वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 284, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६५ कञ्चुकी—यथाऽऽज्ञापयति देवः । ( सोत्साहं परिक्रम्य ) भो भोः संवि- धातृणां पुरस्सराः, यथास्थानमन्तर्वैशिका दौवारिकाश्च, एष खलु भुजब- लपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधना- नुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननरसिंहस्य दुर्योधनोरु- स्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपा- तिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः । ( आकाशे । ) अतिसम्माननीयत्वाद् एतस्य वचनमन्यथाकर्तुं न योग्यमिति भावः । वत्सस्य = भीम- सेनस्य, विजयमङ्गलाशंसया = रिपुजयलपशिवेच्छाया, तदुचिता = मङ्गलयोग्याः, समारम्भाः = सुक्रियाः, प्रवर्त्यन्ताम् = क्रियन्ताम् । सोत्साहं = साध्यवसायम् 'उत्साहोऽध्यवसायः स्यादि'त्यमरः । संविधातृणाम् = अधिकारिणाम्, पुरःसराः = मुख्याः, भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य = परिक्षिप्यते सन्तार्यतेऽनेनेति परिक्षेपो जलयानम् ( जहाज ) इति प्रसिद्धः । भुजबलमेव परिक्षेपः तेनोत्तीर्णः कौरव एव परिभवसागरः दुःखसमुद्रो येन तस्य, निर्व्यूढदुर्वह- प्रतिज्ञाभारस्य = निर्व्यूढः निःशेषेण गृहीतो दुर्वहः प्रतिज्ञाभारः दुर्योधनोरुभङ्गरूपः येन तस्य, पूर्णप्रतिज्ञतायस्येत्यर्थः । सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य = सुयोधनस्य यदनुजशतं तस्य उन्मूलने विनाशन प्रभाञ्जनः महावायुरिव तस्य, बलिनः = बलवतः, प्राभञ्जनेः = मरुत्तनयस्य, वृकोदरस्य, स्नेहपक्षपातिना = स्नेहेन प्रेम्णा पक्षे साहाय्ये पतितुं शीलमस्य तेन, मनसा = चित्तेन, मङ्गलानि = शुभानि, कर्तुम् आज्ञापयति = आदिशति । आकाश इति-पात्राभावेऽपि श्रुत्वेवानुक्तमप्यर्थं किं ब्रवीषीत्याद्यर्थकं वाक्यं यत् प्रयुज्यते तत्राकाश इत्युच्यते । तदुक्तं दर्पणे — 'किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाश- भाषितम् ।' इति । कञ्चुकी—अच्छा महाराज की आज्ञा सिर पर (उत्साह से चलकर) भो विधि- विधानों के आचार्य, श्रेष्ठता के क्रम से अन्तःपुर [ रनिवास ] के अधिकारियो तथा द्वार- रक्षको ! यह महाराज युधिष्ठिर अपने पराक्रमी भ्राता पवनपुत्र भीमसेन का पक्षपात मन में रखकर विजय महोत्सव के लिए आज्ञा दे रहे हैं क्योंकि भीमसेन अपनी भुजाओं के पराक्रम का प्रदर्शन करके कौरवों के द्वारा किए गए अपमानरूपी समुद्र के पार पहुँच गए हैं, वहन करने के अयोग्य प्रतिज्ञा के भार को वहन कर लिए हैं, सुयोधन के सौ भ्राता- रूपी वृक्षों को उखाड़ कर फेंक देने में आँधी के समान हैं, और दुःशासन का हृदय विदीर्ण करने में साक्षात् नृसिंह भगवान् हैं तथा दुर्योधन के जंघारूप विशाल स्तम्भ [ खम्भ ] के चूर-चूर कर देने पर विजय की प्राप्ति भी अवश्यम्भावी है । (आकाश की ओर) क्या