वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 249, कुल 355 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २२९ विधाव्य नामकर्मणी वन्दनीया गुरवः । ( इति रथादवतरतः ) अर्जुनः - ( उपगम्य । ) तात ! अम्ब, सकलरिरुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ २७ ॥ भीमः - चूर्णिताशेषकौरव्यः क्षीबो दुःशासनाऽसृजा । अन्वयः- यत्र, ते, सुतैः, सकलरिपुजयाशाः बद्धा, यस्य, गर्वेण, लोकः, तृण- मिव परिभूतः, तस्य, राधासुतस्य, रणशिरसि, निहन्ता, अयम्, मध्यमः, पाण्डवः, वाम्, पितरौ, प्रणमति ॥ २७ ॥ सकलेति । यत्र = कर्णे ते = तव, सुतैः, सकलरिपुजयाशा = निखिलशत्रूणां जयाशा जयस्य तृष्णा, बद्धा = स्थापिता, यस्य, गर्वेण, लोकः = जगत् , तृणमिव, परिभूतः = तिरस्कृतः, तस्य राधासुतस्य = कर्णस्य, रणशिरसि = रणः शिर इव तस्मिन्, निहन्ता = विनाशयिता, अयम्, मध्यमः, पाण्डवः = पाण्डुपुत्रः, अर्जुनः, वाम् - युवाम्, पितरौ = मातापितृसदृशौ, 'पिता मात्रा' इत्येकशेषः । प्रणमति = नमस्करोति । मालिनी छन्दः ॥ २७ ॥ अन्वयः - चूर्णिताशेषकौरव्यः, दुःशासनासृजा, क्षीवः, सुयोधनस्य, ऊर्वोः, भङ्क्त्ता, अयम्, भीमः, शिरसा, वन्दति ॥ २८ ॥ तव पुत्रस्य विनाशकोऽहं प्रणमामीत्याह - चूर्णितेति । चूर्णिताशेषकौरव्यः = दोनों का नमस्कार सुना दीजिए। अथवा रहिए स्वयं नाम और कर्म सुनाकर गुरुजनों का अभिवादन करना चाहिये ।
- ( यह कहकर रथ से उतर पड़ते हैं ) अर्जुन- ( समीप आकर ) पिता जी और माता जी ! आपके पुत्र जिसके आधार पर समग्र शत्रुओं पर विजय प्राप्त करने की आशा लगाए हुए थे और जिसके अहङ्कार से संसार तिनके के सदृश तिरस्कृत हुआ उसी रथकार के पुत्र का संग्राम के शीर्ष दलनकारी यह मँझला पाण्डव अर्जुन आप गुरुजनों को प्रणाम करता हैं ॥ भीम- सम्पूर्ण कौरवों का मर्दनकारी दुःशासन के रक्तपान से मत्त यह भीम, जो