वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 267, कुल 355 में से
संदर्भ में पढ़ें२४८ वेणीसंहारं नाटकं पाञ्चालकः—न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षण- महापातकप्रधानहेतुरुपलब्धः । युधिष्ठिरः—साधु भद्र, प्रियमावेदितम् । अथ दर्शनगोचरं गतः ? पाञ्चालकः—देव, समरगोचरं पृच्छ । द्रौपदी—( सभयम् । ) कहं समरगोअरो वट्टइ मे णाहो ? ( कथं समर- गोचरो वर्तते मे नाथः ? युधिष्ठिरः— ( साशङ्कम् । ) सत्यं समरगोचरो मे वत्सः— पाञ्चालकः—सत्यम् । किमन्यथा वक्ष्यते महाराजाय । दुरात्मनः=दुष्ट आत्मा अन्तःकरणावच्छिन्नं चैतन्यं यस्य तस्य, पदवी = स्थानम्, आसादिता=प्राप्ता । देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुः=देव्याः द्रौपद्याः यत्केशाम्बराकर्षणं कचवस्त्राकर्षः तदेव महापातकम् महापापं तस्य प्रधानहेतुः । एतस्यैवाज्ञया दुःशासनेन केशवस्त्राकर्षणमकारितीत्ययमेव प्रधानहेतुरिति भावः । उपलब्धः = प्राप्तः । प्रियम् = इष्टम्, आवेदितम् = कथितम् । यदि स न मिलेत्तदा 'दुर्योधनस्य द्वौ जघनं त्रोटयिष्यामी'ति पञ्चमाङ्कपञ्चविंशच्छलोकोक्तप्रतिज्ञापूर्त्यभावे भीमस्य स्वयं प्राणत्यागेन तद्दुःखासह्नादस्माकमपि मृत्युः स्यात्, तच्च नाभूदित्युच्यते प्रियमावेदि- तमिति । दर्शनगोचरम् = दृष्टिविषयम्, गतः = प्राप्तः, दृष्ट इत्यर्थः । समरगोचरम् = सङ्ग्रामविषयम् संग्रामनिहपितविद्यता च याचितमण्डन- न्यायेन । पाञ्चालक—महाराज, उनके पद का चिह्न ही केवल नहीं प्राप्त हुआ है किन्तु महारानी के केशपाश के स्पर्श से जनित पाप का जो प्रधान कारण है वही प्राप्त हो गया । युधिष्ठिर—( प्रसन्नता के साथ पाञ्चालक को हृदय से लगाकर ) साधु सौम्य ! साधु । आपने सुखसंवाद सुनाया है । क्या नेत्र के सामने दिखाई पड़ा ! पाञ्चालक—महाराज, युद्धगोचर पूछिये [ नेत्रगोचर क्या पूछते हैं ! ] द्रौपदी—( भय के साथ ) क्या मेरे स्वामी युद्ध कर रहे हैं । युधिष्ठिर—( सशङ्क भावसे ) सत्य ही क्या मेरा प्रिय अनुज युद्ध कर रहा है ? पाञ्चालक—सत्य ही है । क्या महाराज से असत्य भाषण कहूँगा ?