वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 265, कुल 355 में से
संदर्भ में पढ़ें२४६ वेणीसंहारं नाटकं नागव्याघ्राटवीषु श्वपचपुरविदो ये च रन्ध्रेष्वभिज्ञा ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ २ ॥ पुरुषः—यथाऽऽज्ञापयति देवः । युधिष्ठिरः—तिष्ठ । एव च वक्तव्यः सहदेवः । ज्ञेया रहः शङ्कितमालपन्तः सुप्ता रुगार्ताश्च वने विचेयाः । पुरविदः = चाण्डालपुरोवेदिनः, नागव्याघ्राटवीषु = हस्तिव्याघ्रप्रधानवनेषु, स्वपरपदविद् इति पाठे तु व्याधाः, व्याघ्राटवीषु, यान्तु स्वपरपदविदः = स्वपरस्थानवेदिनः, सर्वत्र सञ्चरणशीला इत्यर्थः । अस्य रन्ध्रेष्वभिज्ञा इत्यनेनान्वयः । ये च रन्ध्रेषु परच्छिद्रे- ष्वित्यर्थः । अभिज्ञाः = कुशलाः, वा = अथवा, ये, सिद्धव्यञ्जनाः = सिद्धस्य मुने- र्व्यञ्जनम् चिह्नमिव चिह्नं येषां ते मुनिवेषधारिण इत्यर्थः । ते च, चाराः = चराः चरोऽक्षद्यूतभेदे च भीमे चारे' इति मेदिनी । खुफिया इति प्रसिद्धः, आङ्गलभाषायाम् सी० आई डी० इति ख्यातः । प्रतिमुनिनिलयम् = प्रतियतिस्थानम्, वीप्साया- मव्ययीभावसमासः । चरन्तु = गच्छन्तु तेषा तत्र गमनयोग्यत्वादिति भावः । स्रग्धरा छन्दः ॥ २ ॥ वक्तव्य इति —वक्तव्य इति गौणे कर्मणि तव्यप्रत्ययः । अन्वयः—रहः शङ्कितम्, आलपन्तः ( ज्ञेयाः ) सुप्ताः, रुगार्ताः, च, ( ज्ञेयाः ) वने, विचेयाः, यत्र, मृगाणाम् त्रासः, वयसाम्, विरावः, नृपाङ्कपादप्रतिमा, च, ( ते प्रदेशा विचेयाः ) ॥ ३ ॥ किं वक्तव्य इति मुख्यं कर्माह-ज्ञेया रहः शङ्कितमिति । रहः = विजने, एकान्त इत्यर्थः रह इत्यव्ययम् । विविक्तविजनच्छन्ननिःशलाकास्तथा रहः । रहोऽपांशु चालिङ्ग' इत्यमरः । शङ्कितम्=साशङ्कं यथा स्यादेवम्, आलपन्तः = परस्परं भाष- माणाः, जना इति शेषः । ज्ञेयाः = ज्ञातव्याः, किमेते दुर्योधनविषयकमालापं कुर्वन्ति उतान्यविषयकमिति ज्ञातव्यमिति भावः । सुप्ताः = शयिताः, रुगार्ताः = रोगपीडिताः, च, ज्ञेया इत्यस्यात्राप्यन्वयः । एषु निद्रारोगव्याजेन दुर्योधनः स्थितो न वेति ज्ञात- व्यमित्याशयः । वने = अरण्ये, विचेयाः = अन्वेषणीयाः, अन्वेषणस्थानमेवाह = त्रासो का पूर्ण ज्ञान हो। प्रत्येक तपस्वियों के आश्रमों में सिद्ध तपस्वियों के वेष में दूत लोग भ्रमण करें अर्थात् जो जिस तरह के स्थान से पूर्ण परिचित हो उसे वैसे ही स्थान में दुर्योधन का पता लगाने के लिए भेजा जाय ॥ २ ॥ पुरुष—महाराज की जैसी आज्ञा। युधिष्ठिर—ठहरो, सहदेव से इस प्रकार भी कह देना— एकान्त स्थान में सशंकभाव से वार्तालाप करने हुए लोगों की छानबीन कर लेना ।