वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 255, कुल 355 में से
संदर्भ में पढ़ें२३६ वेणीसंहारं नाटकं कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा- नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः । मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान्गृध्रकङ्कै- रस्तं भास्वान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि ॥ ३६ ॥ उभौ—यदाज्ञापयत्यार्यः । ( इति निष्क्रान्तौ । ) ( नेपथ्ये । ) अरे रे गाण्डीवाकर्षणबाहुशालिन्, अर्जुन, अर्जुन, क्वेदानीं गम्यते ? अन्वयः—आप्ताः, जनाः, रणशिरसि, हतानाम्, देहभारान्, वह्निसात्, कुर्वन्तु, अमी, बान्धवाः, बान्धवेभ्यः, अश्रून्मिश्रम्, जलम्, ददतु, हतनरगहने, गृध्रकङ्कैः, खण्डितान्, ज्ञातिदेहान्, मार्गन्ताम्, अयम्, भास्वान्, रिपुभिः, सह, अस्तम्, प्रयातः, ( अतः ) बलानि, संह्रियन्ताम् ॥ ३६ ॥ कुर्वन्त्वाप्ता इति । आप्ताः = स्वीयाः, जनाः = बान्धवाः, रणशिरसि, हतानाम्, देहभाराम् = शरीरसङ्घान् वह्निसात् = कार्त्स्न्येन वह्निदेयान्, 'विभाषा साति कार्त्स्न्ये' इति साति प्रत्ययः । कुर्वन्तु, अमी, बान्धवाः, बान्धवेभ्यः ( मृतेभ्यः ) अश्रून्मिश्रम् = अश्रु भिरुन्मिश्रम् मिलितम्, जलम्, कथञ्चिद् ददतु 'त्वदम्यस्ता'दिति झ्यात्, हतनरगहने = हतनरा एव गहनं वनम् तस्मिन्, गृध्रकङ्कैः = मांसभक्षक- पक्षिविशेषैः खण्डितान्, ज्ञातिदेहान् = बान्धवशरीराणि, मार्गन्ताम् = गवेषन्ताम्, अयम्, भास्वान् = सूर्यः, रिपुभिः सह, अस्तम्, प्रयातः, सूर्यास्तमिव शत्रोरपि अस्त- मभूदिति भावः । अत इत्यध्याहारः । बलानि = सैन्यानि, संह्रियन्ताम् । अत्र सहो- क्तिरलङ्कारः । स्रग्धरा छन्दः ॥ ३६ ॥ गाण्डीवाकर्षणबाहुशालिन् = गाण्डीवाकर्षणे यौ बाहू ताभ्यः शालने तत्सम्बोधनम्- कुटुम्बी जन संग्राम में प्राणविसर्जन करने वाले लोगों के शरीरों के समूह को अग्नि मे जला डालें [अर्थात दाह-क्रिया सम्पादन कर डालें] ये बान्धव अपने गोत्रवालों के लिए अश्रुपात करते हुए तिलाञ्जलि प्रदान करें, मरे हुए योद्धाओं के लोथ से गहन इस रणस्थली में गीध तथ बकों के द्वारा खण्डित शरीर वाले अपने जातियों का अन्वेषण करें; और अब यह सप्तांशु [सूर्य] शत्रुओं के साथ ही अस्ताचल का अवलम्बन कर रहे हैं अतः अपनी सेनाओं को [आप लोग] एकत्रित कर लें ॥ ३६ ॥ दोनों—अच्छा महाराज की जो आज्ञा । चल पड़ते हैं ) ( नेपथ्य में ) अरे ओ ! गाण्डीव को आकृष्ट करने वाले भुजाओं से युक्त अर्जुन ! अर्जुन !! अब