वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 269, कुल 355 में से
संदर्भ में पढ़ें२५० · वेणीसंहारं नाटकं प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति क्षय प्राणानां नः कुरुपतिपशोर्वाऽद्य निधनम् ॥ ५ ॥ अथवा कृतं सन्देहेन । नूनं तेनाऽद्य वीरेण प्रतिज्ञाभङ्गभीरुणा । बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ ६ ॥ बान्धवानाम्, क्षितिपतिसहस्रस्य = सहस्रसंख्याकपृथ्वीपतीनाम्, पुरः = अग्रे, एतेन श्रेष्ठजनादीनामग्रे परिभवोऽतीवदुःखजनक इति सूचितम् । नृपसदसि = राजसभायाम्, न तु साधारणस्थान इत्यर्थः । अस्माकम्, ननु एकस्य यः, अयम् = सर्वजनवेद्यः, परिभवः == स्त्रीकेशवस्त्राकर्षणरूपोऽनादरः, पुरा = प्राक् द्यूते पराजयोत्तरकाले, अभूत् । तस्य द्वितयम् = उभयम्, अपि, अपिरत्र एवार्थे । द्वितयमेवेत्यर्थः । प्रायः = बाहुल्येन, पारम् = अन्तम्, प्रतिक्रियामिति यावत् । गमयति = प्रापयिष्यति, किमाकारमुभय- मित्याह - क्षयः प्राणानामिति । अद्य, नः = अस्माकम्, प्राणानाम्, क्षयः == विनाशः । अस्माकं मरणमित्यर्थः । वा = अथवा, कुरुपतिपशोः = कुरुपतिः दुर्योधनः पशुरिव तस्य, निधनम् = विनाशः, मरणमित्यर्थः । अद्य भीमेन दुर्योधनस्य विनाशः स्यादथवा भीमो द्वितीयप्रतिज्ञापूर्त्यर्थं स्वयमेव मरिष्यति तया च तदभावे वयमपि प्राणान् त्यक्ष्याम इति भाव । क्षयः प्राणानां न इत्युत्तरं कुरुपतिनिधनस्य कथनात्तस्यैव मरणं स्यान्नचास्माकमिति ध्वनितम् । अत्र भूतपूर्वस्य परिभवस्य अयमिति प्रत्यक्ष- विषयबोधकशब्देन निर्देशात्भाविकमलंकारः । शिखरिणी छन्दः । ५ ॥ यत्कुरुपतिमरणं ध्वनितं तदेव शब्देनाह — अथवा कृतमिति । अन्वयः — प्रतिज्ञाभङ्गभीरुणा, तेन, अद्य, ते, केशपाशः, अस्य, आकर्षणक्षमः, स च, नूनम्, बध्यते ॥ ६ ॥ नूनमिति । प्रतिज्ञाभङ्गभीरुणा = तव केशपाशस्याऽऽबन्धने दुर्योधनस्यवधे च तस्य प्रतिज्ञाभङ्गः स्यादतस्तस्माद्भीरुः तेन, वीरेण, ते = तव, केशपाशः = कचकलापः, अस्य = केशपाशस्य, आकर्षणक्षमः = आकर्षणे प्रभुः, कारणमित्यर्थः । स = दुर्योधनः, च, अद्य, नूनम् = निश्चयम् इदं - क्रियाविशेषणम् । बध्यते = संयम्यते, अव च हन्यते । बध्यत इति बन्धनार्थकबन्धधातोः, हिंसार्थकवधधातोश्च निष्पाद्य तन्त्रेण बातें हमलोगों को पहुँचा सकती है—हम लोगों के प्राणों का अवसान या पशुतुल्य [ जड- मति ] कौरवनरेश [ सुयोधन ] का आज ही मरण ॥ ५ ॥ अथवा शङ्का का अवसर ही क्या ? आज निश्चय है कि प्रतिज्ञा के खण्डित होने के भय से वह वीर [ भीमसेन ] तुम्हारे इस केशकलाप को और उसके आकृष्ट करने में समर्थ [ दुर्योधन ] को भी बाँधेगा ॥ ६ ॥