वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 250, कुल 355 में से
संदर्भ में पढ़ें२३० वेणीसंहारं नाटकं भङ्क्त्वा सुयोधनस्योर्वोर्भीमोऽयं शिरसाऽञ्चति ॥ २८ ॥ धृतराष्ट्र – दुरात्मन्वृकोदर, न खल्विदं भवतेव केवलं सपत्नानामप- कृतम् यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि । भीमः – तात, अलं मन्युना । कृष्णा केशेषु कृष्टा तव सदसि पुरः पाण्डवानां नृपैर्यैः सर्वे ते क्रोधवह्नौ कृशशलभकुलावज्ञया येन दग्धाः । चूर्णिता अशेषकौरव्या येन सः दुःशासनाऽसृजा = दुःशासनवक्षोरुधिरेण, क्षीवः = मत्तः, सुयोधनस्य, ऊर्वोः = सक्थ्नोः, भङ्क्ता = त्रोटकः, अयम्, भीमः, शिरसा, अञ्चति = पूजयति, प्रणमतीत्यर्थः, अनुष्टुप् छन्दः ॥ २८ ॥ सपत्नानां = शत्रूणाम् । वीरा = समरविजयिनः, जिताः हताश्च, भवन्तीति शेषः । विकत्थनाभिः = प्रशंसाभिः । मन्युना = क्रोधेन । अन्वयः – पाण्डवानाम्, पुरः, तव, सदसि, यैः, नृपैः, केशेषु, कृष्णा, कृष्टा, ते सर्वे, येन, क्रोधवह्नौ, कृशशलभकुलावज्ञया, दग्धा, खलु, एतस्मात्, अहम्, श्रावये भुजबलाश्लाघया, न, नापि, दर्पात्, (श्रावये) तात, पुत्रैः पौत्रैः, च कृते, अतिगुरुणि कर्मणि, त्वमेव, साक्षी ॥ २९॥ महत् पापस्य फलमेतदिति बोधनायोक्तं नतु दर्पादित्याह – कृष्णा केशेष्विति । पाण्डवानाम् , पुरः = अग्रे, एतेन, वलवतः स्वामिनोऽग्र एवाकर्षणमतीव क्रोधहेतु- रिति ध्वनितम् । एकान्ते साधारणमनुष्यसमक्षकचाकर्षणमनर्थकरं किं पुनः राज सभायामित्याह – तव सदसीति । तव = राज्ञ , सदसि = सभायाम्, यैः कर्तृभिरनु- मन्तृभिर्दृष्टृभिर्वा । नृपैः । नतु साधारणमनुष्यैः । केशेषु = केशावच्छेदेन, कृष्णा = पाण्डववधूः, न तु साधारणस्त्री कृष्टा, ते, सर्वे, येन = पापाचरणरूपहेतुना, क्रोधवह्नौ, सुयोधन के जंघों को भग्न करने वाला है, सिर झुकाकर नमन करता है ॥ २८ ॥ धृतराष्ट्र – दुष्ट भीम ! यह शत्रुओं का अपकार केवल तुमने ही नहीं किया है किन्तु जब से क्षत्रिय है तब से कितने ही युद्ध में विजय प्राप्त करने वाले योद्धा बने और नाश को प्राप्त हो गये । तो फिर क्यों इस प्रकार से गाल बजाकर हम लोगों को व्यथित कर रहे हो ? भीम – पिता जी ? बस, क्रोध न कीजिए । जिन राजाओं के द्वारा आप [धृतराष्ट्र] की सभा में पाण्डवों की गृहिणी पाञ्चाली [द्रौपदी] केश ग्रहण करके आकृष्ट की गई है, जिस कारण वे सब क्षुद्र टिड्डियों के कुल की तरह अनायास ही क्रोधाग्नि में भस्म हो गए हैं । इसलिए मैं आपको सुनाता हूँ,