वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 277, कुल 355 में से
संदर्भ में पढ़ें२५८ वेणीसंहारं नाटकं पाञ्चालकः — नतश्चैवं भाषमाणेन वृकोदरेणावतीर्य वीर्यक्रोधोद्धतभ्रमि- तभीषणगदापाणिना सहसैवोलङ्घिततीरमुत्सन्ननलिनमाविद्धमूर्च्छितग्राह- मुद्भ्रान्तसमस्तशकुन्तमतिभैरवरवभ्रमितवारिचयमायतमपि तत्सरः समन्तादालोडितम् । युधिष्ठिरः — भद्र, तथाऽपि किं नोत्थितः ? पाञ्चालकः — देव, एवम् = अरे रे धृष्टेत्यादि, भाषमाणेन = ब्रुवता, वृकोदरेण = भीमेन, अवतीर्य= सरसि प्रविश्य वीर्यक्रोधोद्धतभ्रमितभीषणगदापाणिना = वीर्यक्रोधाभ्याम् उद्धता उच्छृङ्खलीकृता अत एव भ्रमिता भीषणा दारुणा गदा पाणौ येन तेन 'भीषणं रसे शल्लक्यां ना गाढे दारुणे त्रिषु' इति विश्वः । सहसैव = झटित्येव । उल्लङ्घिततीर- मित्यादि, सरसि, आलोडनक्रियायां चान्वेति । उल्लङ्घिततीरम् = उल्लङ्घितम् अति- क्रान्तं तीरं येन तत्, उत्सन्ननलिनम् = उत्सन्नं विनष्टं नलिनं कमलं यस्य, पक्षे उत्सन्नं विनाशितं नलिनं येन अन्तर्भावितण्यर्थः । अस्मिन्पक्षे उत्सन्नं विनष्टमित्यर्थस्तु न युक्तस्तथा सति धातोर्अकर्मकत्वप्रत्ययात्कर्मणि क्तप्रत्यय नुपपत्तेर्नेति तृतीयान्तमनुप- पन्नं स्यात् । आविद्धमूर्च्छितग्राहम् = आविद्धः सन्ताडितोऽत एव मूर्च्छितो ग्राहः यस्मिन् तत्, पक्षे मूर्च्छितश्चासौ ग्राह इति मूर्च्छितग्राहः स आविद्धो येन तत् उद्भ्रान्त- समस्तशकुन्तम् = उड्डीननिखिलखगम्, पक्षे उद्विग्ननिखिलखगम्, अतिभैरवम्= अतिभयानकम्, रवभ्रमितवारिचयम् = रवेन, भ्रमितोऽनवस्थितो वारिचयः जलसमूहो यत्र, पक्षे रवेन भ्रमितो चूर्णितो वारिचयो येन तत्, आयतम् = दीर्घम्, अपि, सरः, समन्तात्, आलोडितम् = मथितम् । किमिति—किं शब्दः प्रश्ने । उत्थितः, दुर्योधन इति शेषः । पाञ्चालक—महाराज इस प्रकार कहते हुए भीमसेन ने नीचे उतर कर क्रोध के कारण उच्छृङ्खलतापूर्वक मुद्गर की तरह गदा हाथ में लेकर अच्छी तरह घुमाकर उस लम्बे चौड़े महान् सरोवर को भी उन्मथित कर दिया जिससे वह [सरोवर] एकाएक तट से आगे बढ़ गया । कमलों का वन उखड़ कर नष्ट भ्रष्ट होने लगा । उसमें रहने वाले घड़ियाल प्रक्षिप्त होकर चेतनारहित हो गये । उनमें विचरने वाले पक्षी तथा मत्स्य व्याकुल हो गए । अत्यन्त भीषण शब्द से जलराशि भ्रमण करने लगी । युधिष्ठिर—सौम्य, तब भी वह क्या नहीं उठा ? पाञ्चालक—महाराज !