भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 254, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 254

पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २३५ क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते । त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनाऽऽनखाग्रं स्त्यानेनाद्रेण चाक्तः स्वयमनुभविता भीषणं भीममस्मि ॥३५॥ ( नेपथ्ये ) भो भो भीमार्जुनौ, एष खलु निहताशेषारातिचक्राक्रान्तपरशुरामाभि- रामयशाः, प्रतापतापितदिङ्मण्डलः स्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति । उभौ—किमाज्ञापयत्यार्यः । ( पुनर्नेपथ्ये । ) ‘वागामिदिने, अनागतेऽह्नि श्वः' इत्यमरः । प्रभाते, पश्यताम्, नृणाम्, अग्र इति शेषः । पीनाभ्याम् = परिपुष्टाभ्याम्, मदभुजाभ्याम्, भ्रमितगुरुगदाघातसञ्चूर्णितोरो = घूर्णितवृहद्गदाघातेन चूर्णिते जघने यस्य तस्य, क्रूरस्य तव, शिरसि, पादम् = चरणम्, आधाय = धृत्वा, त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेन = त्वं मुख्यं यस्य तच्च भ्रातृचक्रम् तस्योद्दल्लनेन गलत् असृक् तदेव चन्दनम् तेन, पुनः कीदृशेन स्त्यानेन = घनीभूतेन, आर्द्रण = क्लिन्नेन, च, अक्तः—व्याप्तः, स्वयम्, ( अहम् ) भीमम् = भयावहम् भूषणम् = अनुभविता, अस्मि । स्रग्धरा छन्दः ॥ निहताशेषारातिचक्राक्रान्तपरशुरामाभिरामयशाः = निहतानि यानि अशेपारा- तिचक्राणि = सकलशत्रुसमूहः तैः आक्रान्तम् परशुरामाभिरामयशः यस्य सः, यथा परशुरामेण सकलाः क्षत्रियादयो निहताः तथैव युधिष्ठिरेणापि शत्रवो निहता इति तत्तुल्ययशा युधिष्ठिर इति भावः । भग्नजङ्घ तुझ दुरात्मा के शिर पर चरण रख कर तथा जिन भ्रातृवर्ग के ज्येष्ठ तुम हो उनके संहार करने पर बहते हुए रक्तरूपी गाढ़े और गीले चन्दन से नख से शिर तक लिप्त होकर मैं स्वयं भीषण आभूषण धारण कर लूँगा ॥ ३५ ॥ ( नेपथ्य में ) अरे अरे भीमसेन और अर्जुन ! यह देवतारूप अजातशत्रु श्रीमान् युधिष्ठिर, जो सम्पूर्ण शत्रुसमूह का संहार करके परशुराम के शुभ यश को जीत लिये हैं तथा अपने प्रताप से दिशाओं को सन्तप्त कर दिए हैं, आज्ञा दे रहे हैं ? दोनों—[ भीम और अर्जुन ] श्रीमान् क्या आज्ञा दे रहे हैं ? ( फिर नेपथ्य में )

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 254, कुल 355 में से · BharatKosha