वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 270, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५१ पाञ्चालक, कथय कथय, कथमुपलब्धः स दुरात्मा कस्मिन्नुद्देशे किं वाऽधुना प्रवृत्तमिति । द्रौपदी-भद्द, कहेहि । कहेहि । ( भद्र कथय, कथय । ) पाञ्चालकः- शृणोतु देवो देवि च । अस्तीह देवेन हते मद्राधिपतौ शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलप्रविष्टे सेनापतिनिधननिरा- क्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवलिगतविचित्र- पराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु निर्देशः । तव केशबन्धनं दुर्योधनवधश्च स्यादिति भावः । अत्र द्वयोः प्रस्तुतयोर्वध्यत इति क्रियायामन्वयात् तुल्ययोगिताऽलङ्कारः तथा हेतोः पदार्थगतत्वेन काव्यलिङ्गञ्च । अनुष्टुप् छन्दः । उपलब्धः प्राप्तः, उद्देशे=स्थाने, प्रवृत्तम्=आरब्धम्, इति इदं कथयेत्यस्य कर्म । देवः = युधिष्ठिरः, देवी = द्रौपदी, च शृणोत्वित्यस्य प्रत्येकमन्वयः । किं शृणोतु इत्याह = अस्तीहेति । इह = भवदुक्तप्रश्नविषये, अस्ति, इदमिति शेषः । तस्यार्थः- वक्ष्यमाणं वाक्यम् । मद्राधिपतौ = मद्रदेशराजे, शल्ये हते, ( सति ) गान्धारराज- कुलशलभे=गान्धारदेशस्य यो राजा तस्य यत्कुलं तदेव शलभः पतङ्गः अग्निमभि- मुखीकृत्य पतनेच्छुः जन्तुविशेषः तस्मिन् । सहदेवशस्त्रानलप्रविष्टे = सहदेवस्य शस्त्रम् अनलः अग्निः तत्र प्रविष्टे ( सति ) दुर्योधनमातुलशकुनौ सहदेवेन हते सतीत्यर्थः । सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु = सेनापतेः शल्यस्य निधनेन मरणेन ये निराक्रन्दविरलयोधाः निस्तब्धस्वल्पभटाः तैः उज्झितासु त्यक्तासु, समरभूमिषु = सङ्ग्रामस्थानेषु, रिपुबलपराजयोद्धतदलितविचित्रपराक्रमा- सादितविमुखारातिचक्रासु = रिपुबलपराजयेन उद्धतम् अयथायोग्यम् तद् वलिगतम् गतिविशेषः तच्च, विचित्रपराक्रमश्च, ताभ्याम् आसादितम् आक्रान्तम् विमुखाराति- चक्रम् पराङ्मुखशत्रुसमूहः याभिः (कर्त्रीभिः) तासु, युष्मत्सेनासु इत्य- न्वयः । धृष्टद्युम्नाधिष्ठितासु = द्रुपदपुत्राधिकृतासु, युष्मत्सेनासु, कृपकृतवर्मा- श्वत्थामसु, प्रनष्टेषु = अदर्शनं गतेषु, पलायितेष्विति यावत् । कुमारवृकोदरस्य, पाञ्चालक ? कहो कहो किस प्रकार और किस स्थान पर वह पापमति [ दुर्योधन ] पाया गया और अब क्या कर रहा है ! द्रौपदी-सौम्य ! कहिए, कहिए । पाञ्चालक-सुनिये महाराज और महारानी ? आपके द्वारा मद्रनरेश शल्य के वध हो जाने पर, गान्धार के राजकुल में फतिङ्गे के समान शकुनि के सहदेव के शस्त्ररूपी अग्नि में