वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 258, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३९ यत्सङ्गरेषु विहितं विदितं त्वया तत् । द्रौणिस्त्वधिज्यधनुरापतिताऽभ्यमित्र- मेषोऽधुना त्यज नृप ! प्रतिकारचिन्ताम् ॥ ३८ ॥ दुर्योधनः-( साभ्यसूयम् ) आचार्यपुत्र, अवसानेऽङ्गराजस्य योद्धव्यं भवता किल । ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥ ३९ ॥ अश्वत्थामा-( स्वगतम् ) कथमद्यापि स एव कर्णपक्षपातः, अस्मासु कर्णेति । कर्णेन=राधासुतेन, यत्, कर्णसुभगम्=श्रवणसुभगम्, तत्=पूर्वोक्तं, बहु, उक्त्वा, सङ्गरेषु = सङ्ग्रामेषु, यत्, विहितम्, तत्, त्वया, विदितम् । यदुक्तं तत्कर्णसुखदमात्रं कार्यस्याकरणादिति भावः । अधुना, अभ्यमित्रम् = अमित्रं शत्रुम् अभि ,लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावसमासः । शत्रुमाभिमुखी कृत्वेत्यर्थः । अधिज्यधनुः=ज्याम् मौर्वीम् अधिगतं प्राप्तम् अधिज्यं धनुः यस्य सः, एषः, द्रौणिः = अश्वत्थामा, आपतितः = आगतः । ( अतः ) हे नृप, प्रतिकारचिन्ताम् = वैरनिर्यातनचिन्ताम्, अनुजवधप्रतिक्रियामित्यर्थः । त्यज । साम्प्रतं पाण्डववधेन वैरनिर्यातनं करिष्यामीति भावः । वसन्ततिलका छन्दः ॥ ३८ ॥ अन्वयः - अङ्गराजस्य, अवसाने, भवता, योद्धव्यम्, किल, ( तदा ) मम, अपि, अन्तम् प्रतीक्षस्व, कः कर्णः, कः सुयोधनः ॥ ३९ ॥ कर्णमरणानन्तरं मज्जयर्थं तद युद्धं वृथेवेत्याह- अवसान इति । अङ्गराजस्य= कर्णस्य, अवसाने = अन्ते विनाश इत्यर्थः, भवता, योद्धव्यम् किल, किलशब्दोऽरुचौ एतेन युद्धेऽरुचिः सूच्यते, 'वार्तायामरुचौ किल' इति त्रिकाण्डशेषः । ( तदा ) ममापि, अन्तम् - विनाशम्, प्रतीक्षस्व, कस्मात्-कः कर्णः कः सुयोधनः, उभयोः कर्णसुयोधनयोः न कोऽपि भेद इत्यर्थः । अनुष्टुप् छन्दः ॥ ३९ ॥ कर्ण ने श्रुतिमधुर अनेक प्रकार की बातें कहकर रणक्षेत्र में जो कुछ किया है उसे तो आप जानते ही हैं । यह द्रोणतनय अब धनुष को प्रत्यञ्चा चढ़ाकर तथा शत्रुओं को लक्ष्य करके आ गया है । हे राजन् ! प्रतिशोध [ बदला ] करने की चिन्ता को छोड़ दीजिए । दुर्योधन - ( व्यङ्ग के साथ ) आचार्यपुत्र, कर्ण के विनाश होने पर आप युद्ध के लिए खड़े हुए हैं । मेरे विनाश की भी प्रतीक्षा कीजिए । कौन कर्ण और कौन सुयोधन है ? अर्थात् कर्ण में और मुझ में कोई भेद नहीं ॥ अश्वत्थामा - ( मन ही मन ) क्यों आज भी कर्ण का पक्षपात और हम लोगों का