भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 272, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 272

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५३ तडित्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किञ्चनकारितामधिक्सि- पति विधैर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांस- भारःप्रत्यग्रविशसितमृगलोहितलोहितचरणनिवसनस्त्वरमाणोऽन्तिकमुपेत्य पुरुषः परुषश्वासग्रस्तार्द्धश्रुतवर्णानुमेयपदया वाचा कथितवान्-'देव कुमार, याः सञ्चारिताः ताडिताः तासां प्रकरः विद्युत्समुदाय इत्यर्थः । तद्वत्पिङ्गलैः कपिशैः 'कडारः कपिशः पिङ्कपिङ्गो कद्रु पिङ्गलो' इत्यमरः । कटाक्षैः=अपाङ्गदर्शनैः गदाम्, आदीपयति = ज्वलयति, गदामधिककान्तिमतो कुर्वति सतीत्यर्थः । विधेः = दैवस्य, यत्किञ्चनकारिता = यत्किञ्चन 、 अन्यदेव तत्कर्तुं शीलमस्य स यत्किञ्चनकारी अकार्यविधायकः तस्य भावः ताम्, असम्भाव्यकारितामित्यर्थः । अधिक्षिपति= निन्दति सति । कुमारस्य, मारुतेः = मरुतस्यापत्यं मारुतिः तस्य भीमस्य अत इञ्, स्त्रीषु प्रत्ययः । मरुतशब्दोऽदन्तोऽप्यस्ति 'मरुतः स्पर्शनः प्राणः समीरो मरुद्, इति विक्रमादित्यकोशात् । संविदितः = परिचितः, अथवा संविदितं वृत्तान्त- ज्ञानम्, भावे क्तः तदस्ति अस्येति । 'अर्श आदिभ्य इत्यच्', विदितवृत्तान्त इत्यर्थः । अस्मिन्पक्षे मारुतेरित्यस्याग्रिमेणान्तिकमित्येनेनान्वयः । उज्झितमांसभारः=उज्झितः त्यक्तः मांसभारः येन सः, भूमौ स्थापितमांसभार इत्यर्थः । प्रत्यग्रविशसितमृग- लोहितलोहितचरणनिवसनः = प्रत्यग्रं नूतनं विशसितः मारितो यो मृगः तस्य यल्लोहितं रक्तम् रुधिरमित्यर्थः तेन लोहितौ रक्तौ चरणनिवसनौ पादवस्त्रे यस्य सः 'लोहितो मङ्गले नदे । वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने । 'गोशीर्षे रुधिरे युद्धे' इति हेमः । त्वरमाणः = त्वरयाऽऽगच्छन्, कश्चित्, पुरुष. व्याध इत्यर्थः । अन्तिकम् = समीपम्, उपेत्य=आगत्य, परुषश्वासग्रस्तार्द्धश्रुतवर्णानुमेयपदया = परुषो रूक्षो यः श्वासः तेन ग्रस्ताः व्याप्ता अतएव अर्द्धश्रुता अस्पष्टमाकर्णिता ये वर्णा अक्षराणि तैरनुमेयानि ज्ञातव्यानि पदानि यस्यां तया, वाचा=वाण्या, कथितवान् । कि के सारथ्यि में एक ही रथ पर बैठे हुए कुमार भीमसेन और अर्जुन दोनों समन्तपञ्चक के चारों ओर भ्रमण करने लगे और उसे ( दुर्योधनको ) प्राप्त भी न किए । इसके अनन्तर जब हमारे जैसे दासों का समूह भाग्य को धिक्कार रहा था, कुमार अर्जुन लम्बी और गरम- गरम सांस ले रहे थे, वर्षाकाल की रात्रि में चमकने वाली विजलियों के समूह की भाँति पीले वर्ण के कटाक्षों से कुमार भीमसेन अपनी गदा को प्रकाशित कर रहे थे, और भगवान् नारायण (श्रीकृष्ण) भाग्य की स्वेच्छाचारिता की निन्दा कर रहे थे इसी बीच में भीमसेन का परिचित कोई व्याध, जिसका पैर और वस्त्र तुरन्त के निहत किए गये हरिनों के रक्त से रञ्जित हो रहा था, अपने शिर के मांसभार को उतार कर, अत्यन्त शीघ्रता में समीप आकर रूक्ष श्वासवेग से लुप्त अत एव आधे ही वर्ण के श्रवण से सम्पूर्ण पद का

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 272, कुल 355 में से · BharatKosha