वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 301, कुल 355 में से
संदर्भ में पढ़ेंAn exact line-by-line transcription of the text from the image into Devanagari script:
२८२ | वेणीसंहारं नाटकं द्रौपदी - ( संज्ञामुपलभ्योत्थाय च । ) महाराज किं एदं वह्ठइ । (महाराज, किमेतद्वर्तते । ) युधिष्ठिरः—कृष्णे, किमन्यत् ? स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः । गदापरिघशोभिना भुजयुगेन तेनान्वितः प्रियस्तव समानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥ १८ ॥ एतद्=मुनिभिरुक्तम्, किं वर्तते = किमर्थकमस्ति कोऽभिप्राय इत्यर्थः । अन्वयः—सः, कीचकनिषूदनः, बकहिडिम्बकिर्मीरहा, मदान्धमगधाधिपद्विरद- सन्धिभेदाशनिः, गदापरिघशोभिना, भुजयुगेन, तेन, अन्वितः, तव, प्रियः, मम, अनुजः, अर्जुनगुरुः, अस्तम्, गतः, किल ॥ १८ ॥ मुनिभिरुक्तस्याभिप्रायमेवाह = स कीचकेति । सः = सर्वजनवेद्य, कीचकनिषू- दनः = विराटश्यालस्य हन्ता, बकहिडिम्बकिर्मीरहा = बकासुरहिडिम्बासुरकिर्मीरना- मकराक्षसानां हन्ता, मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः = मदान्धो यो मगधा- धिपः जरासन्धः स द्विरदः हस्ती इव, उपमितसमासः । तस्य सन्धिभेदे जराराक्ष- सीकृतसंश्लेषस्य, भेदने अशनिः वज्र, इव । अनेन विशेषणत्रयेण महापराक्रमिणो वधो जात इत्येको महाखेदे हेतुः । गदापरिघशोभिना = गदा परिघ इव तेन शोभते इति तथा भूतेन, तेन = प्रसिद्धेन, भुजयुगेन=युगः रथाङ्गकाष्ठविशेष इव भुजः तेन, अथवा भुजयुग्मेन 'यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । अन्वितः, खेदे द्वितीयं हेतुमाह --तवेति । तव=स्त्रियाः, प्रियः=स्नेही तं विना त्वमपि जेवितुं न शक्नोषीति भावः । तृतीयमाह—ममेति । मम, अनुजः =कनिष्ठभ्राता, कनिष्ठभ्रा- तर्यतीव स्नेहो भवतीति तदभावेऽहमपि जीवितुं न शक्नोमीति भावः । चतुर्थहेतु- माह-अर्जुनेति । अर्जुनगुरुः=अर्जुनस्य गुरुः श्रेष्ठः । श्रेष्ठस्य विपत्तौ स्वयमपि विपन्ने एवेति भावः । एतेन नकुलसहदेवावपि न जीवितुं शक्नुत इति ध्वनितम् । अस्तम् = विनाशम्, गतः किल इति सम्भावनायाम् 'वार्तासम्भाव्ययो. किल' इत्यमरः । द्रौपदी—( चैतन्य होकर और उठकर ) महाराज यह क्या है ? युधिष्ठिर—कृष्णे ! और क्या है ?— वह कीचक-निहन्ता बक, हिडिम्ब और किर्मीर का घाती; मदोन्मत्त मगधराजरूप वारण [ हाथी ] की हड्डियों की सन्धियों को भग्न करने में वज्र के सदृश, गदा और मुद्गर से सुशोभित दोनों बाहुओं से युक्त; आपका प्रियतम, मेरा कनिष्ठ भ्राता तथा अर्जुन का ज्येष्ठ भ्राता [ भीम ] आज अस्त हो गया ॥ १८ ॥