वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 302, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८३ द्रौपदी—णाह भीमसेण, तुए किल मे केसा संजमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुम् । ता पडिवालिहि मं जाव उवसप्पामि । ( पुनर्मोहमुपगता । ) ( नाथ, भीमसेन, त्वया किल मे केशाः संयमयितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय मां यावदुपसर्पामि । ) युधिष्ठिरः — ( आकाशे । ) अम्ब पृथे, श्रुतोऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासन्धशत्रो, किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथवा मयैव बहूपलब्धम् ! दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे । तया चैतद्वचसा सम्भावयामि भीमस्य मृत्युमित्याकूतम् । अत्र द्वितीयचरणे लुप्तोपमाऽ- लङ्कारः, चतुर्थे उल्लेखः । पृथ्वी छन्दः ॥ १८ ॥ संयमयितव्याः = बन्धनीयाः । शिथिलयितुम् = उपेक्षितुम्, एतेन प्रतिज्ञापूर्ति करिष्यस्येवेति ध्वनितम् । उपसर्पामि = समीपमागच्छामि । समुदाचारः = व्यवहारः, इत्थं न कर्तव्यं तेनेति भावः । अल्पायुषि = अल्पदिव- सजीविनि, वैपरीत्यम् = चिरायुष्ट्वविरुद्धसूचकम्, किं नाम, समालोकितं, जनेनेत्य- न्वयः । उपलब्धम् = प्राप्तं दृष्टमिति यावत् । अन्वयः — करदीकृताखिलनृपाम्, मेदिनीम्, मे, दत्त्वा, यत्, लज्जसे, मया, द्यूते, पणीकृतोऽपि, यच्च, न क्रुध्यसि, हि, प्रीयसे, मम, स्थित्यर्थम्, मत्स्यराजभवने यत्, सूदताम्, प्राप्तः, असि, ( हे ) वत्स !, ते, सहसा, विनश्वरस्य, एतानि, चिह्नानि, दृष्टानि ( मया ) ॥ १९ ॥ किमुपलब्धमित्याह—दत्त्वेति । करदीकृताखिलनृपाम् = करदीकृताः अखिलाः, द्रौपदी—स्वामिन् वृकोदर ! मेरी वेणी आपको बाँधना है । वीर क्षत्रिय के लिए प्रतिज्ञा ढीली करना उचित नहीं, अतः मैं आपके समीप आ रही हूँ आप अपनी प्रतिज्ञा पूर्ण कीजिए ( फिर मूर्च्छित हो जाती है ) युधिष्ठिर — ( आकाश को देखकर ) मातः पृथे ! ( कुन्ति ! ) यह अपने पुत्र का दुःखद वृत्तान्त सुनो ! मुझ असहाय को अकेला विलखते हुए छोड़कर वह न मालूम कहाँ चला गया ! हे तात जरासन्ध के शत्रु ! आपके इतने ही समय के अल्पायु में लोगों ने क्या उलटा विचारा था अथवा मैंने ही बहुत सा वैपरीत्य पाया था । कर न देने वाले समग्र भूमण्डल के राजाओं को करदाता बनाकर पृथ्वी को मुझे