वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 271, कुल 355 में से
संदर्भ में पढ़ें२५२ वेणीसंहारं नाटकं अनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः । युधिष्ठिरः-ततस्ततः । द्रौपदी-अयि, परदो कहेहि । ( अयि, परतः कथय । ) पाञ्चालकः-अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधि- ष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमा- रब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निःश्वसति कुमारे वीभत्सौ जलधरसमयनिशासञ्चारित- तथा दारुणाम् = अद्य दुर्योधनवधाभावे निजवधरूपाम्, प्रतिज्ञाम्, उपलभ्य = ज्ञात्वा सः, दुरात्मा = दुष्टान्तःकरणः, कौरवाधमः = कुरुकुलेषु नीचः, क्वापि = कस्मिंश्चि- त्स्थाने, प्रलीनः = प्रछन्नः ( इति ) न, ज्ञायते इत्यन्वयः । परतः = अग्रे । अवधत्ताम् = अवधानं दत्ताम्, सावधानतया शृणोत्वित्यर्थः, देवीदेवौ शृणुता- मित्यर्थः । वासुदेवेन=कृष्णेन, अधिष्ठितम् = अध्यासितम्, एकरथम्, आरूढौ = व्याप्तौ समन्तात् = सम्यक्, समन्तपञ्चकम् = देशविशेषम्, पर्यटितुम् = भ्रमितुम् ,आरब्धौ, तम् = दुर्योधनम्, अनासादितवन्तौ = अप्राप्तवन्तौ, च पर्यटनेनापि न प्राप्तावित्यर्थः । अनन्तरम् = दुर्योधनाप्राप्त्युत्तरकाले, मादृशे = कार्यसमर्थे भृत्यवर्गे = अनुचरस- मुदाये दैवं = भाग्यम्, अनुशोचति = चिन्तयति, शतृप्रत्ययान्तोऽयम् । एवमग्रेऽपि । सति, कुमारे वीभत्सौ=राजपुत्रार्जुने, दीर्घम्, उष्णम् च, यथा स्यात्तथा, निःश्वसति= श्वासं गृह्णति, श्वासप्रश्वासौ कुर्वति सतीत्यर्थः । वृकोदरे = भीमे, जलधरसमयनिशा- संचारिततडित्प्रकरपिङ्गलैः = जलधरसमयस्य वर्षाकालस्य या निशा रात्रिः तस्यां प्रवेश करके जल जाने पर, सेनापतियों के मारे जाने पर तथा बचे हुए योद्धाओं के धीरे [चुके] मे समर भूमि का परित्याग कर देने पर जब शत्रुसैन्य के पराजित होने से उद्धत चेष्टा तथा प्रशंसनीय पराक्रम के साथ युद्धपराङ्मुख शत्रुसमूहों को बगल में आपकी सेना के वीर पकड़ रहे थे तथा कृप, कृतवर्मा और अश्वत्थामा कहीं इधर उधर छिपे हुए थे, उस समय दुष्ट तथा कौरवनीच दुर्योधन कुमार भीमसेन की भीषण प्रतिज्ञा को, जो आज ही पूर्ण होने को है सुनकर नहीं जाना गया कि कहाँ गुप्त रूप से छिपा हुआ है ? युधिष्ठिर-तो फिर क्या हुआ ? द्रौपदी-अयि ! आगे कहो । पाञ्चालक-ध्यान दीजिए महाराज और महारानी ! इसके अन्तर भगवान् वासुदेव