गराजस्य, मित्रम्, राजा, असौ, दुर्योधनः, क्व, आस्ते, ( यूयम् ) कथयत, रुषा, द्रष्टुम्, न अभ्यागतौ, स्वः ॥ २६ ॥ अन्येषां शङ्काभावे कारणमाह-कर्ता द्यूतेति । द्यूतच्छलानां = द्यूतम् अक्षैः क्रीडा तदेव छलानि तेषाम्, कर्ता, जतुमयशरणोद्दीपनः=लाक्षामयगृहप्रज्वालन- हेतुः, लाक्षागृहे वसतां पाण्डवानां दाहार्थं तद्गृहं पुरोचनद्वारा दुर्योधनः, प्रजज्वाल । अभिमानी = अहङ्कारी, कृष्णाकेशोत्तरीयव्यपनयनमरुत् = द्रौपदीकेशाम्बरपृथक्करणेन मरुत् वायुरिव, यस्य, पाण्डवाः, दासाः, सः दुःशासनादेः, अनुजशतस्य, गुरुः = श्रेष्ठः । एतेन यस्य साहाय्येन दीभत्समारितं स तु विनष्ट इति सूचितम् । अङ्ग- राजस्य = कर्णस्य, मित्रम्, राजा = नृपाभिमानी असौ, दुर्योधनः क्व, आस्ते, कथयत, यूयमिति शेषः । अस्य कर्मवाक्यं पूर्वोक्तमस्ति इत्यन्तम् । रुषा = क्रोधेन, ( तम् ) द्रष्टुम्, न, अभ्यागतौ = सम्प्राप्तौ स्वः = विद्वावहे अस्-धातोलंटि वसि, 'श्नसोर- ल्लोपः' इत्यकारस्य लोपः । आवामिति शेषः । इह छलनामकं नाट्याङ्गम् । 'प्रियाभे- दप्रियेर्वाक्यैर्विलोभ्य छलनाच्छलम् ।' इति दर्पणकारवचनात् । स्रग्धरा छन्दः ॥२५॥ भीम—अरे अरे सुयोधन के अनुचरो ! भय से क्यों खड़बड़ा रहे हो ? अपने स्वामी कुरुराज तक हम लोगों के आने के इस सन्देश को पहुँचा दो । हम लोगों के विषय में किसी प्रकार का सन्देह न करो । जुआरूपी कपटों का विधाता, लाक्षानिर्मित भवन का दाहकर्त्ता वह अहङ्कारी राजा दुर्योधन, जो द्रौपदी के केश और वस्त्रों के अपहरण करने में वायु के समान है, पाण्डव लोग जिसके सेवक हैं, दुःशासन प्रभृति सौ भाइयों का जो ज्येष्ठ भ्राता है और कर्ण का परम मित्र है, कहाँ है ? बतलाओ । क्रोध से नहीं, किन्तु केवल उनसे मिलने के लिए हम दोनों आये हुए हैं ॥ २६ ॥

२२८ वेणीसंहारं नाटकं धृतराष्ट्रः—संजय, दारुणः खलूक्षेपः पापस्य । संजयः—तात, कर्मणा कृतनिःशेषविप्रियाः सम्प्रति वाचा व्यवस्यन्ति । दुर्योधनः—सूत, कथय गत्वोभयो 'रयं तिष्ठती'ति । सूतः —यथाऽऽज्ञापयति देवः (तानुपसृत्य ) ननु भो वृकोदराऽर्जुनौ, एष महाराजस्तातेनाऽम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । अर्जुनः—आर्य, प्रसीद । न युक्तं पुत्रशोकोपपीडितौ पितरौ पुनरस्मद्- दर्शनेन भृशमुद्वेलयितुम् । तद्गच्छावः । भीमः—मूढ, अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून् गन्तुम् ( उपसृत्य ।) संजय, पित्रोर्नमस्कृतिं श्रावय । अथवा तिष्ठ स्वयं दारुणः = भीषणम्, उपक्षेपः = फलम् । अथवा भयप्रदर्शनम् । पूर्वपक्षे पाप- स्यर्थः, अघः, उत्तरपक्षे पापिनः भीमस्येत्यर्थः । कर्मणा = क्रियया, कृतनिःशेषविप्रियाः = कृताः निःशेषविप्रियाः सकलापकारा यैः ते, सम्प्रति, वाचा = वाङ्मात्रेण व्यवस्यन्ति = कीर्तयन्ति । तथा च पूर्वमपकारं कृत्वा सम्प्रति कथयति दारुण इति अथवा भीमः पूर्वं दुःशासनादीन् हत्वा साम्प्रतं वाचा दुःखाकरोतीत्यर्थः । उभयोः = भीमार्जुनयोः, अयं = दुर्योधनः । न्यग्रोधच्छायायां = वटच्छायायाम् । सदाचारः = शिष्टव्यवहारः, गुरुजनस्य प्रणामादिरूपस्तदाह—न युक्तमिति । धृतराष्ट्र—संजय ! इस दुरात्मा का दोषारोप तो असह्य है । संजय—पिता जी, कार्य से तो अनिष्ट सीमा तक पहुँचा चुके हैं अब वचन से भी अनिष्ट करने की चेष्टा कर रहे हैं । दुर्योधन—दोनों से जाकर कह दो—'यह बैठे हुए हैं' । सूत—महाराज की जो आज्ञा । (पहले समीप जाकर ) अयि भीमसेन और धनञ्जय ! यह महाराज पिता और माता के साथ वट ( बरगद ) की छाया में बैठे हुए हैं । अर्जुन—आर्य ! क्षमा कीजिए । पुत्रशोक से सन्तप्त माता और पिताजी (गान्धारी और धृतराष्ट्र ) को अपनी आकृति दिखला कर अत्यन्त व्यग्र करना उचित नहीं । अतः [ यहाँ से ] चल दें । भीम—मूर्ख ! सदाचार का उल्लंघन नहीं करना चाहिए ! गुरुजनों को प्रणाम किए बिना जाना उचित नहीं । (समीप जाकर) संजय ! जाकर माता और पिताजी को हम

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२९ विधाव्य नामकर्मणी वन्दनीया गुरवः । ( इति रथादवतरतः ) अर्जुनः - ( उपगम्य । ) तात ! अम्ब, सकलरिरुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ २७ ॥ भीमः - चूर्णिताशेषकौरव्यः क्षीबो दुःशासनाऽसृजा । अन्वयः- यत्र, ते, सुतैः, सकलरिपुजयाशाः बद्धा, यस्य, गर्वेण, लोकः, तृण- मिव परिभूतः, तस्य, राधासुतस्य, रणशिरसि, निहन्ता, अयम्, मध्यमः, पाण्डवः, वाम्, पितरौ, प्रणमति ॥ २७ ॥ सकलेति । यत्र = कर्णे ते = तव, सुतैः, सकलरिपुजयाशा = निखिलशत्रूणां जयाशा जयस्य तृष्णा, बद्धा = स्थापिता, यस्य, गर्वेण, लोकः = जगत् , तृणमिव, परिभूतः = तिरस्कृतः, तस्य राधासुतस्य = कर्णस्य, रणशिरसि = रणः शिर इव तस्मिन्, निहन्ता = विनाशयिता, अयम्, मध्यमः, पाण्डवः = पाण्डुपुत्रः, अर्जुनः, वाम् - युवाम्, पितरौ = मातापितृसदृशौ, 'पिता मात्रा' इत्येकशेषः । प्रणमति = नमस्करोति । मालिनी छन्दः ॥ २७ ॥ अन्वयः - चूर्णिताशेषकौरव्यः, दुःशासनासृजा, क्षीवः, सुयोधनस्य, ऊर्वोः, भङ्क्त्ता, अयम्, भीमः, शिरसा, वन्दति ॥ २८ ॥ तव पुत्रस्य विनाशकोऽहं प्रणमामीत्याह - चूर्णितेति । चूर्णिताशेषकौरव्यः = दोनों का नमस्कार सुना दीजिए। अथवा रहिए स्वयं नाम और कर्म सुनाकर गुरुजनों का अभिवादन करना चाहिये ।

  • ( यह कहकर रथ से उतर पड़ते हैं ) अर्जुन- ( समीप आकर ) पिता जी और माता जी ! आपके पुत्र जिसके आधार पर समग्र शत्रुओं पर विजय प्राप्त करने की आशा लगाए हुए थे और जिसके अहङ्कार से संसार तिनके के सदृश तिरस्कृत हुआ उसी रथकार के पुत्र का संग्राम के शीर्ष दलनकारी यह मँझला पाण्डव अर्जुन आप गुरुजनों को प्रणाम करता हैं ॥ भीम- सम्पूर्ण कौरवों का मर्दनकारी दुःशासन के रक्तपान से मत्त यह भीम, जो

२३० वेणीसंहारं नाटकं भङ्क्त्वा सुयोधनस्योर्वोर्भीमोऽयं शिरसाऽञ्चति ॥ २८ ॥ धृतराष्ट्र – दुरात्मन्वृकोदर, न खल्विदं भवतेव केवलं सपत्नानामप- कृतम् यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि । भीमः – तात, अलं मन्युना । कृष्णा केशेषु कृष्टा तव सदसि पुरः पाण्डवानां नृपैर्यैः सर्वे ते क्रोधवह्नौ कृशशलभकुलावज्ञया येन दग्धाः । चूर्णिता अशेषकौरव्या येन सः दुःशासनाऽसृजा = दुःशासनवक्षोरुधिरेण, क्षीवः = मत्तः, सुयोधनस्य, ऊर्वोः = सक्थ्नोः, भङ्क्ता = त्रोटकः, अयम्, भीमः, शिरसा, अञ्चति = पूजयति, प्रणमतीत्यर्थः, अनुष्टुप् छन्दः ॥ २८ ॥ सपत्नानां = शत्रूणाम् । वीरा = समरविजयिनः, जिताः हताश्च, भवन्तीति शेषः । विकत्थनाभिः = प्रशंसाभिः । मन्युना = क्रोधेन । अन्वयः – पाण्डवानाम्, पुरः, तव, सदसि, यैः, नृपैः, केशेषु, कृष्णा, कृष्टा, ते सर्वे, येन, क्रोधवह्नौ, कृशशलभकुलावज्ञया, दग्धा, खलु, एतस्मात्, अहम्, श्रावये भुजबलाश्लाघया, न, नापि, दर्पात्, (श्रावये) तात, पुत्रैः पौत्रैः, च कृते, अतिगुरुणि कर्मणि, त्वमेव, साक्षी ॥ २९॥ महत् पापस्य फलमेतदिति बोधनायोक्तं नतु दर्पादित्याह – कृष्णा केशेष्विति । पाण्डवानाम् , पुरः = अग्रे, एतेन, वलवतः स्वामिनोऽग्र एवाकर्षणमतीव क्रोधहेतु- रिति ध्वनितम् । एकान्ते साधारणमनुष्यसमक्षकचाकर्षणमनर्थकरं किं पुनः राज सभायामित्याह – तव सदसीति । तव = राज्ञ , सदसि = सभायाम्, यैः कर्तृभिरनु- मन्तृभिर्दृष्टृभिर्वा । नृपैः । नतु साधारणमनुष्यैः । केशेषु = केशावच्छेदेन, कृष्णा = पाण्डववधूः, न तु साधारणस्त्री कृष्टा, ते, सर्वे, येन = पापाचरणरूपहेतुना, क्रोधवह्नौ, सुयोधन के जंघों को भग्न करने वाला है, सिर झुकाकर नमन करता है ॥ २८ ॥ धृतराष्ट्र – दुष्ट भीम ! यह शत्रुओं का अपकार केवल तुमने ही नहीं किया है किन्तु जब से क्षत्रिय है तब से कितने ही युद्ध में विजय प्राप्त करने वाले योद्धा बने और नाश को प्राप्त हो गये । तो फिर क्यों इस प्रकार से गाल बजाकर हम लोगों को व्यथित कर रहे हो ? भीम – पिता जी ? बस, क्रोध न कीजिए । जिन राजाओं के द्वारा आप [धृतराष्ट्र] की सभा में पाण्डवों की गृहिणी पाञ्चाली [द्रौपदी] केश ग्रहण करके आकृष्ट की गई है, जिस कारण वे सब क्षुद्र टिड्डियों के कुल की तरह अनायास ही क्रोधाग्नि में भस्म हो गए हैं । इसलिए मैं आपको सुनाता हूँ,

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३१ एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा- त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ २९ ॥ दुर्योधनः-अरे रे मरुत्तनय, किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्य- मारत्मकर्म श्लाघसे ? अपि च । कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी । अस्मिन्वैरा नुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा कृशशलभकुलावजया = क्षुद्रपतङ्गकुलतुल्यापमानेन दग्धाः, खलु = निश्चयेन, एत- स्मात् = इतो हेतोः, अहम् श्रावये, भुजबलश्लाघया न नापि, दर्पात् तात = पितृव्य, पुत्रैः, पौत्रैश्च, कृते, अतिगुरुणि, कर्मणि, त्वमेव, साक्षी = साक्षाद् द्रष्टा । न कपोल- कल्पितं कथयामीति भावः । स्रग्धरा छन्दः । २९ ॥ अन्वयः-मम, भुवनपतेः आज्ञया भूपतीनाम्, प्रत्यक्षम्, द्यूतदासी, तव, पशोः, तव, च तस्य, राज्ञः, तयोः, वा, भार्या, केशेषु कृष्टा, अस्मिन्, वैरानूबन्धे, ये, नरेन्द्राः, हताः, तैः, किम्, अपकृतम्, वद, बाह्वोः, वीर्यातिरेकद्रविणगुरुमदम्, माम्, अजिस्वा एव, दर्पः ॥ ३० ॥ निरपराधिनां तेषां हननाद्गर्वो वृथा तवेत्याह कृष्टेति । मम, भुवनपतेः = पृथवीशस्य, एतेनाज्ञापालकत्वं तेषां धर्म इति ध्वनितम्, आज्ञया, भूपतीनाम्, प्रत्यक्षम् द्यूतदासी = द्यूते निर्जितत्वाद् दासीकृता । अत एवापमानयोग्या । तव = अर्जुनस्य, पशोः, पशुतुल्यस्य, तव = भीमस्य, च भीमार्जुनयोः सम्बोध्यत्वात् तवद्वयस्य प्रयोगः । तस्य, राज्ञः = युधिष्ठिरस्य, तयोः = नकुलसहदेवयोः वा भार्या, केशेषु, कृष्टा, अस्मिन् = आकर्षणरूपे, वैरानूबन्धे = वैरजनके ये, नरेन्द्रा, हताः, तैः किम्, अपकृतम्, वद = कथय । अपकर्ता त्वहमेवेति भावः । बाह्वोः = भुजयोः, न कि बाहुबल की प्रशंसा से और न अभिमान के कारण सुनाता हूँ । पुत्र पौत्रों के द्वारा किए गए भीषण तथा दुष्कर कार्य के साक्षी पिताजी ! आप ही तो हैं ॥ २९ ॥ दुर्योधन-अरे रे ! वायुकुमार, क्यों अजर्जूर्ण महाराज ( पिता जी ) के समक्ष इस प्रकार से अपने कुत्सित कर्म की प्रशंसा कर रहे हो ? और भी- भीम और अर्जुन न । मूर्ख उस राजा युधिष्ठिर, नकुल, सहदेव और राजन्यमण्डलों के देखते हुए जुए में सेविका बनाई गई तुम्हारी भार्या द्रौपदी केश पकड कर विश्व के अधिपति मेरी आज्ञा से आकृष्ट की गई। इस शत्रुता के सम्बन्ध में (तुम्हीं लोग बतलाओ) उन राजाओं ने क्या अपराध किया था, जिनका संहार हुआ है ? भुजाओं के पराक्रमाति-

२३२ वेणीसंहारं नाटकं वाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वाैव दर्पः ॥ ३० ॥ ( भीमः क्रोधं नाटयति । ) अर्जुनः-आर्य, प्रसीद । किमत्र क्रोधेन । अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा । हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ ३१ ॥ भीमः-अरे रे भरतकुलकलङ्क, अत्रव किं न विशसेयमहं भवन्तं वीर्यातिरेकद्रविणम् = पराक्रमाधिक्यमेव द्रविणं धनं -तेन गुरुः अधिकः, मदः यस्य तम्, 'अतिरिक्तः समधिकः' इत्यमरः । माम् = दुर्योधनम्, अजित्वाैव = जयमप्राप्येव, दर्पः = अहंकारः, साम्प्रतं तेऽहंकारो न युक्त इति भावः । स्रग्धरा छन्दः ॥ ३० ॥ अन्वयः-हतभ्रातृशतः, दुःखी, एषः, वाचा, अप्रियाणि, करोति । ( यतः ) कर्मणा, न शक्तः, ( अतः ) अस्य, प्रलापैः, का व्यथा ॥ ३१ ॥ अस्य वचनाद्, क्रोधो न कार्य इत्याह-अप्रियाणीति । हतभ्रातृशतः=हताः भ्रातृशतं यस्य सः, अतएव, दुःखी, एषः=दुर्योधनः, वाचा, अप्रियाणि = अपकारान्, करोति, परुषवचनं वक्तीत्यर्थः, यतः कर्मणा न, शक्तः ऽऽ समर्थः ( अतएव ) अस्य, प्रलापैः = विरुद्धवचनैः, का, व्यथा = दुःखम् । एतद्वचनेन दु खं न कर्तव्यमतएव ते क्रोधो न युक्त इति भावः । अनुष्टुप् छन्दः ॥ अन्वयः-( हे ) कटुप्रलापिन्, ते, मद्गदाग्निनिभिद्यमानरणितास्थनि, शरीरे, विघ्नम्, यदि, गुरुः, न, कुरुते, तदा, दुःशासनानगमनाय, अहम्, भवन्तम्, अत्रैव, किं न, विशसेयम् ॥ ३२ ॥ अत्रैवेति । अहम्, भवन्तम् = दुर्योधनम्, अत्रैव = समरप्राङ्गणान् बहिरेव अथवा शयरूपद्रव्य के कारण महान् अहङ्कारशाली मुझ [ दुर्योधन ] पर विजय पाए बिना ही तुम्हें गर्व हो रहा है ॥ ३० ॥ [ भीम क्रोध की अभिव्यक्ति करता है ] अर्जुन-आर्य ! क्षमा कीजिए । इस पर क्रोध करने से क्या लाभ ? यह वचन से ही अहित करता है कर्म से अहित करने में समर्थ नहीं है । सौ भाइयों के विनाश से व्यथित इस दुर्योधन के बकबकाने से कष्ट ही क्या है ॥ ३१ ॥ भीम-अरे अरे ! भरतवंश के कलङ्क । ऐ क्रूरभाषिन् [ दुर्योधन ] दुःशासन का अनुसरण करने के लिए यहीं पर तुम्हें क्यों

२३४ वेणीसंहारं नाटकं दुर्योधनः—दुरात्मन्, भरतकुलापसद, पाण्डवपशो, नाहं भवानिव विकत्थनाप्रगल्भः । किन्तु— द्रक्ष्यन्ति नचिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे । मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ॥ ३४ ॥ भीमः—( विहस्य । ) यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि । पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसञ्चूर्णितोरोः - तीव्रवेदना, आसीत् । त्वत्कुलविनाशकमदीयक्रोधेन त्वयि तीव्रवेदनाप्रापिते साम्प्रतं वधस्य समय आगतः, पूर्वं वधे तु तव तीव्रवेदनानुभवो न स्यादिति भावः । मन्दाक्रान्ता छन्दः ॥ ३३ ॥ विकत्थनाप्रगल्भः = स्वप्रशंसायां धृष्टः । अन्वयः—बान्धवाः, रणाङ्गणे, मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् (अत एव ) सुप्तम्, त्वाम्, नचिरात्, द्रक्ष्यन्ति ॥ ३४ ॥ द्रक्ष्यन्तीति । पाण्डवाः, रणऽङ्कणे = समराङ्कणे, मद्गदाभिन्नवक्षोऽस्थिवेणिका- भीमभूषणम् = मद्गदया भिन्नानां वक्षोऽस्थ्नां या वेणिका प्रवाहः रुधिरधारा सैव भीमम् भयावहम् भूषणम् अलङ्कारः यस्य तम्, 'वेणी तु केशवेशे स्यात्प्रवाहेऽपि निगद्यते' इति धरणिः । ततः स्वार्थे कप्रत्यये ह्रस्वत्वे च वेणिकेतिनिष्पन्नम् । अतएव सुप्तम्=मृतम्, त्वाम् = भीमम्, नचिरात्=शीघ्रम्, निषेधार्थक नशब्देन सुप्सुपेति समासः । द्रक्ष्यन्ति अवलोकयिष्यन्ते । अनुष्टुप् छन्दः ॥ ३४ ॥ प्रत्यासन्नम् = अतिसमीपम् । अन्वयः - श्वः, प्रभाते, पश्यताम्, नृणाम्, (अग्रे) पीनाभ्याम्, मद्भुजाभ्याम्, भ्रमितगुरुगदाघातसञ्चूर्णितोरोः, क्रूरस्य, तव, शिरसि, पादम् आधाय, त्वन्मुख्य- भ्रातृचक्रोद्वलनगन्धतृप्तचन्देन, स्त्यानेन, आर्देण, च, आनखाग्रम् अक्तः, स्वयम्, ( अहम् ) भीमम् भूषणम्, अनुभविना, अस्मि ॥ ३५ ॥ ध्वस्य जघनत्रोटनं कविष्यामीति प्रतिजानाति भीमः - पीनाभ्यामिति । श्व.= दुर्योधन—दुष्ट, भरतवंश में नीच, पाण्डवपशु, तुम्हारी तरह मैं डींग नहीं मारता । किन्तु— शीघ्र ही तुम्हारे कुटुम्ब वाले समरभूमि के बीच मेरी गदा से भेदन की गई पसलियों केलुगदीरा भयानक आभूषण से विभूषित तुम्हें देखेंगे ॥ ३४ ॥ भीम— यदि इस प्रकार कह रहे हो तो फिर [ऊरुभङ्ग होना] समीप ही है कहता हूँ— कल प्रभातकाल होते ही अपने स्थूल भुजदण्डों से घुमाई हुई विशाल गदा के प्रहार से

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३५ क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते । त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनाऽऽनखाग्रं स्त्यानेनाद्रेण चाक्तः स्वयमनुभविता भीषणं भीममस्मि ॥३५॥ ( नेपथ्ये ) भो भो भीमार्जुनौ, एष खलु निहताशेषारातिचक्राक्रान्तपरशुरामाभि- रामयशाः, प्रतापतापितदिङ्मण्डलः स्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति । उभौ—किमाज्ञापयत्यार्यः । ( पुनर्नेपथ्ये । ) ‘वागामिदिने, अनागतेऽह्नि श्वः' इत्यमरः । प्रभाते, पश्यताम्, नृणाम्, अग्र इति शेषः । पीनाभ्याम् = परिपुष्टाभ्याम्, मदभुजाभ्याम्, भ्रमितगुरुगदाघातसञ्चूर्णितोरो = घूर्णितवृहद्गदाघातेन चूर्णिते जघने यस्य तस्य, क्रूरस्य तव, शिरसि, पादम् = चरणम्, आधाय = धृत्वा, त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेन = त्वं मुख्यं यस्य तच्च भ्रातृचक्रम् तस्योद्दल्लनेन गलत् असृक् तदेव चन्दनम् तेन, पुनः कीदृशेन स्त्यानेन = घनीभूतेन, आर्द्रण = क्लिन्नेन, च, अक्तः—व्याप्तः, स्वयम्, ( अहम् ) भीमम् = भयावहम् भूषणम् = अनुभविता, अस्मि । स्रग्धरा छन्दः ॥ निहताशेषारातिचक्राक्रान्तपरशुरामाभिरामयशाः = निहतानि यानि अशेपारा- तिचक्राणि = सकलशत्रुसमूहः तैः आक्रान्तम् परशुरामाभिरामयशः यस्य सः, यथा परशुरामेण सकलाः क्षत्रियादयो निहताः तथैव युधिष्ठिरेणापि शत्रवो निहता इति तत्तुल्ययशा युधिष्ठिर इति भावः । भग्नजङ्घ तुझ दुरात्मा के शिर पर चरण रख कर तथा जिन भ्रातृवर्ग के ज्येष्ठ तुम हो उनके संहार करने पर बहते हुए रक्तरूपी गाढ़े और गीले चन्दन से नख से शिर तक लिप्त होकर मैं स्वयं भीषण आभूषण धारण कर लूँगा ॥ ३५ ॥ ( नेपथ्य में ) अरे अरे भीमसेन और अर्जुन ! यह देवतारूप अजातशत्रु श्रीमान् युधिष्ठिर, जो सम्पूर्ण शत्रुसमूह का संहार करके परशुराम के शुभ यश को जीत लिये हैं तथा अपने प्रताप से दिशाओं को सन्तप्त कर दिए हैं, आज्ञा दे रहे हैं ? दोनों—[ भीम और अर्जुन ] श्रीमान् क्या आज्ञा दे रहे हैं ? ( फिर नेपथ्य में )

२३६ वेणीसंहारं नाटकं कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा- नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान्गृध्रकङ्कै- रस्तं भास्वान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि ॥ ३६ ॥ उभौ—यदाज्ञापयत्यार्यः । ( इति निष्क्रान्तौ । ) ( नेपथ्ये । ) अरे रे गाण्डीवाकर्षणबाहुशालिन्, अर्जुन, अर्जुन, क्वेदानीं गम्यते ? अन्वयः—आप्ताः, जनाः, रणशिरसि, हतानाम्, देहभारान्, वह्निसात्, कुर्वन्तु, अमी, बान्धवाः, बान्धवेभ्यः, अश्रून्मिश्रम्, जलम्, ददतु, हतनरगहने, गृध्रकङ्कैः, खण्डितान्, ज्ञातिदेहान्, मार्गन्ताम्, अयम्, भास्वान्, रिपुभिः, सह, अस्तम्, प्रयातः, ( अतः ) बलानि, संह्रियन्ताम् ॥ ३६ ॥ कुर्वन्त्वाप्ता इति । आप्ताः = स्वीयाः, जनाः = बान्धवाः, रणशिरसि, हतानाम्, देहभाराम् = शरीरसङ्घान् वह्निसात् = कार्त्स्न्येन वह्निदेयान्, 'विभाषा साति कार्त्स्न्ये' इति साति प्रत्ययः । कुर्वन्तु, अमी, बान्धवाः, बान्धवेभ्यः ( मृतेभ्यः ) अश्रून्मिश्रम् = अश्रु भिरुन्मिश्रम् मिलितम्, जलम्, कथञ्चिद् ददतु 'त्वदम्यस्ता'दिति झ्यात्, हतनरगहने = हतनरा एव गहनं वनम् तस्मिन्, गृध्रकङ्कैः = मांसभक्षक- पक्षिविशेषैः खण्डितान्, ज्ञातिदेहान् = बान्धवशरीराणि, मार्गन्ताम् = गवेषन्ताम्, अयम्, भास्वान् = सूर्यः, रिपुभिः सह, अस्तम्, प्रयातः, सूर्यास्तमिव शत्रोरपि अस्त- मभूदिति भावः । अत इत्यध्याहारः । बलानि = सैन्यानि, संह्रियन्ताम् । अत्र सहो- क्तिरलङ्कारः । स्रग्धरा छन्दः ॥ ३६ ॥ गाण्डीवाकर्षणबाहुशालिन् = गाण्डीवाकर्षणे यौ बाहू ताभ्यः शालने तत्सम्बोधनम्- कुटुम्बी जन संग्राम में प्राणविसर्जन करने वाले लोगों के शरीरों के समूह को अग्नि मे जला डालें [अर्थात दाह-क्रिया सम्पादन कर डालें] ये बान्धव अपने गोत्रवालों के लिए अश्रुपात करते हुए तिलाञ्जलि प्रदान करें, मरे हुए योद्धाओं के लोथ से गहन इस रणस्थली में गीध तथ बकों के द्वारा खण्डित शरीर वाले अपने जातियों का अन्वेषण करें; और अब यह सप्तांशु [सूर्य] शत्रुओं के साथ ही अस्ताचल का अवलम्बन कर रहे हैं अतः अपनी सेनाओं को [आप लोग] एकत्रित कर लें ॥ ३६ ॥ दोनों—अच्छा महाराज की जो आज्ञा । चल पड़ते हैं ) ( नेपथ्य में ) अरे ओ ! गाण्डीव को आकृष्ट करने वाले भुजाओं से युक्त अर्जुन ! अर्जुन !! अब

५. पञ्चम अङ्क: धृतराष्ट्र-गान्धारी अनुनय एवं अर्जुन-भीम संवाद

कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि प्रौढं विक्रान्तमासीद्वन इव भवता शूरशून्ये रणेऽस्मिन् । स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेताः कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रोणिरस्मि ॥ ३७ ॥ धृतराष्ट्रः—( आकर्ण्य सहर्षम् ।) वत्स दुर्योधन, द्रोणवधपरिभवोद्दीपित- र्धने अथवा गाण्डीवाकर्षणौ यौ बाहू नन्द्यादित्वात्कर्तरि ल्युप्रत्ययः । अन्वयः—एतानि, अहानि, युष्मद्विजयि, इदम्, धनुः, कर्णक्रोधेन, त्यक्तम्, ( अतएव ) शूरशून्ये, वने, इव, अस्मिन्, रणे, विक्रान्तम्, प्रौढम्, आसीत्, अनव- जितन्यस्तहेतेः, पितुः, उत्तमाङ्गे, स्पर्शम् स्मृत्वा, पाण्डवानाम् कल्पाग्निः, द्रुपदसुत- चमूघस्मरः, द्रोणिः, अस्मि, उपेतः ॥ ३७ ॥ कर्णक्रोधेन त्यक्तधन्वाऽश्वत्थामा, आह - कर्णक्रोधे ति । एतानि = मत्पितुर्मरणा- नन्तरं कर्णमरणपर्यन्तम्, अहानि=दिनानि, कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, युष्मद्विजयि=पाण्डवस्य जेतु, एतेन मदनुपोऽभावादेव साम्प्रतं त्वं विजयीति ध्वनितम् । इदम्, धनुः, कर्णक्रोधेन 'मूढ दुःशितस्याश्रुपात' इत्यादिपुरुषवचनेन कर्णोपरि सञ्जातक्रोधोऽश्वत्थामा प्रतिज्ञातवान् जीविते कर्णे नाहं शस्त्रं ग्रहीष्यामीति भावः । त्यक्तम्, ( अतएव ) शूरशून्ये=वीररहिते ममाभावादिति भावः । वने इव अस्मिन् रणे भवतः = पाण्डवस्य, विक्रान्तम्=विक्रमः, भावे क्तः । प्रौढम्, आसीत् । अनवजितन्यस्तहेतेः=अनवजिता अपराजिता न्यस्ता शोकेन त्यक्ता हेतिः अस्त्रं येन तस्य, पितुः = द्रोणस्य, उत्तमाङ्गे-शिरसि, स्पर्शम् स्मृत्वा, पाण्डवानाम्, कल्पाग्निः = प्रलयकालिकाग्नितुल्यः, द्रुपदसुतचमूघस्मरः=धृष्टद्युम्नसैन्यभक्षकः, घस्मर इति घस्धातोः 'सृघस्यदः क्मरच्' इति क्मरच् प्रत्ययः, द्रोणिः = द्रोणपुत्रः, अस्मि= अहम् । उपेतः = आगतः । पितृहननप्रतिक्रियां साम्प्रतं करिष्यामीति भावः । स्रग्धरा छन्दः ॥ ३७ ॥ कहाँ जा रहे हो ? इतने दिन तक कर्ण पर कोप करने के कारण तुम लोगों पर विजय प्राप्त करने वाले इस धनुष को मैंने छोड़ रक्खा था । जङ्गल की भाँति वीरविहीन इस समराङ्गण में तुमने अतुल पराक्रम प्रदर्शन किया है । विजित होकर शस्त्र परित्याग कर देने वाले पिता के शिर के स्पर्श- को स्मरण करके पाण्डवों के लिए प्रलयाग्नि के सदृश और द्रुपद के पुत्र [ धृष्टद्युम्न ] के लिए कृन्तक [ काल ] द्रोणतनय [ अश्वत्थामा ] मैं आ ही पहुँचा ॥ ३७ ॥ धृतराष्ट्र-( सुनकर प्रसन्नतापूर्वक ) पुत्र दुर्योधन, पिता से भी अधिक पराक्रम, सम्पन्न,

२३८ वेणीसंहारं नाटकं क्रोधपाकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तादवयं सम्भाव्यतां वीरः । गान्धारी-जाद, पच्चुगच्छ एदं महाभाअम् । (जात, प्रत्युद्गच्छ महाभागम् ।) दुर्योधनः-तात, अम्ब, किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्र- बलभरेण ? धृतराष्ट्रः-वत्स, न खल्वस्मिन्काले पराक्रमवतामेवविधानां वाङ्मात्रे णापि विरागमुत्पादयितुमर्हसि । ( प्रविश्य ) अश्वत्थामा-विजयतां कौरवाधिपतिः । दुर्योधनः-( उत्थाय ) गुरुपुत्र, इत आस्यताम् । ( इत्युपवेशयति । ) अश्वत्थामा-राजन्दुर्योधन, कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा क्रोधपावकः=क्रोधः पावकः अग्निरिव, अमरोपमः=देवतुल्यः, प्रत्युगमनेन = प्रत्युत्थानादिना, सम्भाव्यताम् = विशिष्यताम्, पूज्यतामिति यावत् । विरागम्-औदासीन्यम् । आस्यताम् = उपविश्यताम् । अन्वयः-कर्णेन, यत्, कर्णसुभगम्, तत्, बहु, उक्त्वा, सङ्गरेषु यत्, विहितम् तत्, त्वया, विदितम्, अधुना, अभ्यमित्रम्, अधिज्यधनुः, एषः, द्रोणः, आपतितः ( अतः ) ( हे ) नृप, प्रतिकारचिन्ताम्, त्यज ॥ ३८ ॥ धनुर्वेद-विशारद; देवता-सदृश यह अश्वत्थामा जिसकी क्रोधाग्नि ने द्रोणाचार्य के वधरूप अपमान से प्रचण्डरूप धारण कर लिया है, आ गया है । गान्धारी-पुत्र ! इन महाभाग का स्वागत करो । दुर्योधन-पिता तथा माता जी ! अङ्गनरेश [ कर्ण ] के वध की कामना करने वाले तथा व्यर्थ ही यौवन और शस्त्रबल का गर्व रखने वाले इस [अश्वत्थामा] से क्या प्रयोजन ? धृतराष्ट्र-पुत्र ! ऐसे समय में इस प्रकार के पराक्रमियों के प्रति वचन मात्र से भी विरक्ति नहीं होने देना चाहिए । ( प्रविष्ट होकर ) अश्वत्थामा-कौरवनरेश की विजय हो । दुर्योधन-( उठकर ) गुरुकुमार, यहाँ बैठ जाइए । ( बैठाता है ) अश्वत्थामा-( सजल नेत्रों से ) महाराज दुर्योधन !

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३९ यत्सङ्गरेषु विहितं विदितं त्वया तत् । द्रौणिस्त्वधिज्यधनुरापतिताऽभ्यमित्र- मेषोऽधुना त्यज नृप ! प्रतिकारचिन्ताम् ॥ ३८ ॥ दुर्योधनः-( साभ्यसूयम् ) आचार्यपुत्र, अवसानेऽङ्गराजस्य योद्धव्यं भवता किल । ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥ ३९ ॥ अश्वत्थामा-( स्वगतम् ) कथमद्यापि स एव कर्णपक्षपातः, अस्मासु कर्णेति । कर्णेन=राधासुतेन, यत्, कर्णसुभगम्=श्रवणसुभगम्, तत्=पूर्वोक्तं, बहु, उक्त्वा, सङ्गरेषु = सङ्ग्रामेषु, यत्, विहितम्, तत्, त्वया, विदितम् । यदुक्तं तत्कर्णसुखदमात्रं कार्यस्याकरणादिति भावः । अधुना, अभ्यमित्रम् = अमित्रं शत्रुम् अभि ,लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावसमासः । शत्रुमाभिमुखी कृत्वेत्यर्थः । अधिज्यधनुः=ज्याम् मौर्वीम् अधिगतं प्राप्तम् अधिज्यं धनुः यस्य सः, एषः, द्रौणिः = अश्वत्थामा, आपतितः = आगतः । ( अतः ) हे नृप, प्रतिकारचिन्ताम् = वैरनिर्यातनचिन्ताम्, अनुजवधप्रतिक्रियामित्यर्थः । त्यज । साम्प्रतं पाण्डववधेन वैरनिर्यातनं करिष्यामीति भावः । वसन्ततिलका छन्दः ॥ ३८ ॥ अन्वयः - अङ्गराजस्य, अवसाने, भवता, योद्धव्यम्, किल, ( तदा ) मम, अपि, अन्तम् प्रतीक्षस्व, कः कर्णः, कः सुयोधनः ॥ ३९ ॥ कर्णमरणानन्तरं मज्जयर्थं तद युद्धं वृथेवेत्याह- अवसान इति । अङ्गराजस्य= कर्णस्य, अवसाने = अन्ते विनाश इत्यर्थः, भवता, योद्धव्यम् किल, किलशब्दोऽरुचौ एतेन युद्धेऽरुचिः सूच्यते, 'वार्तायामरुचौ किल' इति त्रिकाण्डशेषः । ( तदा ) ममापि, अन्तम् - विनाशम्, प्रतीक्षस्व, कस्मात्-कः कर्णः कः सुयोधनः, उभयोः कर्णसुयोधनयोः न कोऽपि भेद इत्यर्थः । अनुष्टुप् छन्दः ॥ ३९ ॥ कर्ण ने श्रुतिमधुर अनेक प्रकार की बातें कहकर रणक्षेत्र में जो कुछ किया है उसे तो आप जानते ही हैं । यह द्रोणतनय अब धनुष को प्रत्यञ्चा चढ़ाकर तथा शत्रुओं को लक्ष्य करके आ गया है । हे राजन् ! प्रतिशोध [ बदला ] करने की चिन्ता को छोड़ दीजिए । दुर्योधन - ( व्यङ्ग के साथ ) आचार्यपुत्र, कर्ण के विनाश होने पर आप युद्ध के लिए खड़े हुए हैं । मेरे विनाश की भी प्रतीक्षा कीजिए । कौन कर्ण और कौन सुयोधन है ? अर्थात् कर्ण में और मुझ में कोई भेद नहीं ॥ अश्वत्थामा - ( मन ही मन ) क्यों आज भी कर्ण का पक्षपात और हम लोगों का

च परिभवः । (प्रकाशम् ।) राजन्कौरवेश्वर, एवं भवतु । (इति निष्क्रान्तः ।) धृतराष्ट्रः—वत्स, क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि । दुर्योधनः—किमस्याऽप्रियमनृतं च मयोक्तम् ? किं वा नेदं क्रोधस्था- नम् ? पश्य— अकलितमहिमानं क्षत्रियैरात्तचापैः समरशिरसि युष्मद्भाग्यदोषाद्विपन्नम् । परिवदति समक्षं मित्रमङ्गाधिराजं मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥४०॥ परिभवः = अनादरः । एवंविधस्य = पितुरपि समविक्रकस्य, वाक्पारुष्येण = कर्कशवचनेन, अपरा- गम् = असन्तोषम् । अनृतम् = मिथ्या । अन्वयः—आत्तचापैः, क्षत्रियैः, अकलितमहिमानम्, रणशिरसि, युष्मद्भाग्य- दोषात्, विपन्नम्, मित्रम्, अङ्गराजम्, मम, समक्षम्, परिवदति, कथय, खलु, अस्मिन्, अर्जुने, वा कः, विशेषः ॥ ४० ॥ क्रोधस्य युक्तत्वमेवाह—अकलितमहिमानमिति । आत्तचापैः = गृहीतधन्वाभिः, क्षत्रियैः, अकलितमहिमानम् = अकलितः अविज्ञातः, महिमा पराक्रमः यस्य तम्, वीरक्षत्रियैरपि तस्य पराक्रमपारं न प्राप्तमित्यर्थः । समरशिरसि रणशिरसि, युष्मद्भा- ग्यदोषात्, नतु पराक्रमहीनत्वादित्यर्थः, । विपन्नम् = मृतम्, मित्रम्, एतेन निन्दाश्र- वणायोग्यत्वं सूचितम्, अङ्गाधिराजम् = अङ्गदेशाधिपम्, कर्णमित्यर्थः, एतेन महती निन्दा न कार्येति सूचितम्, मम, समक्षम् = प्रत्यक्षम्, एतेन क्रोधस्यावश्यंभावित्वनिति सूचितम् । परिवदति = निन्दति, कथय, खलु = निश्चयेन, कथनक्रियायाः कर्म- अस्मिन्नित्यादिवाक्यम् । अस्मिन्=कर्णनिन्दके, अर्जुने = कर्णघातके, वा, क, विशेषः= अपमान ? (प्रकटरूप से) राजन् कुरुराज ! ऐसा ही हो (चला जाता है) धृतराष्ट्र—बेटा, यह तुम्हें कैसा भ्रम हो गया है कि ऐसे समय में भी इस प्रकार के सज्जन व्यक्ति अश्वत्थामा को कटु वाक्य कहकर तुम क्रुद्ध कर रहे हो । दुर्योधन—क्या मैंने इनको अप्रिय और असत्य कहा है ? क्या यह क्रोध की बात नहीं ? धनुर्धर क्षत्रिय वीर जिसके सामर्थ्य को नहीं समझ सकते थे उस मेरे मित्र अङ्गराज (कर्ण) की—जो समरभूमि में आप लोगों के दुर्भाग्य के कारण विपद्ग्रस्त हो गए हैं यहाँ (निन्दा) मेरे नेत्रों के सामने कर रहा है, आप ही कहिए—इसमें और अर्जुन में क्या विशेषता है ? अर्थात् कर्ण मेरा मित्र है अर्जुन कर्ण का शत्रु है यह भी कर्ण से शत्रुता का व्यवहार करता है तो यह भी मेरे शत्रु अर्जुन की ही श्रेणी में हुआ ॥ ४० ॥

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४१ धृतराष्ट्रः - वत्स, तत्रापि कोऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । सञ्जय, किमिदानीं करोमि मन्दभाग्यः ? ( विचिन्त्य ) भवत्वेवं तावत् । सञ्जय, मद्वचनाद् ब्रूहि भारद्वाजमश्वत्थामानम् । स्मरसि न भवान्पीतं स्तन्यं विभज्य सहामुना मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः । अनुजनिधनस्फोतच्छोकार्दातिप्रणयाच्च यद्- वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥ ४१ ॥ संजयः—यदाज्ञापयति तातः । ( इत्युत्तिष्ठति । ) धृतराष्ट्रः—अपि चेदमन्यस्त्वया वक्तव्यम् । भेदः न काऽपि विशेषः इत्यर्थः । एवं सति मम क्रोधो युक्त एवेति भावः । मालिनी छन्दः ॥ अवसानम् = अन्तम् । मम कुलं विनङ्क्ष्यत्येवेत्यर्थः । अन्वयः — अमुना, सह, विभज्य, स्तन्यम्, पीतम्, बाल्ये, त्वदङ्गविवर्तनैः, मम, क्षौमम्, मृदितम्, च, भवान्, न, स्मरति; अनुजनिधनस्फीतात्, शोकात् ( कर्णे ) अतिप्रणयात्, च या, अस्य वचनविकृतिषु क्रोधः, त्वया, क्रियते, (तत्) मुधा ॥ स्मरतीति । अमुना = दुर्योधनेन, सह, विभज्य = समभागं कृत्वा, स्तन्यम् = गान्धारीस्तनजन्यदुग्धम्, पीतम्, त्वयेति शेषः , बाल्ये = क्रोडस्थापनयोग्याव- स्थायाम्, त्वदङ्गविवर्तनैः अङ्गलितद्रव्यविशेषैः, मम, क्षौमम् = सूक्ष्मम्, पट्टवस्त्रमि- त्यर्थः । मृदितम् = मलिनीकृतम्, च, भवान् न, स्मरति । दुर्योधनतुल्यस्त्वमाव- योरतस्त्वयाप्यावां रक्षणीयं क्रोधं मुक्त्वा योद्धव्यं चेति भावः । क्रोधत्यागकारण- मेवाह— अनुजेति । अनुजनिधनस्फीतात् = भ्रातृमृत्युप्रक्षालितात् , शोकात्, अति- प्रणयात्, कर्णे इति शेषः । च, यत्, अस्य दुर्योधनस्य, वचनविकृतिषु = वाक्य- धृतराष्ट्र—पुत्र, तुम्हारा भी इसमें क्या अपराध ? अब भरतवंश का अन्तिम समय है ? संजय ! मैं अभागा अब क्या करूँ ? ( सोचकर ) अच्छा ऐसा ही हो । संजय, मेरी ओर से भारद्वाज से निवेदन कर दीजिए— 'क्या क्या आपको स्मरण है'—इस दुर्योधन के साथ बाँट कर आपने क्षीरपान किया है और शैशवावस्था से लोट-लाट कर आपने मेरे रेशमी वस्त्रों को मर्दित कर दिया है।' अपने छोटे भाइयों के संहार से उत्पन्न प्रबल शोक के कारण अथवा ( कर्ण के प्रति ) प्रेमाधिक्य से इसके [ दुर्योधन के ] अप्रिय वचनों पर आप व्यर्थ ही क्रोध कर रहे हैं ॥ ४१ ॥ संजय—पिताजी की जो आज्ञा । ( खड़ा हो जाते हैं ) धृतराष्ट्र—और भी यह दूसरी प्रार्थना कह देना— १६ वें०

२४२ वेणीसंहारं नाटकं यन्मोचितस्तव पिता वितथेन शस्त्रं यत्तादृशः परिभवः स तथाविधोऽभूत् । एतद्विचिन्त्य बलमात्मनि पौरुषं च दुर्योधनोक्तमपहाय विधास्यतीति ॥ संजयः—यदाज्ञापयति तातः । ( इति निष्क्रान्तः । ) दुर्योधनः—सूत, साङ्ग्रामिकं मे रथमुपकल्पय । धृतराष्ट्रः – गान्धारि, इतो वयं मद्राधिपते. शल्यस्य शिविरमेव गच्छावः । वत्स, त्वमप्येवं कुरु । ( इति परिक्रम्य निष्क्रान्ता सर्वे । ) इति पञ्चमोऽङ्कः । विकारेषु, ( सतिषु ) क्रोधः, त्वया, क्रियते, तदिति शेषः । मुधा = व्यर्थम्, तद्व्यर्थं क्रियत इत्यर्थः । हरिणी छन्दः ॥ ४१ ॥ अन्वयः — यत्, तव पिता, वितथेन, शस्त्रम्, मोचितः, यत्, तादृशः, स, तथा- विधः, परिभवः, अभूत्, एतत्, विचिन्त्य, दुर्योधनोक्तम्, अपहाय, आत्मनि, बलम्, पौरुषम्, विधास्यति ॥ ४२ ॥ अपकारं स्मृत्वा योद्धव्यमित्याह — यदिति । यत्, तव = अश्वत्थाम्नः, पिता, वितथेन = अनृतवचसा प्रयोजककर्ता शस्त्रम्, मोचितः, ण्यन्तान्मुच्धातोः प्रयोज्ये कर्मणि क्तप्रत्ययः । यत्, तादृशः = कदाप्यपरिभूतस्य, द्रोणस्येत्यर्थः । तथाविधः = धृष्टद्युम्नकृतमस्तकस्पर्शादिरूपः, सः = प्रसिद्धः, परिभवः= अनादर. अभूत् । एतत् = पूर्वोक्तम्, विचिन्त्य = अनुस्मृत्य, दुर्योधनोक्त म् = अवसानेऽङ्गराजेत्यादि, अपहाय = त्यक्त्वा, आत्मनि वलम् = सामर्थ्यम्, पौरुषम् = तेजः, विधास्यति । पराक्रमो विधेय इति भावः ॥ ४२ ॥ एवम् = मद्राधिपतेः शिविरगमनम् । इति प्रबोधिनीव्याख्यायां पञ्चमोऽङ्कः । 'असत्यभाषण करके आपके पिता से जो शस्त्रपरित्याग कराया गया और केशकर्षणरूप परिभव तथा और भी अनेक प्रकार को जो अनादर उनका किया गया है उसका स्मरण करके तथा दुर्योधन के वचनों पर ध्यान न देकर अपने बल और पुरुषार्थ से कार्य करना ॥ ४२ ॥ संजय—जो पिताजी की आज्ञा (चल देते हैं ) दुर्योधन—सूत ! युद्धोपयुक्त मेरे रथ को तैयार कर दो । सूत—महाराज की जो आज्ञा ( चला जाता है ) धृतराष्ट्र—गान्धारि ! यहाँ से हम लोग मद्रदेश के राजा शल्य के शिविर को ही चलें । बेटा तुम भी ऐसा ही करो । ( घूमघाम कर सब चले जाते हैं )

अथ षष्ठोऽङ्कः ( ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च । ) युधिष्ठिरः—( विविच्य निःश्वस्य च । ) तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् । मिथ्याभूतं निखिलभुवनं निश्चयेनोपलब्धं, प्रासादलभ्या परमपदवी योगिगम्याऽञ्जसैव । पित्रा येन प्रथितयशसा शत्रुचक्रस्य चक्रं तं वन्देऽहं प्रणतशिरसा राघवं रामतुल्यम् ॥ अन्वयः—भीष्ममहोदधौ, तीर्णे, द्रोणानले; निर्वृते, कर्णाशीविषभोगिनि, प्रश- 'मिते, शल्ये, दिवम्, याते, च जये, स्वल्पावशेषे ( सति ) प्रियसहसेन, भीमेन, रभसात्, वाचा अमी, सर्वे, वयम् जीवितसंशयम्, समारोपिताः ॥ १ ॥ सर्वस्मिन् सम्पन्ने केवलं भीमवाङ्मात्रेण प्राणसंशयो जात इत्याह = तीर्ण इति । भीष्ममहोदधौ = भीष्मः गाङ्गेय एव महोदधिः समुद्रः तस्मिन्, तीर्णे = पारं गते- शरशय्यां प्रापिते सतीत्यर्थः । द्रोणानले = द्रोण एवानलः अग्निः तस्मिन्, कथमपि = 'अश्वत्थामा हत' इतिच्छलद्वाराऽस्त्रत्याजनेन, निर्वृते = निःशेषेण शान्ते स्वर्गं प्राप्ते सतीत्यर्थ । कर्णाशीविषभोगिनि = आशिषि अह्निदंष्ट्रायां विषमस्य स आशीविषः, पृषोदरादित्वादोर्घसलोपौ स चासौ भोगः शरीरम् तदस्त्यस्येति आशीविषभोगी कर्ण एवाशीविषभोगी, 'आशीहितांशाद्गिदंष्ट्रयो' रित्यमरः । 'भोगः सुखे घने पुंसि शरीरफणयोर्मत' इति मेदिनी । प्रशमिते = विनाशिते, शल्ये = मन्द्राधिपतौ, दिवम् = ( अनन्तर युधिष्ठिर सिंहासन पर सुशोभित हो रहे हैं। द्रौपदी चेटी और पुरुष का प्रवेश ) युधिष्ठिर—( सोचकर दीर्घ श्वास लेकर [ आह भर कर ] ) भीष्मपितामहरूपी समुद्र पार कर गए। द्रोणाचार्य रूपी आग भी बुझ गई। कर्ण रूपी उल्बण विषयुक्त महासर्प शान्त हो चुका। शल्य भी स्वर्गलोक का अतिथि बन गया। अतएव विजयलाभ अत्यन्त सन्निकट रह गया है। [ तो भी ] साहसप्रेमी भीमसेन ने प्रतिज्ञा से हम सब लोगों के जीवन को संकटापन्न कर दिया है। तात्पर्य यह है कि भीमसेन की प्रतिज्ञा थी कि—'आज ही मैं दुर्योधन को समाप्त कर डालूँगा और यदि कार्य पूरा न कर सका तो प्राण परित्याग दूँगा' ऐसी परिस्थिति में दुर्योधन का पता नहीं था। भीम किस प्रकार अपनी प्रतिज्ञा की पूर्ति करते अन्ततोगत्वा उन्हें प्राण छोड़ना ही पड़ता। युधिष्ठिर की प्रतिज्ञा थी कि यदि एक भी भाई मेरा मरेगा तो मैं जीवित नहीं रहूँगा अतः भीम के मरने पर युधिष्ठिर भी

२४४ वेणीसंहारं नाटकं

भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ १ ॥ द्रौपदी—( सवाष्पम् । ) महाराज, पञ्चालिए त्ति किं ण भणिदम् ? (महाराज, पाञ्चाल्येति किं न भणितम् ।) युधिष्ठिरः—कृष्णे ननु मया । ( पुरुषमवलोक्य । ) युवक, पुरुषः—देव, आज्ञापय । युधिष्ठिरः—उच्यतां सहदेवः—क्रुद्धस्य वृकोदरस्यापर्युषितां प्रतिज्ञामुप- लभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु

स्वर्गम्, याते, च, सति, प्रियसाहसेन = प्रियं साहसो यस्य तेन, भीमेन जये, अल्पा- वशेषे, सति, रभसात् = वेगात्, 'रभसो वेगहर्षयो'रिति विश्वः । वाचा=प्रतिज्ञारूपया अमी, वयम् = पाण्डवाः, सर्वे, जीवितसंशयम् = प्राणसंशयम् यथा स्यात्तथा, समा- रोपिताः = गमिताः, प्रापिता इत्यर्थः । भीमकृताया अद्य दुर्योधनं हनिष्यामी'ति प्रतिज्ञायाः पूर्यभावे 'अहनने स्वयं मरिष्यामी'ति द्वितीयप्रतिज्ञापूर्त्यर्थं भीमो मरिष्यति, तथा च वयमपि सर्वे मरिष्याम इति भावः । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ पाञ्चाल्येति — पाञ्चाल्या जीवितसंशयं समारोपिता इति किम्न भणितमित्य- न्वयः । मत्केशावराकर्षणोत्पन्नक्रोधेनैव भीमेन तादृशप्रतिज्ञाकरणात्प्राणसंशयेऽहमेव कारणमत उक्तं पाञ्चाल्येतीति भावः । प्रयोजकत्वेन यदि त्वयोक्तं पाञ्चाल्येति तदा सर्वानर्थहेतुभूतस्य मयैव करणा- दहमेव प्राणसंशये कारणमिति युधिष्ठिर आह ननु मयेति । मया जीवितसंशयं समा- रोपिता इत्यन्वयः । अपर्युषिताम् = न परदिनसम्पादनीयाम्, प्रतिज्ञाम् = दुर्योधनोरुभङ्गमहं करि- ष्यामीति रूपाम्, उपलभ्य ज्ञात्वा, प्रनष्टस्य = अदर्शनं गतस्य, निलीनस्येत्यर्थः । पद- वीम् = स्थानम्, अतिनिपुणमतयः = अतिनिपुणः विवेकिन्यः मतय ज्ञानानि

मर जाते और उनके मरने पर शेष पाण्डव भी समाप्त हो जाते इसलिए उन लोगों का जीवन संकट में पड़ा हुआ था ॥ १ ॥ द्रौपदी—( सजल नेत्रों से ) महाराज ! पाञ्चाली ( द्रौपदी ) का नाम क्यों नहीं लेते ? अर्थात् द्रौपदी ने सब के जीवन को संकट में डाल दिया है यह क्यों नहीं कहते ? युधिष्ठिर—मैंने ही...... ( एक पुरुष को देखकर ) युवक ! पुरुष—महाराज ! क्या आज्ञा है ? युधिष्ठिर—सहदेव से कह दो—क्रोध के आवेश में होकर 'आज ही दुर्योधन का वध कर डालूँगा अन्यथा स्वयं प्राण परित्याग कर दूँगा' इस प्रकार की भीमसेन की प्रतिज्ञा

उपोद्घातः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४५ तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्त- घोषणाः सुयोधनपदसंचारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरन्तु समन्तात्समन्तपञ्चकम् । अपि च । पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः कक्षेषु क्षुण्णवीरुन्निचयपरिचया वल्लवाः संचरन्तु । येषाम्, सुसचिवाः = उत्तममन्त्रिणः, भक्तिमन्तः = स्वामिसेवातत्पराः, पटुपटहरव- व्यक्तघोषणाः = पटुर्यो पटहरवः, ढक्काशब्दः तेन व्यक्ता घोषणा येषां ते, सुयोध- नपदसंचारवेदिनः = सुयोधनस्य यः पदसञ्चारः गमनम् तस्य वेत्तारः, प्रतिश्रुतधन- पूजाप्रत्युपक्रियाः = प्रतिश्रुता अङ्गीकृता धनपूजाप्रत्युपक्रियाः यैः ते, समन्तपञ्चकम् = देशविशेषम्, समन्तात् = सर्वतः, चरन्तु । अन्वयः - सुनिभृतपदवीवेदनः, दाशाः, पङ्के, वा सैकते, वा, यान्तु, क्षुण्णवी- रुन्निचयपरिचयाः, वल्लवाः कक्षेषु, सञ्चरन्तु, श्वपचपुरविदः, नागव्याघ्राटवीषु, (सञ्चरन्तु) ये, च, रन्ध्रेषु, अभिज्ञाः, वा, सिद्धव्यञ्जनाः, ते, चाराः, प्रतिमुनि- निलयम्, चरन्तु ॥ २ ॥ के चाराः कुत्र सञ्चरन्तु, इत्युपदिशति- पङ्के वेति सुनिभृतपदवीवेदिनः = गुप्तस्थानशायिनः दाशाः = धीवराः, मत्स्यघातकाः इत्यर्थः । पङ्के = पङ्किलप्रदेशे वा सैकते = बालुकामयतटे, वा, यान्तु, धीवराणामेव तत्र कुशलत्वादिति भावः । क्षुण्ण- वीरुन्निचयपरिचयाः = क्षुण्ण. विदलिनो यो वीरुन्निचयः प्रतानिलतासङ्घः । शाखापत्र- संचयवती लता प्रतानिनी सैव वीरुध शब्देनोच्यते, तस्य परिचयः ज्ञानं येषां ते, वल्लवाः = गोपाः 'गोपे गोपालगोसंख्यगोधुगाभीरवल्लवा' इत्यमरः । कक्षेषु = अर- ण्वेषु, सामान्यवनेष्वित्यर्थः । 'कक्षः स्मृता भुजामूले कशोरण्ये च वीरुधि' इति धरणिः । सञ्चरन्तु, गोसंचारनोपयोगित्वेन गोपानां तत्राभिज्ञत्वादिति भावः । श्वपच- सुनकर छिपे हुए अहङ्कारी दुर्योधन के पदचिह्न का अन्वेषण करने के लिए अतीव दक्ष तथा यथार्थ ज्ञानशाली दूत तथा सम्मन्त्री, जो राजभक्त हों, 'सुयोधन के पता देने वाले व्यक्तियों को द्रव्य और प्रतिष्ठा से सत्कार किया जायगा' इस प्रकार की घोषणा स्पष्ट डुग्गी के शब्द से करते हुए समन्तपञ्चक [ पिण्डारा, समग्र- रामह्रद और कुरुक्षेत्र ] की ओर प्रस्थान करें ।' और भी- कर्दम [ कीचड ] तथा वालुकापूर्ण प्रदेश पर पड़े हुए अव्यक्त भी पदचिह्नों का ज्ञान रखने वाले मल्लाह प्रस्थान करें । नदियों के कछार में वे ग्वाले [ चरवाहे ] भेजे जाँय जिन्हें पददलित होने पर भी इन तृणों का पूर्ण परिचय हो । नाग (हाथी, सर्प) और व्याघ्रों से युक्त गहन वनों में वे भेजे जायें जिन्हें चाण्डालों के निवासस्थानों का तथा खोह कन्दराओं

२४६ वेणीसंहारं नाटकं नागव्याघ्राटवीषु श्वपचपुरविदो ये च रन्ध्रेष्वभिज्ञा ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ २ ॥ पुरुषः—यथाऽऽज्ञापयति देवः । युधिष्ठिरः—तिष्ठ । एव च वक्तव्यः सहदेवः । ज्ञेया रहः शङ्कितमालपन्तः सुप्ता रुगार्ताश्च वने विचेयाः । पुरविदः = चाण्डालपुरोवेदिनः, नागव्याघ्राटवीषु = हस्तिव्याघ्रप्रधानवनेषु, स्वपरपदविद् इति पाठे तु व्याधाः, व्याघ्राटवीषु, यान्तु स्वपरपदविदः = स्वपरस्थानवेदिनः, सर्वत्र सञ्चरणशीला इत्यर्थः । अस्य रन्ध्रेष्वभिज्ञा इत्यनेनान्वयः । ये च रन्ध्रेषु परच्छिद्रे- ष्वित्यर्थः । अभिज्ञाः = कुशलाः, वा = अथवा, ये, सिद्धव्यञ्जनाः = सिद्धस्य मुने- र्व्यञ्जनम् चिह्नमिव चिह्नं येषां ते मुनिवेषधारिण इत्यर्थः । ते च, चाराः = चराः चरोऽक्षद्यूतभेदे च भीमे चारे' इति मेदिनी । खुफिया इति प्रसिद्धः, आङ्गलभाषायाम् सी० आई डी० इति ख्यातः । प्रतिमुनिनिलयम् = प्रतियतिस्थानम्, वीप्साया- मव्ययीभावसमासः । चरन्तु = गच्छन्तु तेषा तत्र गमनयोग्यत्वादिति भावः । स्रग्धरा छन्दः ॥ २ ॥ वक्तव्य इति —वक्तव्य इति गौणे कर्मणि तव्यप्रत्ययः । अन्वयः—रहः शङ्कितम्, आलपन्तः ( ज्ञेयाः ) सुप्ताः, रुगार्ताः, च, ( ज्ञेयाः ) वने, विचेयाः, यत्र, मृगाणाम् त्रासः, वयसाम्, विरावः, नृपाङ्कपादप्रतिमा, च, ( ते प्रदेशा विचेयाः ) ॥ ३ ॥ किं वक्तव्य इति मुख्यं कर्माह-ज्ञेया रहः शङ्कितमिति । रहः = विजने, एकान्त इत्यर्थः रह इत्यव्ययम् । विविक्तविजनच्छन्ननिःशलाकास्तथा रहः । रहोऽपांशु चालिङ्ग' इत्यमरः । शङ्कितम्=साशङ्कं यथा स्यादेवम्, आलपन्तः = परस्परं भाष- माणाः, जना इति शेषः । ज्ञेयाः = ज्ञातव्याः, किमेते दुर्योधनविषयकमालापं कुर्वन्ति उतान्यविषयकमिति ज्ञातव्यमिति भावः । सुप्ताः = शयिताः, रुगार्ताः = रोगपीडिताः, च, ज्ञेया इत्यस्यात्राप्यन्वयः । एषु निद्रारोगव्याजेन दुर्योधनः स्थितो न वेति ज्ञात- व्यमित्याशयः । वने = अरण्ये, विचेयाः = अन्वेषणीयाः, अन्वेषणस्थानमेवाह = त्रासो का पूर्ण ज्ञान हो। प्रत्येक तपस्वियों के आश्रमों में सिद्ध तपस्वियों के वेष में दूत लोग भ्रमण करें अर्थात् जो जिस तरह के स्थान से पूर्ण परिचित हो उसे वैसे ही स्थान में दुर्योधन का पता लगाने के लिए भेजा जाय ॥ २ ॥ पुरुष—महाराज की जैसी आज्ञा। युधिष्ठिर—ठहरो, सहदेव से इस प्रकार भी कह देना— एकान्त स्थान में सशंकभाव से वार्तालाप करने हुए लोगों की छानबीन कर लेना ।

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४७

त्रासो मृगाणां वयसां विरावो नृपाङ्कपादप्रतिमा च यत्र ॥ ३ ॥
पुरुषः—यदाज्ञापयति देवः । (इति निष्क्रम्य, पुनः प्रविश्य सहर्षम् ।)
देव पाञ्चालकः प्राप्तः ।
युधिष्ठिरः—त्वरितं प्रवेशय ।
पुरुषः—( निष्क्रम्य, पाञ्चालकेन सह प्रविश्य ।) एष देवः । उपसर्पतु
पाञ्चालक ।
पाञ्चालकः — जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।
युधिष्ठिरः—भद्र पाञ्चालक, कच्चिदासादिता तस्य दुरात्मनः कौरवा-
धमस्य पदवी ?
• मृगाणामिति । यत्र = यस्मिन् स्थाने, मृगाणाम् = हरिणानाम्, त्रासः = भयम्, यत्र
जनस्तिष्ठति ततो भीताः मृगाः पलायन्तेऽतस्तत्र स जनो दुर्योधनो न वेति ज्ञानार्थं
स प्रदेशोऽन्वेषणीय इति भावः । एवमग्रेऽपि । वयसाम् = पक्षिणाम्, विरावः = शब्दः,
नृपाङ्कपादप्रतिमा = नृपस्य अङ्कश्चिह्नं चक्रादयः यस्मिन् स नृपाङ्कः स चासौ पादः
नृपाङ्कपादः तस्य या प्रतिमा प्रतिकृतिः, च ( यत्र तिष्ठेत्ते प्रदेशा विचेयाः ) । उप-
जातिश्छन्दः ॥ ३ ॥
वनप्रदेशादागतं पाञ्चालकं दृष्ट्वा तदागमननिवेदनायाह—देव पाञ्चालकः प्राप्त
इति । देव = राजन्, पाञ्चालकः = तन्नामकदूतविशेषः । अथवा पाञ्चालदेशोत्पन्न कश्चित् ।
त्वरितम् = शीघ्रम्, प्रवेशय, पाञ्चालकमिति शेषः ।
उपसर्पतु = समीपम्, चलतु ।
प्रियम् = मनोरभिलषितम्, आवेदयामि - कथयामि, देव्यै = द्रौपद्यै ।
कच्चिदिति — कच्चिच्छब्दः कामप्रवेदने प्रयुज्यते, कामप्रवेदनम् इष्टप्रश्नः । तस्य
सोये हुए रोगपीडित तथा मदिरापान से उन्मत्त प्राणियों के विषय में अच्छी तरह समझ
लेना । हरिणादिकों के भयभीत होने तथा पक्षियों के कोलाहल से भी अनुमान करना और
जहाँ मत्स्यादिक राजचिह्न पदाङ्क में हों वहाँ भी अन्वेषण कर लेना ॥ ३ ॥
पुरुष—महाराज की आज्ञा शिरोधार्य है ( चला जाता है। पुनः प्रवेश करके प्रसन्नता
के साथ ) महाराज ! पाञ्चालक आ गया ।
युधिष्ठिर—शीघ्र ही उसे लाओ ।
पुरुष—( निकलकर पाञ्चालक के साथ प्रवेश करके ) वह महाराज हैं । पाञ्चालक !
समीप चलिए ।
पाञ्चालक—जय हो महाराज की । महाराज तथा महारानी को सुखसंवाद सुनाने
आया हूँ ।
युधिष्ठिर—सौम्य पाञ्चालक ! कहो क्या उस दुरात्मा कौरवनीच का कहीं पता चला ?