वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 282, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६३ देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे च मारुतौ प्रनष्टे कौरवराजे महाना- सीन्नो विषादः । सम्प्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतमङ्गलसमारम्भाः प्रवर्त्यन्ताम् । कृतं सन्देहेन । पूर्यन्तः सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णाऽत्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् । रामे घोरकुठारभासुरकरे क्षत्रद्रुमाच्छेदिनि क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ १२ ॥ प्रनष्टे=अदर्शनं प्राप्ते, सति, नः = अस्माकम्, महान् विषादः = खेदः, आसीदित्य- न्वयः । आसादिते = प्राप्ते, भुवनतलम्, निष्कण्टकीभूतम् = असपत्नीभूतम् शत्रुरहित- मित्यर्थः । परिकलयतु = अवगच्छतु, भवान् = युधिष्ठिरः । अभ्युदयोचिता = उन्नत्य- नुकूला, अनवरतमङ्गलसमारम्भा = सततं शिवप्रारम्भाः, सन्देहेन = संशयेन, विजयः स्यान्नवेत्याकारकेण, कृतम् = अलम् । अन्वयः—रत्नकलशाः, ते, राज्याभिषेकाय, सलिलेन, पूर्यन्ताम्, चिरोज्झिते, कबरीबन्धे, च, कृष्णा, क्षणम्, करोतु, घोरकुठारभासुरकरे, (अत एव) क्षत्रद्रुमोच्छे- दिनि, रामे, क्रोधान्धे, वृकोदरे, च, आजौ, परिपतति (सति) कुतः, संशयः ॥१२॥ कथं न सन्देह इत्याह = पूर्यन्तामिति । रत्नकलशाः = रत्नैः मणिभिः जटिताः कलशाः, मध्यमपदलोपिसमासः । 'रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकमिति मेदिनी । ते=तव, युधिष्ठिरस्येत्यर्थः । राज्याभिषेकाय = राज्येऽभिषेचनाय, सलिलेन= जलेन पर्यन्ताम् = म्रियन्ताम्, चिरोज्झिते = बहुकालेन परित्यक्ते, कबरीबन्धे = केश- वेशबन्धे, च कृष्णा = द्रौपदी, क्षणम्=उत्सवम्, कालविशेषोत्सवयोः क्षण' इत्यमरः । करोतु, केशबन्धनार्थं साम्राज्येत्सवं करोत्वित्यर्थः । ननु यदि भीमस्य विजयो न स्यात्तदेहं सर्वमनर्थकमित्यत आह—राम इति । घोरकुठारभासुरकरे = भयङ्करपरशु- शोभमानहस्ते, अतएव क्षत्रद्रुमोच्छेदिनि = क्षत्रा नृपा एव द्रुमा वृक्षाः तान् छेत्तुं शीलमस्य तस्मिन्, परशुरामेण त्रिःसप्तकृत्वः क्षत्रियाः संजह्रिर इति भावः । रामे = परशुरामे, क्रोधान्धे = कोपाकुले वृकोदरे, च आजौ = सङ्ग्रामे, परिपतति = प्रविष्टे गया हूँ ! महाराज ! देवकीपुत्र ने कहा है - दुर्योधन के छिप जाने पर भीम की प्रतिज्ञा अपूर्ण समझकर हम लोगों को महान् शोक ने घेर लिया था परन्तु अब भीमसेन के हाथ सुयोधन के लग जाने पर निष्कण्टक भूमण्डल को आप सुशोभित करें । उन्नति के समय के लिए जो उत्सव उचित हो उसे निरन्तर होने रहने दें । सन्देह करना व्यर्थ है । आपके अभिषेक के लिए मणिमय कलश जल से पूर्ण करके रक्खे जायें । द्रौपदी चिर-