भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 260, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 260

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४१ धृतराष्ट्रः - वत्स, तत्रापि कोऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । सञ्जय, किमिदानीं करोमि मन्दभाग्यः ? ( विचिन्त्य ) भवत्वेवं तावत् । सञ्जय, मद्वचनाद् ब्रूहि भारद्वाजमश्वत्थामानम् । स्मरसि न भवान्पीतं स्तन्यं विभज्य सहामुना मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः । अनुजनिधनस्फोतच्छोकार्दातिप्रणयाच्च यद्- वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥ ४१ ॥ संजयः—यदाज्ञापयति तातः । ( इत्युत्तिष्ठति । ) धृतराष्ट्रः—अपि चेदमन्यस्त्वया वक्तव्यम् । भेदः न काऽपि विशेषः इत्यर्थः । एवं सति मम क्रोधो युक्त एवेति भावः । मालिनी छन्दः ॥ अवसानम् = अन्तम् । मम कुलं विनङ्क्ष्यत्येवेत्यर्थः । अन्वयः — अमुना, सह, विभज्य, स्तन्यम्, पीतम्, बाल्ये, त्वदङ्गविवर्तनैः, मम, क्षौमम्, मृदितम्, च, भवान्, न, स्मरति; अनुजनिधनस्फीतात्, शोकात् ( कर्णे ) अतिप्रणयात्, च या, अस्य वचनविकृतिषु क्रोधः, त्वया, क्रियते, (तत्) मुधा ॥ स्मरतीति । अमुना = दुर्योधनेन, सह, विभज्य = समभागं कृत्वा, स्तन्यम् = गान्धारीस्तनजन्यदुग्धम्, पीतम्, त्वयेति शेषः , बाल्ये = क्रोडस्थापनयोग्याव- स्थायाम्, त्वदङ्गविवर्तनैः अङ्गलितद्रव्यविशेषैः, मम, क्षौमम् = सूक्ष्मम्, पट्टवस्त्रमि- त्यर्थः । मृदितम् = मलिनीकृतम्, च, भवान् न, स्मरति । दुर्योधनतुल्यस्त्वमाव- योरतस्त्वयाप्यावां रक्षणीयं क्रोधं मुक्त्वा योद्धव्यं चेति भावः । क्रोधत्यागकारण- मेवाह— अनुजेति । अनुजनिधनस्फीतात् = भ्रातृमृत्युप्रक्षालितात् , शोकात्, अति- प्रणयात्, कर्णे इति शेषः । च, यत्, अस्य दुर्योधनस्य, वचनविकृतिषु = वाक्य- धृतराष्ट्र—पुत्र, तुम्हारा भी इसमें क्या अपराध ? अब भरतवंश का अन्तिम समय है ? संजय ! मैं अभागा अब क्या करूँ ? ( सोचकर ) अच्छा ऐसा ही हो । संजय, मेरी ओर से भारद्वाज से निवेदन कर दीजिए— 'क्या क्या आपको स्मरण है'—इस दुर्योधन के साथ बाँट कर आपने क्षीरपान किया है और शैशवावस्था से लोट-लाट कर आपने मेरे रेशमी वस्त्रों को मर्दित कर दिया है।' अपने छोटे भाइयों के संहार से उत्पन्न प्रबल शोक के कारण अथवा ( कर्ण के प्रति ) प्रेमाधिक्य से इसके [ दुर्योधन के ] अप्रिय वचनों पर आप व्यर्थ ही क्रोध कर रहे हैं ॥ ४१ ॥ संजय—पिताजी की जो आज्ञा । ( खड़ा हो जाते हैं ) धृतराष्ट्र—और भी यह दूसरी प्रार्थना कह देना— १६ वें०