वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 259, कुल 355 में से
संदर्भ में पढ़ेंच परिभवः । (प्रकाशम् ।) राजन्कौरवेश्वर, एवं भवतु । (इति निष्क्रान्तः ।) धृतराष्ट्रः—वत्स, क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि । दुर्योधनः—किमस्याऽप्रियमनृतं च मयोक्तम् ? किं वा नेदं क्रोधस्था- नम् ? पश्य— अकलितमहिमानं क्षत्रियैरात्तचापैः समरशिरसि युष्मद्भाग्यदोषाद्विपन्नम् । परिवदति समक्षं मित्रमङ्गाधिराजं मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥४०॥ परिभवः = अनादरः । एवंविधस्य = पितुरपि समविक्रकस्य, वाक्पारुष्येण = कर्कशवचनेन, अपरा- गम् = असन्तोषम् । अनृतम् = मिथ्या । अन्वयः—आत्तचापैः, क्षत्रियैः, अकलितमहिमानम्, रणशिरसि, युष्मद्भाग्य- दोषात्, विपन्नम्, मित्रम्, अङ्गराजम्, मम, समक्षम्, परिवदति, कथय, खलु, अस्मिन्, अर्जुने, वा कः, विशेषः ॥ ४० ॥ क्रोधस्य युक्तत्वमेवाह—अकलितमहिमानमिति । आत्तचापैः = गृहीतधन्वाभिः, क्षत्रियैः, अकलितमहिमानम् = अकलितः अविज्ञातः, महिमा पराक्रमः यस्य तम्, वीरक्षत्रियैरपि तस्य पराक्रमपारं न प्राप्तमित्यर्थः । समरशिरसि रणशिरसि, युष्मद्भा- ग्यदोषात्, नतु पराक्रमहीनत्वादित्यर्थः, । विपन्नम् = मृतम्, मित्रम्, एतेन निन्दाश्र- वणायोग्यत्वं सूचितम्, अङ्गाधिराजम् = अङ्गदेशाधिपम्, कर्णमित्यर्थः, एतेन महती निन्दा न कार्येति सूचितम्, मम, समक्षम् = प्रत्यक्षम्, एतेन क्रोधस्यावश्यंभावित्वनिति सूचितम् । परिवदति = निन्दति, कथय, खलु = निश्चयेन, कथनक्रियायाः कर्म- अस्मिन्नित्यादिवाक्यम् । अस्मिन्=कर्णनिन्दके, अर्जुने = कर्णघातके, वा, क, विशेषः= अपमान ? (प्रकटरूप से) राजन् कुरुराज ! ऐसा ही हो (चला जाता है) धृतराष्ट्र—बेटा, यह तुम्हें कैसा भ्रम हो गया है कि ऐसे समय में भी इस प्रकार के सज्जन व्यक्ति अश्वत्थामा को कटु वाक्य कहकर तुम क्रुद्ध कर रहे हो । दुर्योधन—क्या मैंने इनको अप्रिय और असत्य कहा है ? क्या यह क्रोध की बात नहीं ? धनुर्धर क्षत्रिय वीर जिसके सामर्थ्य को नहीं समझ सकते थे उस मेरे मित्र अङ्गराज (कर्ण) की—जो समरभूमि में आप लोगों के दुर्भाग्य के कारण विपद्ग्रस्त हो गए हैं यहाँ (निन्दा) मेरे नेत्रों के सामने कर रहा है, आप ही कहिए—इसमें और अर्जुन में क्या विशेषता है ? अर्थात् कर्ण मेरा मित्र है अर्जुन कर्ण का शत्रु है यह भी कर्ण से शत्रुता का व्यवहार करता है तो यह भी मेरे शत्रु अर्जुन की ही श्रेणी में हुआ ॥ ४० ॥