वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 273, कुल 355 में से
संदर्भ में पढ़ें२५४ वेणीसंहारं नाटकं अस्मिन्महतोऽस्य सरसस्तोरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे । तयोरेका- स्थलमुत्तीर्णा न द्वितीया । 'परत्र कुमार प्रमाणम्' इति । ततः ससम्भ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य गत्वा च सरस्तीरं परिज्ञायमानसुयो- धनपदलाञ्छना पदवीमासाद्य भगवता वासुदेवेनोक्तम्-'भो वीर वृकोदर, जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्नूनं तेन त्वद्भयात्स- रसीमेनामधिशायितेन भवितव्यम् ।' एतच्च वचनमुपश्रुत्य बलानुजस्य कथितवानित्याह-देवकुमार इति । महतः अस्य, सरसः = सरस्याः, अस्मिन्, तीरे = तटे द्वे, पदपद्धती = एकपद्यौ, समवतीर्णपदप्रतिबिम्बे = समवतीर्णः स्थितः पदप्रतिबिम्बः चरणप्रतिकृतिः ययोः ते वर्तेत इति शेषः । स्थलम् = जलादुपरिभूमिम्, उत्तीर्णा = प्रत्यागता, न, द्वितीया, द्वौ पुरुषौ जलं प्रति गतौ तयोरेकः पुनः समागतो द्वितीयो नेति विज्ञायते दुर्योधनो जले वर्तत इति भावः जलमुत्तीर्णा, इति पाठे एको जले प्रविवेश द्वितीयो नेति भावः परत्र = अग्रे, यत्र दुर्योधनो वर्तते न वेति- विषय इत्यर्थः । कुमारः = भवान् भीमः, एव, प्रमाणम् = प्रमात्मकज्ञानजनकम् । दुर्योधनस्थितिविषयनिश्चयो भवद्भिरवे कर्तुं शक्यत इति भावः । इति, एतत्पर्यन्तं कथितवानित्यस्य कर्म । ततः = व्याघवचनश्रवणानन्तरम्, ससंभ्रमम् = सोद्वेगम्, वयम्, सर्वे, प्रस्थिताः, तम् = व्याधम्, एव, पुरस्कृत्य = अग्रे कृत्वा, अस्य, प्रस्थिता इत्यनेनान्वयः । परि- ज्ञायमानसुयोधनपदलाञ्छिनाम् = सुयोधनपदस्य लांछितम् लांछनं भावे क्तप्रत्ययः चक्रपद्मादिचिह्नम् तत्परिज्ञायमानं यस्याम् ताम्, चक्रपद्मादिचिह्नयुक्तपदचिह्निता- मित्यर्थः । पदवीम् = मार्गम्, आसाद्य = प्राप्य । वासुदेवेन = कृष्णेन, उक्तम् । किमुक्तमित्याह = भो वृकोदरेति । सलिलस्तम्भनीम् = सलिलं स्तंभ्यतेऽनयेति सलि- लस्तम्भनी ताम् । करणे ल्युट् ततः टिड्ढाणञ्त्रि'नि ङीप् । एनाम्, सरसीम्, अधि- शायितेन = सुप्तेन, अधिशीङ्स्थासां कर्मेति सरसीत्यस्य कर्मसंज्ञाऽतो द्वितीया । बलानुजस्य = बलस्य बलभद्रस्य अनुजः कृष्णः तस्य, एतच्च, वचनम्, उपश्रुत्य = अनुमान कर लेने योग्य वाणी में कहा 'इस समीपस्थ विशाल सरोवर के तट पर युग्म मनुष्यों के चरणों के उतरने के चिह्न दृष्टिगोचर हो रहे हैं । उनमें से एक पदपद्धति स्थल की ओर आई है परन्तु दूसरी नहीं । इसके आगे कुमार ही समझ लें इसे सुनकर बड़ी आतुरता से हम सब लोग उसे आगे करके चल दिये वहाँ जाकर 'झील' (तालाब) के तट पर, अङ्कित पदचिह्न को, जिसमें सुयोधन के पद के चिह्न स्पष्ट रूप से दृष्टिगोचर हो रहे थे, देखकर भगवान् वासुदेव ने कहा, 'वृकोदर ! जलस्तम्भनी विद्या को सुयोधन जानता है अतः उसने तुम्हारे भय से अवश्य इस तालाब का आश्रय लिया होगा'