वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 300, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८१ यानपात्र, हा किर्मीरहिडिम्बासुरजरासन्धविजयमल्ल, हा कीचकसुयोध- नानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्, हा कौरववनदावानल, निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सीदता भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता। किं नामापकृतं मया तदधिकं त्वय्यद्य निर्वत्सलं त्यक्त्वाऽनाथमबान्धवं सपदि मां येनासि दूरं गतः ॥ १७॥ द्यूतपणप्रणयिन् = द्यूते अक्षक्रीडायाम् पणः उत्सृष्टधेनुतुल्यः अत एव प्रणयी स्नेहपात्रम् तत्सम्बोधने, द्यूते स्वीयमेव वस्तु पणीक्रियत इति भावः । कौरववनदावा- नल = कौरवा एव वनं तस्मिन्, दावानल वनाग्नितुल्य । अन्वयः—( हे ) वत्स !, दुरोदरव्यसनिनः, निर्लज्जस्य, मे, भक्त्या, समदद्वि- पायुतबलेन, सीदता, त्वया दासता, अङ्गीकृता, अद्य, त्वयि, तदधिकम्, मया, किं नाम, अपकृतम्, येन, निर्वत्सलम्, अबान्धवम्, अनाथम्, माम्, सपदि, त्यक्त्वा, दूरम्, गतः असि ॥ १७ ॥ इदानी कमपराधं मत्वा त्वं गत इत्याह—निर्लज्जस्येति । वत्स=प्रिय, दुरोदर- व्यसनिनः = दुरोदरे द्यूतव्यसने आसक्तः तस्य, 'द्यूते दुरोदरमि'त्यमरः । अत एव निर्लज्जस्य = त्रपारहितस्य मे = मम, भक्त्या = अतिश्रद्धया, समद्विपायुतबलेन = समदाः मत्ता ये द्विपाः हस्तिनः तेषाम्, अयुतं दशसहस्राणि, तस्य यद्वलं तत्तुल्यं बलं यस्य तेन, तथापि सीदता=क्लिश्यता, त्वया, दासता = भृत्यत्वम्, अङ्गीकृता, द्यूते हारितेन दुर्योधनस्य दासत्वमङ्गीकृतम्, अथवा गुप्तावाससमये विराटस्य, अद्य = इद नीम्, अस्मिन्नहनि वा, तदधिकम् = दासताऽधिकम्, त्वयि = भीमे, मया, किं नाम, अपकृतम्, न किमपीत्यर्थः । येन = यत्कारणेन, निर्वत्सलम् = भ्रातृस्नेहरहि- तम्, अबान्धवम् = बन्धुरहितम्, अत एव अनाथम्, माम्, सपदि=शीघ्रम्, त्यक्त्वा दूरम् = विप्रकृष्टम् गतः, असि । अत्र विशेषणस्य साभिप्रायकत्वात्परिकरोऽलङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ किर्मीर, हिडिम्बासुर और जरासन्ध पर विजय प्राप्त करने वाले योद्धा, हाय कीचक और सुयोधन के भ्रातारूपी कमलवन के मत्त मातङ्ग ! हे वत्स ! मतवाले दस हजार हाथियों के बल से सम्पन्न तूने उस समय जुए के व्यसन में रत अतएव निर्लज्ज मेरी दासता को आदर के साथ स्वीकार किया था उससे अधिक मैंने तुम्हारा आज क्या अपकार किया है कि अनाथ बन्धुहीन मुझको छोड़कर शीघ्र ही चले जा रहे हो। आज वह तुम्हारा प्रेम कहाँ है ? ॥ १७ ॥