भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 267, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 267

२४८ वेणीसंहारं नाटकं पाञ्चालकः—न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षण- महापातकप्रधानहेतुरुपलब्धः । युधिष्ठिरः—साधु भद्र, प्रियमावेदितम् । अथ दर्शनगोचरं गतः ? पाञ्चालकः—देव, समरगोचरं पृच्छ । द्रौपदी—( सभयम् । ) कहं समरगोअरो वट्टइ मे णाहो ? ( कथं समर- गोचरो वर्तते मे नाथः ? युधिष्ठिरः— ( साशङ्कम् । ) सत्यं समरगोचरो मे वत्सः— पाञ्चालकः—सत्यम् । किमन्यथा वक्ष्यते महाराजाय । दुरात्मनः=दुष्ट आत्मा अन्तःकरणावच्छिन्नं चैतन्यं यस्य तस्य, पदवी = स्थानम्, आसादिता=प्राप्ता । देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुः=देव्याः द्रौपद्याः यत्केशाम्बराकर्षणं कचवस्त्राकर्षः तदेव महापातकम् महापापं तस्य प्रधानहेतुः । एतस्यैवाज्ञया दुःशासनेन केशवस्त्राकर्षणमकारितीत्ययमेव प्रधानहेतुरिति भावः । उपलब्धः = प्राप्तः । प्रियम् = इष्टम्, आवेदितम् = कथितम् । यदि स न मिलेत्तदा 'दुर्योधनस्य द्वौ जघनं त्रोटयिष्यामी'ति पञ्चमाङ्कपञ्चविंशच्छलोकोक्तप्रतिज्ञापूर्त्यभावे भीमस्य स्वयं प्राणत्यागेन तद्दुःखासह्नादस्माकमपि मृत्युः स्यात्, तच्च नाभूदित्युच्यते प्रियमावेदि- तमिति । दर्शनगोचरम् = दृष्टिविषयम्, गतः = प्राप्तः, दृष्ट इत्यर्थः । समरगोचरम् = सङ्ग्रामविषयम् संग्रामनिहपितविद्यता च याचितमण्डन- न्यायेन । पाञ्चालक—महाराज, उनके पद का चिह्न ही केवल नहीं प्राप्त हुआ है किन्तु महारानी के केशपाश के स्पर्श से जनित पाप का जो प्रधान कारण है वही प्राप्त हो गया । युधिष्ठिर—( प्रसन्नता के साथ पाञ्चालक को हृदय से लगाकर ) साधु सौम्य ! साधु । आपने सुखसंवाद सुनाया है । क्या नेत्र के सामने दिखाई पड़ा ! पाञ्चालक—महाराज, युद्धगोचर पूछिये [ नेत्रगोचर क्या पूछते हैं ! ] द्रौपदी—( भय के साथ ) क्या मेरे स्वामी युद्ध कर रहे हैं । युधिष्ठिर—( सशङ्क भावसे ) सत्य ही क्या मेरा प्रिय अनुज युद्ध कर रहा है ? पाञ्चालक—सत्य ही है । क्या महाराज से असत्य भाषण कहूँगा ?