वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८१ यानपात्र, हा किर्मीरहिडिम्बासुरजरासन्धविजयमल्ल, हा कीचकसुयोध- नानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्, हा कौरववनदावानल, निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सीदता भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता। किं नामापकृतं मया तदधिकं त्वय्यद्य निर्वत्सलं त्यक्त्वाऽनाथमबान्धवं सपदि मां येनासि दूरं गतः ॥ १७॥ द्यूतपणप्रणयिन् = द्यूते अक्षक्रीडायाम् पणः उत्सृष्टधेनुतुल्यः अत एव प्रणयी स्नेहपात्रम् तत्सम्बोधने, द्यूते स्वीयमेव वस्तु पणीक्रियत इति भावः । कौरववनदावा- नल = कौरवा एव वनं तस्मिन्, दावानल वनाग्नितुल्य । अन्वयः—( हे ) वत्स !, दुरोदरव्यसनिनः, निर्लज्जस्य, मे, भक्त्या, समदद्वि- पायुतबलेन, सीदता, त्वया दासता, अङ्गीकृता, अद्य, त्वयि, तदधिकम्, मया, किं नाम, अपकृतम्, येन, निर्वत्सलम्, अबान्धवम्, अनाथम्, माम्, सपदि, त्यक्त्वा, दूरम्, गतः असि ॥ १७ ॥ इदानी कमपराधं मत्वा त्वं गत इत्याह—निर्लज्जस्येति । वत्स=प्रिय, दुरोदर- व्यसनिनः = दुरोदरे द्यूतव्यसने आसक्तः तस्य, 'द्यूते दुरोदरमि'त्यमरः । अत एव निर्लज्जस्य = त्रपारहितस्य मे = मम, भक्त्या = अतिश्रद्धया, समद्विपायुतबलेन = समदाः मत्ता ये द्विपाः हस्तिनः तेषाम्, अयुतं दशसहस्राणि, तस्य यद्वलं तत्तुल्यं बलं यस्य तेन, तथापि सीदता=क्लिश्यता, त्वया, दासता = भृत्यत्वम्, अङ्गीकृता, द्यूते हारितेन दुर्योधनस्य दासत्वमङ्गीकृतम्, अथवा गुप्तावाससमये विराटस्य, अद्य = इद नीम्, अस्मिन्नहनि वा, तदधिकम् = दासताऽधिकम्, त्वयि = भीमे, मया, किं नाम, अपकृतम्, न किमपीत्यर्थः । येन = यत्कारणेन, निर्वत्सलम् = भ्रातृस्नेहरहि- तम्, अबान्धवम् = बन्धुरहितम्, अत एव अनाथम्, माम्, सपदि=शीघ्रम्, त्यक्त्वा दूरम् = विप्रकृष्टम् गतः, असि । अत्र विशेषणस्य साभिप्रायकत्वात्परिकरोऽलङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ किर्मीर, हिडिम्बासुर और जरासन्ध पर विजय प्राप्त करने वाले योद्धा, हाय कीचक और सुयोधन के भ्रातारूपी कमलवन के मत्त मातङ्ग ! हे वत्स ! मतवाले दस हजार हाथियों के बल से सम्पन्न तूने उस समय जुए के व्यसन में रत अतएव निर्लज्ज मेरी दासता को आदर के साथ स्वीकार किया था उससे अधिक मैंने तुम्हारा आज क्या अपकार किया है कि अनाथ बन्धुहीन मुझको छोड़कर शीघ्र ही चले जा रहे हो। आज वह तुम्हारा प्रेम कहाँ है ? ॥ १७ ॥
६. षष्ठ अङ्क: दुर्योधन वध, भीम प्रतिज्ञा-पूर्ति एवं द्रौपदी वेणी-संहार
An exact line-by-line transcription of the text from the image into Devanagari script:
२८२ | वेणीसंहारं नाटकं द्रौपदी - ( संज्ञामुपलभ्योत्थाय च । ) महाराज किं एदं वह्ठइ । (महाराज, किमेतद्वर्तते । ) युधिष्ठिरः—कृष्णे, किमन्यत् ? स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः । गदापरिघशोभिना भुजयुगेन तेनान्वितः प्रियस्तव समानुजोऽर्जुनगुरुर्गतोऽस्तं किल ॥ १८ ॥ एतद्=मुनिभिरुक्तम्, किं वर्तते = किमर्थकमस्ति कोऽभिप्राय इत्यर्थः । अन्वयः—सः, कीचकनिषूदनः, बकहिडिम्बकिर्मीरहा, मदान्धमगधाधिपद्विरद- सन्धिभेदाशनिः, गदापरिघशोभिना, भुजयुगेन, तेन, अन्वितः, तव, प्रियः, मम, अनुजः, अर्जुनगुरुः, अस्तम्, गतः, किल ॥ १८ ॥ मुनिभिरुक्तस्याभिप्रायमेवाह = स कीचकेति । सः = सर्वजनवेद्य, कीचकनिषू- दनः = विराटश्यालस्य हन्ता, बकहिडिम्बकिर्मीरहा = बकासुरहिडिम्बासुरकिर्मीरना- मकराक्षसानां हन्ता, मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः = मदान्धो यो मगधा- धिपः जरासन्धः स द्विरदः हस्ती इव, उपमितसमासः । तस्य सन्धिभेदे जराराक्ष- सीकृतसंश्लेषस्य, भेदने अशनिः वज्र, इव । अनेन विशेषणत्रयेण महापराक्रमिणो वधो जात इत्येको महाखेदे हेतुः । गदापरिघशोभिना = गदा परिघ इव तेन शोभते इति तथा भूतेन, तेन = प्रसिद्धेन, भुजयुगेन=युगः रथाङ्गकाष्ठविशेष इव भुजः तेन, अथवा भुजयुग्मेन 'यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । अन्वितः, खेदे द्वितीयं हेतुमाह --तवेति । तव=स्त्रियाः, प्रियः=स्नेही तं विना त्वमपि जेवितुं न शक्नोषीति भावः । तृतीयमाह—ममेति । मम, अनुजः =कनिष्ठभ्राता, कनिष्ठभ्रा- तर्यतीव स्नेहो भवतीति तदभावेऽहमपि जीवितुं न शक्नोमीति भावः । चतुर्थहेतु- माह-अर्जुनेति । अर्जुनगुरुः=अर्जुनस्य गुरुः श्रेष्ठः । श्रेष्ठस्य विपत्तौ स्वयमपि विपन्ने एवेति भावः । एतेन नकुलसहदेवावपि न जीवितुं शक्नुत इति ध्वनितम् । अस्तम् = विनाशम्, गतः किल इति सम्भावनायाम् 'वार्तासम्भाव्ययो. किल' इत्यमरः । द्रौपदी—( चैतन्य होकर और उठकर ) महाराज यह क्या है ? युधिष्ठिर—कृष्णे ! और क्या है ?— वह कीचक-निहन्ता बक, हिडिम्ब और किर्मीर का घाती; मदोन्मत्त मगधराजरूप वारण [ हाथी ] की हड्डियों की सन्धियों को भग्न करने में वज्र के सदृश, गदा और मुद्गर से सुशोभित दोनों बाहुओं से युक्त; आपका प्रियतम, मेरा कनिष्ठ भ्राता तथा अर्जुन का ज्येष्ठ भ्राता [ भीम ] आज अस्त हो गया ॥ १८ ॥
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८३ द्रौपदी—णाह भीमसेण, तुए किल मे केसा संजमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुम् । ता पडिवालिहि मं जाव उवसप्पामि । ( पुनर्मोहमुपगता । ) ( नाथ, भीमसेन, त्वया किल मे केशाः संयमयितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय मां यावदुपसर्पामि । ) युधिष्ठिरः — ( आकाशे । ) अम्ब पृथे, श्रुतोऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासन्धशत्रो, किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथवा मयैव बहूपलब्धम् ! दत्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे द्यूते यच्च पणीकृतोऽपि हि मया न क्रुध्यसि प्रीयसे । तया चैतद्वचसा सम्भावयामि भीमस्य मृत्युमित्याकूतम् । अत्र द्वितीयचरणे लुप्तोपमाऽ- लङ्कारः, चतुर्थे उल्लेखः । पृथ्वी छन्दः ॥ १८ ॥ संयमयितव्याः = बन्धनीयाः । शिथिलयितुम् = उपेक्षितुम्, एतेन प्रतिज्ञापूर्ति करिष्यस्येवेति ध्वनितम् । उपसर्पामि = समीपमागच्छामि । समुदाचारः = व्यवहारः, इत्थं न कर्तव्यं तेनेति भावः । अल्पायुषि = अल्पदिव- सजीविनि, वैपरीत्यम् = चिरायुष्ट्वविरुद्धसूचकम्, किं नाम, समालोकितं, जनेनेत्य- न्वयः । उपलब्धम् = प्राप्तं दृष्टमिति यावत् । अन्वयः — करदीकृताखिलनृपाम्, मेदिनीम्, मे, दत्त्वा, यत्, लज्जसे, मया, द्यूते, पणीकृतोऽपि, यच्च, न क्रुध्यसि, हि, प्रीयसे, मम, स्थित्यर्थम्, मत्स्यराजभवने यत्, सूदताम्, प्राप्तः, असि, ( हे ) वत्स !, ते, सहसा, विनश्वरस्य, एतानि, चिह्नानि, दृष्टानि ( मया ) ॥ १९ ॥ किमुपलब्धमित्याह—दत्त्वेति । करदीकृताखिलनृपाम् = करदीकृताः अखिलाः, द्रौपदी—स्वामिन् वृकोदर ! मेरी वेणी आपको बाँधना है । वीर क्षत्रिय के लिए प्रतिज्ञा ढीली करना उचित नहीं, अतः मैं आपके समीप आ रही हूँ आप अपनी प्रतिज्ञा पूर्ण कीजिए ( फिर मूर्च्छित हो जाती है ) युधिष्ठिर — ( आकाश को देखकर ) मातः पृथे ! ( कुन्ति ! ) यह अपने पुत्र का दुःखद वृत्तान्त सुनो ! मुझ असहाय को अकेला विलखते हुए छोड़कर वह न मालूम कहाँ चला गया ! हे तात जरासन्ध के शत्रु ! आपके इतने ही समय के अल्पायु में लोगों ने क्या उलटा विचारा था अथवा मैंने ही बहुत सा वैपरीत्य पाया था । कर न देने वाले समग्र भूमण्डल के राजाओं को करदाता बनाकर पृथ्वी को मुझे
२८४ वेणीसंहार नाटकं स्थित्यर्थं मम मत्स्यराजभवने प्राप्तोऽसि यत्सूपतां वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ते ॥ १९ ॥ मुने, किं कथयसि ! ( 'तस्मिन्कौरवभीमयोः' ( ६।१६ ) इत्यादि पठति । ) राक्षसः--एवमेतत् । युधिष्ठिरः --धिगस्मद्भागधेयानि । भगवन्कामपाल, कृष्णाग्रज, सुभ- द्राभ्रातः, ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो नृपा यस्यां ताम्, मेदिनीम् = पृथ्वीम्, मे = मह्यम्, दत्त्वा = प्रदाय, यत्, लज्जसे = त्रपसे प्रौढिस्थ नैर्गुण्यं विनयात्ते लज्जेति भावः । मया द्यूते, पणीकृत = ग्लहीकृतः ( अरल ) इति प्रसिद्धः । न क्रुध्यसि, हि = यतः, प्रीयसे = प्रसन्न आसीः, वर्तमान- -सामीप्ये लट् । मम, स्थित्यर्थम् = प्रच्छन्ननिवासाय, मत्स्यराजभवने = विराटगृहे, यत्, सूदताम् = औदनिकत्वम्, पाचकत्वमित्यर्थः । प्राप्तः, असि 'सूदा औदनिका गुणा' इत्यमरः । असि, हे वत्स ! सहसा = सत्वरं, विनश्वरस्य = नाशं प्राप्नुवतः, अल्पायुषः इत्यर्थः । एतानि = पूर्वकथितानि अतिनम्रतादिसूचकानि, चिह्नानि = लक्षणानि, दृष्टानि, मयेत्यध्याहारः । गुणवतो न चिरायुष्ट्वं भवतीति लोके प्रसिद्धं, तथा चाधिकगुणवता त्वया कथं विरजीविना भवितव्यमिति भावः । शार्दूलविक्रीडितं छन्दः ॥ १९ ॥ किमिति = मम वत्सस्य मरणे बलभद्रो हेतुरिति कथयसीत्यर्थः । एवम् = यदुक्तं भवद्भिस्तदेव, एतत् = मम कथनम् । कृष्णाग्रजेति । कृष्णाग्रजेत्यनेन यदि भवान् कृष्णग्रजस्तदेवं न करणीयं कृष्णस्य सदनुजमित्रत्वादिति सूचितम् । अन्वयः- मनसि, ज्ञातिप्रीतिः, ( त्वया ) न, कृता ( इदम् ) क्षत्रियाणाम्, धर्मः, न, अनुजस्य, मे, अनुजे, ( यत् ) रूढम्, सख्यम्, तदपि, न, गणितम्, अर्पित करने में तुम्हें संकोच होता था । जुए में भी मैंने जो बाजी लगा दी उस पर भी तुम अप्रसन्न न हुए प्रत्युत प्रसन्न हुए । मेरी जीविका के निर्वाह के लिए मत्स्य देश के राजा (विराट) के यहाँ रसोइये का कार्य अपने ऊपर उठाया । भाई ! ये सब लक्षण तुम्हारे एकाएक संसार से चले जाने के थे ॥ १९ ॥ मुने ! क्या कह रहे हो ? (तस्मिन् कौरवभीमयोः, अ० ६ श्लोक १६ को पढते हैं) राक्षस—ठीक यही बात है । युधिष्ठिर—हम लोगों के भाग्य को धिक्कार है । भगवन् बलराम ! श्रीकृष्ण-ज्येष्ठ- भ्रातः !! तथा सुभद्राभ्रातः !!!
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८५ रूढं सख्यं तदपि गणितं नानुजस्यानुजे मे । तुल्यः कामं भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम् ॥ २० ॥ (द्रौपदीमुपगम्य ।) अयि पाञ्चालि, - उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्च्छया किं मामेवमतिसंधत्से । भवतः, शिष्ययोः, स्नेहबन्धः, तुल्यः, कामम्, भवतु मन्दभाग्ये, मयि, त्वम्, यत्, विमुखः, असि, अयम्, कः, पन्था, ( अस्ति ) ॥ २० ॥ तत्पक्षपातकरणाभावेऽपि कथं पक्षपातः कृत इत्याह—ज्ञातिप्रीतिरिति । मन- सि=अन्तःकरणे, ज्ञातिप्रीतिः = बान्धवस्नेहः, भीमस्य ते पितृष्वस्रेयतया ज्ञातित्व- मित्यभिप्रायः । त्वया, न कृता = आचरिता, (सङ्केतकरणम् ), क्षत्रियाणाम्=राज- न्यानाम्, धर्मः = युक्ताचारः, न, ( तव ) अनुजस्य = कनिष्ठभ्रातुः, मे=मम, अनुजे= अवरजे, ( यत् ) रूढम्=प्रसिद्धम्, सख्यम्=सौहार्दम्, तदपि, न गणितम्, अनुज- सुहृदि, अणुरपि दया त्वया कार्येति भावः । भवतः = तव, शिष्ययोः=छात्रयोः, भीमदुर्योधनयोरित्यर्थः । स्नेहबन्धः = प्रीतिदृढता, तुल्यः = समः, कामम् = यथेच्छम्, भवतु = तिष्ठतु, तथा च पक्षपातोऽयुक्तं इति भावः । अपक्षपातकारणेषु सत्स्वपि पक्षपातकरणे स्वयमेव कारणमाह—मन्दभाग्य इति । मन्दभाग्ये, मयि = युधिष्ठिरे, यत्, त्वम्, विमुखः = प्रतिकूलः, असि, अयम्, कः, पन्थाः = मार्गः मम मन्दभाग्य- त्वहेतुनाऽनुचितमार्ग आसादितो भवतेति भावः । अत्र विमुखनिरूपितहेतोः पदार्थत्वेन काव्यलिङ्गमलङ्कारः । मन्दाक्रान्ता छन्दः ॥ २० ॥ उपगम्य = प्राप्य, समीपं गत्वेत्यर्थः । पाञ्चालि = द्रौपदि । समानदुःखौ =समानं दुःखं ययोः तौ, तुल्यदुःखभागिनावित्यर्थः । न तु त्वमधिकदुःखभागिनी भव, तदे- वाह— मूर्च्छयेति । माम् = युधिष्ठिरम्, अतिसन्धत्से = सन्धानम् सम्मेलनम् तस्या- तिक्रमणम् अतिसन्धानम् असम्मेलनम् भेद इत्यर्थः । अतुल्यत्वमिति यावत् । तत् सम्बन्धियों के प्रति सद्व्यवहार पर तो आपने ध्यान ही नहीं दिया, क्षत्रियधर्म का भी पालन नहीं किया और अर्जुन के साथ जो आपके कनिष्ठ भ्राता की घनिष्ठ मित्रता है उसको तृण बराबर भी आपने नहीं समझा । आपका दोनों शिष्यों में समान ही प्रेम होना चाहिये था । यह कौन सा मार्ग है जो मुझ अभागे से इस प्रकार आप रुष्ट हो गये हैं ? ॥ २० ॥ (द्रौपदी के समीप जाकर) अयि कृष्णे । उठिये, हम दोनों एक ही प्रकार के दुःख के भागी बनें । मूर्च्छित होकर मुझसे अधिक दुःखी क्यों होती हैं ?
२८६ वेणीसंहार नाटकं
द्रौपदी—(लब्धसंज्ञा।) वन्धेदु णाहो दुज्जोहणरुधिलाहेण हत्थेण दुस्सासणविमुक्कं मे केसहत्थम्। हञ्जे वुद्धिमदिए, तद पच्चक्ख एव्व णा- हेण पणिण्णादम्। (कञ्चुकिनमुपेत्य।) अज्ज, किं संदिट्टं दाव मे देवेण देव- कीणन्दणेण पुणो वि केसबन्धन आरम्भोअदुत्ति। ता उवणंहि मे पुप्फ- दामाइं। विरएहि दाव कवरीम्। करेहि भवदो णाराअणस्स वअणम्। ण क्खु सो अलीअं संदिसदि। अहवा किं मएसंतत्ताए भणिदम्। अचि- रगदं अज्जउत्तं अणुगमिस्सम्। (युधिष्ठिरमुपगम्य।) महाराज, आदीवअ चिदाम्। तुम वि खत्तधम्मअणुबन्धन्तो एव्व णाहस्स जीविदहरस्स अहि- मुहो होहि। अहवा जं दे रोअद। (बध्नातु नाथ! दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनविमुक्तं मे केशहस्तम्। हञ्जे बुद्धिमत्तिके, तव प्रत्यक्षमेव नाथेन प्रतिज्ञातम्। आर्य, किं सदृशं तावन्मे देवेन देवकीनन्दनेन पुनरपि केशबन्धनमारभ्यतामिति। तदुपनेय मे पुष्पदानि। विरचय तावत्कवरीम्। कुरुभगवतो नारायणस्य वचनम्। करोषीति अतिसन्धत्से, अल्पदुःखं करोषीति यावत्। तव भूयो भूयो मूर्च्छा भवति, मम तु न भवतीत्यल्पदुःखभागहमिति गूढाभिप्रायः। दुःशासनविमुक्तम् = दुःशासनेन विमुक्तम्, विमोचितम्, अन्तर्भाविनी ण्यथः। अथवा दुःशासनहेतुना विमुक्तम् अत्र पक्षे समासे क्लेशः, हेतुतृतीयान्तेन प्रतिपदो- क्तसमासविधानात्। केशहस्तम् = केशसमूहम्, नाथः = भीमः, दुर्योधनरुधिरार्द्रेण = दुर्योधनशोणितक्लिन्नेन, हस्तेन = करेण, बध्नातु। वीरप्रतिज्ञाया मिथ्या भवितुम- नार्हत्वादिति भावः। ससाक्षिणी प्रतिज्ञाऽस्ति न कपोलकल्पितेत्याह—तवेति। आर्य = कञ्चुकिन्! सन्दिट्ठम् = वाचिकं प्रेषितम्, सन्देशमेवाह = केशेति। तद् = तस्मात्, उपनय = आनय, पुष्पदानि = पुष्पगुच्छान्, कवरीम् = केशवेशम्। द्रौपदी—(होश में आकर) नाथ दुर्योधन के रक्त से लिपे हुए हाथ से मेरे केशपाश को, जिसे दुःशासन ने खोल दिया है, सँवारिये। अरी बुद्धिमत्तिके! तुम्हारे सामने ही स्वामी ने प्रतिज्ञा की है। आर्य! देवकी के पुत्र भगवान् वासुदेव ने क्या सन्देश दिया था— 'फिर भी केश सँवारना प्रारम्भ कर दीजिए?' अतः मेरे लिए कुसुमों की माला ला दे। मेरी वेणी सुधार दे। भगवान् वासुदेव के वचन की पूर्ति करो। वे असत्य सन्देश कदापि न देंगे। अथवा शोक से विदग्ध मैंने क्या कहा? शीघ्र ही स्वर्ग सिधारे हुए आर्यपुत्र के यहाँ मैं जाऊँगी। (युधिष्ठिर के समीप जाकर) महाराज, चिता जला दीजिए। आप भी क्षत्रियधर्म को ध्यान में रखते हुए स्वामी के प्राणहरण करने वाले के सम्मुख डटिए। अथवा जो आपको अच्छा लगे वह कीजिए।
यहाँ पृष्ठ का संपूर्ण पाठ पंक्तिबद्ध रूप में प्रस्तुत है:
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८७ न खलु सोऽलीकं संदिशति । अथवा किं मया संतप्तया भणितम्-अचिरगतमार्यपुत्र- मनुगमिष्यामि । महाराज, आदीपय चिताम् । त्वमपि क्षत्रधर्ममनुबध्नन्नेव नाथस्य जीवितहरस्याभिमुखो भव । अथवा यत्ते रोचते । ) युधिष्ठिरः-युक्तमाह पाञ्चाली । कञ्चुकिन्, क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्यं धनुरुपनय । अलमथवा धनुषा । तस्यैव देहरुधिरोक्षितपाटलाङ्गीमादाय संप्रति गदामपविद्धचापे । केशानां संनिवेशविशेषम् । अलीकम् = मिथ्या । अतिसन्तप्तया = अतिदुःखितया, किम् = अनय पुष्पदामानीत्यादि, यदुक्तं मया कबरीविरचनमिति तद्दुःखिततयोक्तं न तु तत्तथ्यमिति भावः । अचिरगतम् = सपदि मृतम्, अनुगमिष्यामि = अनुव्रजनं करिष्यामि अहमपि म्रिय इत्यर्थः । तदेवाह-आदीपयेति । आदीपय = प्रज्वालय, क्षत्रियधर्मम् = युद्धम्, युद्धे प्राणत्यागं वा, जीवितहरस्य = प्राणहरस्य । ते = तुभ्यम्, रोचते = इष्टो भवति । तपस्विनी = पतिव्रता, चितासंविभागेन = चितासेवनद्वारा, सह्यवेदना, नाथ- मरणजन्यदुःखसहनयोग्या, क्रियताम् त्वयेति शेषः । सज्यम् = गुणसहितम्, अलम् = व्यर्थम्, धनुषा = चापेन । अन्वयः - तस्य, एव, देहरुधिरोक्षितपाटलाङ्गीम्, गदाम्, आदाय, अपविद्धचापे, संयति, भ्रातृप्रियेण, अर्जुनेन अद्य, यत् कृतम्, मम, अपि, तत्, एव, ध्येयः, हि, जयेन कृतम् ॥ २१ ॥ गदायुद्धे धनुर्ग्रहणमयुक्तमिति गदामादायैव योद्धव्यमित्याह-तस्यैवेति । तस्य भीमस्य, एव, तस्यतत्पदार्थस्य समस्तघटकदेहार्थे स्वस्वामिभावसम्बन्धे- नान्त्वयः, अभेदेनान्वयस्थल एवैकदेशान्वयस्यासाधुत्वात् । अत एव, शरैःशातितपत्र इत्यपि साधु, एतदेव स्पष्टमभिहितं व्युत्पत्तिवादे गदाधरभट्टाचार्येणेति । देहरुधिरो- क्षितपाटलाङ्गीम् = देहस्य रुधिरेण पाटलानि ईषद्रक्तानि अङ्गानि अवयवा यस्या- स्ताम्, गदाम्, आदाय = गृहीत्वा, अपविद्धचापे = अपविद्धः त्यक्तः चापः शरासनं यस्मिन् तस्मिन्, चापरहित इत्यर्थः । अपविद्धचाप इति, अपविद्धचार्मिति वा पाठं धृत्वा अवतरन्निन्त्याद्यत्याहारेण यस्मिन् कर्मणीति व्याख्याय यथा स्यात्ततेति युधिष्ठिर - पाञ्चालकुमारी ने ठीक कहा । कञ्चुकिन् ! चितानिर्माण करके इस तपस्विनी को दुःख सहन करने योग्य बनाइये । प्रत्यञ्चा के साथ मेरा भी धनुष लाइए । अथवा धनुष की क्या आवश्यकता ? शरीर के रक्त से लिप्त अतएव लोहित [ रक्त ] वर्णा उसकी गदा लेकर धनुष को
भ्रातृप्रियेण कृतमद्य यदर्जुनेन. श्रेयो ममापि हि तदेव कृतं जयेन ॥ २१ ॥ राक्षसः - ( सविषादमात्मगतम् ।) कथं गच्छति भवत्वेवं तावत् ( प्रका- शम् ) राजन्, रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् । कञ्चुकी - धिङ्मुने, राक्षससदृशं हृदयं भवतः । राक्षसः - ( सभयं स्वगतम् ।) किं ज्ञातोऽहमनेन । ( प्रकाशम् । ) भो कञ्चुकिन्, तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च क्रियाविशेषणत्वप्रदर्शनेन वा व्याख्याने न युक्तं पूर्वत्र, अध्याहारेऽप्रयोजनत्वात् उत्त- रत्र स्ववचोव्याघातात् । यद्यप्येकदेशान्वय गौरबमभ्युपेत्य कर्मणीत्यस्य क्रियाया- मित्यर्थकरणेन समन्वितुं शक्यते तथा कृधात्वर्थक्रियायामन्वस्य नाटककृतामनभि- प्रेतत्वात् । मदीयव्याख्याने तु गदायुद्धं धनुर्युद्धस्यायुक्तत्वेन अलमथवा धनुरुपेत्यतीव सङ्गतं भवतीति । संयति = संग्रामे, भ्रातृप्रियेण = भ्राता प्रियो यस्य तेन, अर्जुनेन, यत् = कार्यम्, कृतम् = विहितम्, मम = युधिष्ठिरस्य, अपि, तत् = धनुस्त्यागेन गदया युद्धम् अथवा तदनन्तरं मरणम्, श्रेयः = श्रेष्ठं, हि = यत , जयेन = विजयेन, कृतं = व्यर्थं, भ्रातरं विना जयस्यापि निष्फलत्वादिति भावः । अत्र करणंप्रति हेतोर्भ्रातृ- प्रियेणेति पदगतत्वेन काव्यलिङ्गमलङ्कारः । वसन्ततिलका छन्दः ॥ २१ ॥ सविषादमिति - विषादं प्रति हेतुर्यद्ययं तत्र गच्छेत्तदा भीमस्य दर्शनसम्भ्रा- याया ज्ञातत्वादस्य दुर्योधनप्रियं मरणं न स्यादिति । गच्छतीति, समरस्थानमिति शेषः । पुनश्छलनार्थमाह - राजन्निति । रिपुजयविमुखं = शत्रुजयपराङ्मुखं, चेतः = मनः, यत्र तत्रेति-कुत्रापि स्थाने इत्यर्थः, युद्धस्थाने गमनं वृथेति भावः । राक्षससदृशं = क्रविजनेनातुल्यमित्यर्थः । व्याहृतं = उक्तं । सभयं = सभीति, प्रवृत्तं = प्रारब्धं । ययोः = अर्जुनदुर्योधनयोः, भुजसारं = बाहुबलं, गदायुद्धेऽर्जुनो दुर्योधनं न जेतुं शक्नोतीति भावः । अपरं = अर्जुनस्यापि छोड़कर भ्रातृस्नेही अर्जुन ने आज जो कुछ किया है वही कार्य मेरे लिए भी श्रेयस्कर है। विजय से कोई प्रयोजन नहीं ॥ २१ ॥ राक्षस - राजन् ! शत्रु पर विजय प्राप्त करने के विरुद्ध यदि आपका विचार हो तो जहाँ कहीं भी प्राण छोड़ दीजिए । वहाँ [ रणभूमि में ] जाना व्यर्थ है । कंचुकी - मुनि जी ! आपको धिक्कार है, आपका हृदय राक्षस के समान मालूम पड़ता है । राक्षस - ( भयभीत होता हुआ मन ही मन ) क्या इसने मुझे जान- लिया ? ( प्रकट रूप से ) ऐ कञ्चुकिन् ! उन दोनों अर्जुन और सुयोधन में गदायुद्ध प्रारम्भ हो गया । मैं
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयापेतम् २८९ तयोर्गदायां भुजसारम्। दुःखितस्य पुनरस्य राजर्षेरपरमनिष्ठश्रवणं परिह- रन्नेवं ब्रवीमि। युधिष्ठिरः -(बाष्पं विसृजन्।) साधु महर्षे साधु। सुस्निग्धमभि- हितम्। कञ्चुकी-महाराज, किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृ- तेनेव त्यज्यते क्षात्रधर्मः। युधिष्ठिरः -आर्य जयंधर, शक्ष्यामि नो परिघपीवरवाहुदण्डौ वित्तेशशक्रवरुणाधिकवीर्यसारौ। भीमार्जुनौ क्षितितले प्रविचेष्टमानौ द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थम् ॥ मृत्युरभूदित्याकारकम्, परिहरन् = पृथक्कुर्वन्, एवम् = वृथा तत्र गमनमिति, ब्रवी- मि = कथयामि । सुस्निग्धम्, स्नेहयुक्तम्, अभिहितम् = उक्तम् । शोकान्धतया = शोकेन विवेकशून्यता, देवकल्पेन = ईषदूनो देव इति देवकल्पः, 'ईषदसमाप्तौ वि' ति कल्पप्रत्ययः । तेन, देवतुल्येनेत्यर्थः । देवेन = राज्ञा, प्राकृतेन = साधारणमनुष्येण क्षात्रधर्म = युद्धम्, साहसो वा । अन्वयः -परिघपीवरवाहुदण्डौ, वित्तेशशक्रवरुणाधिकवीर्यसारौ, (तथापि) क्षितितले, प्रविचेष्टमानौ, भीमार्जुनौ, तयोः, निधनेन, कृतार्थम्, रिपुम्, च द्रष्टुम्, नो शक्ष्यामि ॥ २२ ॥ अन्यस्मात् कारणात्तत्र न गच्छामि भयादिति तु नेत्याह-शक्ष्यामीति । परिघ- पीवरबाहुदण्डौ = परिघवत् पीवरौ मांसलौ बाहुदण्डौ दण्डाकारबाहू ययोः तौ, वित्तेशशक्रवरुणाधिकवीर्यसारौ = वित्तेशः कुबेरः शक्रः इन्द्रः वरुणः अपां पतिः एतेषा- मितरेतरयोगो द्वन्द्वः 'सारो बले स्थिरांशे च' इत्यमरः । तथापि, क्षितितले = भूतले प्रविचेष्टमानौ = चेष्टाशून्यौ, मृतावित्यर्थः । भीमार्जुनौ, पुनः, द्रष्टुम् = विलोकितुम्, न, शक्ष्यामि = समर्थो भविष्यामि, च पुनः तयोः = भीमार्जुनयोः, निधनेन = गदायुद्ध में उन दोनों के बाहुबल को जानता हूँ और व्यथित हृदय इस राजा को एक दूसरे अनिष्ट सन्देश के सुनने से दूर रखने के लिए इस प्रकार कह रहा हूँ । युधिष्ठिर -(आँसू गिराता हुआ) साधु तपस्विन् ! साधु ! आपने कल्याण की बात कही । कंचुकी - महाराज ! आप देवताओं के सदृश होते हुए भी शोकान्त होकर साधारण व्यक्ति की तरह क्यों क्षत्रियधर्म का परित्याग कर रहे हैं ? युधिष्ठिर - आर्य जयन्धर ! मुद्गराकार स्थूलभुजदण्डशाली तथा धनेश [कुबेर] और इन्द्र के नगर में अपने १९ वे०
२१० वेणीसंहारं नाटकं अयि पाञ्चालतनये, मद्दुरनयप्राप्तशोच्यदशे ! यथा संदीष्यते पावक- स्तथा सहितावेव बन्धुजनं संभावयावः । द्रौपदी - अज्ज, करेहि दारुसंचयम् । पज्जलीअदु चिदा । तुवरदि मे हिअअं णाधं पेक्खिदुम् ( सर्वतोऽवलोक्य । ) कहं ण को वि णाधेण विणा महाराअस्स वअणं करेदि । हा णाह भीमसेण, तं एव एदं राउलं तुए रहिदं पडिअणो हि संपदं परिहरदि । ( आर्य, कुरु दारुसंचयम् । प्रज्वाल्यतां चिता । त्वरते मे हृदयं नाथं प्रेक्षितुम् । कथं न कोऽपि नाथेन विना महाराजस्य वचनं करोति । हा नाथ भीमसेन, तदेवेदं राजकुलं त्वया विरहितं परिजनोऽपि संप्रतं परिहरति । ) राक्षसः - सदृशमिदं भरतकुलवधूनां यत्पत्युरनुमरणम् । मरणेन कृतार्थम्,, शक्ष्यामीत्यन्वयः । अतस्तत्र गमनं न श्रेष्ठमिति भावः । अत्र प्रथमचरणे समासगतलुप्तोपमाऽलङ्कारः वसन्ततिलका छन्दः ॥ २२ ॥ मद्दुरनयप्राप्तशोच्यदशे = मद्दुरनयेन मदीयदुराचारेण द्यूतक्रीडनरूपेण प्राप्ता शोच्या दशा स्थिति यथा तत्सम्बोधने । दारुसञ्चयम् = काष्ठानामेकत्रीकरणम्, नाथम् = भीमम्, प्रेक्षितुम् = द्रष्टुम् मे हृदयम्, त्वरते = शीघ्रतां करोति, नाथेन = भीमेन, वचनं करोतीति = चितां न प्रज्वालयतीत्यर्थः परिजनः = सेवकः, परिहरति = त्यजति । किं सदृशमित्याह - यदि । पत्युः = स्वामिनः अनुमरणम् = स्वामिमरणानन्तरं तेनैव सह स्वशरीरभस्मकरणम् । पराक्रम को व्यक्त करने वाले भीम और धनंजय [ अर्जुन ] को भूमि पर लुढ़के पड़े और उन दोनों के संहार से सफल मनोरथ शत्रु को देखने के लिए मै समर्थ [ कदापि ] नहीं हूँ ॥ अयि द्रुपदपुत्रि ! मेरी दुर्नीति के कारण शोचनीयावस्था को प्राप्त होने वाली ! ज्यों ही अग्नि प्रज्वलित की जाय त्यों ही हम दोनों एक साथ ही अपने बन्धुओं के समीप पहुँच कर मिलें । द्रौपदी - आर्य ! काष्ठ ( लकड़ी ) एकत्रित कर डालिए । चिता जला दीजिये । प्रियतम को देखने के लिये मेरा मन अत्यन्त उत्कण्ठित हो उठा है ( चारों ओर देखकर ) स्वामी (भीम) की अनुपस्थिति में महाराज की आज्ञा का पालन कोई क्यों नहीं करता ? हाय नाथ भीमसेन ! यह वही राजवंश है [ परन्तु ] तुम्हारे बिना अब दास लोग भी उपेक्षा करते हैं [ आज्ञा नहीं मानते ] । राक्षस - पतिदेव के पश्चात् मर जाना रमणियों के अनुकूल ही है [ अर्थात् जैसा
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६१ युधिष्ठिरः—महर्षे, न कश्चिच्छृणोति तावदावययोर्वचनम् । तदिन्धन- प्रदानेन प्रसादः क्रियताम् । राक्षसः—मुनिजनविरुद्धमिदम् । ( स्वगतम् ) पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वह्निम् । ( प्रकाशम् । ) राजन्, न शक्नुमो वयमिहैव स्थातुम् । ( इति निष्क्रान्तः । ) युधिष्ठिरः—कृष्णे, न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दाहसंचयं कृत्वा चितामादीपयामि । द्रौपदी -- तुवरदु तुवरदु महाराओ । ( त्वरतां त्वरतां महाराजः । ) ( नेपथ्ये-कलकलः । ) द्रौपदी— ( सभयमाकर्ण्य । ) महाराज, कस्स वि एसो तेजोवलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अवरं वि अप्पिअं सुणिदुं अत्थि णिव्व आवयोः — द्रोपदीयुधिष्ठिरयोः, इन्धनप्रदानेन=काष्ठदानेन, प्रसादः = प्रसन्नता । इदम् = चितानिर्माणम्, मनोरथः = अभिलषितपाण्डवविनाशः अनुपलेखित = एतैरदृष्टः, इन्धनम् = काष्ठम्, समिन्धयामि = प्रज्वालयामि, स्थातुम् = अत्र स्थितिं कर्तुम् । निष्क्रान्तः = निर्गतः रङ्गमूमेरिति शेषः । दाहसञ्चयम् = काष्ठसञ्चयम् । कलकलः = आकस्मिको महान् शब्दः । विशुद्ध भरतवंश है वैसी ही उस वंश की गृहदेवियाँ उनके वियोग को सहन न करके प्राण छोड़ देती हैं । ] युधिष्ठिर—महात्मन् ! अब हम दोनों की बात भी कोई नहीं सुनता है । अतः (चितारोपणार्थ) काष्ठ प्रदान कर अनुगृहीत कीजिए । राक्षस—तपस्वियों के विपरीत यह कार्य है । ( मन में ) मेरा मनोरथ पूर्ण हो गया । छिप कर चिता में आग लगा दूँगा । ( प्रकट रूप से ) अब मैं यहाँ ठहरने में असमर्थ हूँ ( चला जाता है ) । युधिष्ठिर—द्रौपदी ! मेरी बात कोई नहीं सुनता । अच्छा, न सुने । मैं स्वयं काष्ठ एकत्रित करके चिता में आग लगा लूँगा । द्रौपदी—शीघ्रता कीजिए, शीघ्रता कीजिए महाराज ! ( नेपथ्य में कलकल ध्वनि होती है । ) द्रौपदी— ( भयपूर्वक सुनकर ) महाराज ! किसी का, जिसे अपने बल और पराक्रम का अभिमान है, प्रचण्ड शङ्ख शब्द सुनाई पड़ रहा है । क्या आप और कोई दुःखद संवाद सुनने का विचार कर रहे हैं जिसके लिए विलम्ब कर रहे हैं ।
२९२ वेणीसंहारं नाटकं
न्धो तदो विलम्बी अदु । ( महाराज, कस्याप्येष तेजोवलदर्पितस्य विषमः शङ्ख-
निर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यताम् । )
युधिष्ठिर—न खलु विलम्ब्यते । उत्तिष्ठ ।
( इति सर्वे परिक्रामन्ति । )
युधिष्ठिरः—अयि, पाञ्चालि, अम्बायाः सपत्नीजनस्य च किञ्चित्संदिश्य
निवर्तय परिजनम् ।
द्रौपदी—महाराअ, अम्बाए एवं संदिसिस्सम्—'जो सो वअहिडिम्ब-
किम्मीरजडासुरजरासंघविजअमल्लो वि दे मज्झमपुत्तो मम हदासाए
पक्खवादेण परलोअं गदो त्ति' । ( महाराज अम्बायै एवं संदेश्यामि—'यः
वकहिडिम्बकिर्मीरजटासुरजरासन्धविजयमल्लोऽपि ते मध्यमपुत्रो मम हताशायाः
पक्षपातेन परलोकं गता' इति । )
युधिष्ठिर –भद्रे बुद्धिमत्तिके, उच्चतामस्मद्वचनादम्बा ।
------------------------------------------------------------
तेजोबलदर्पितस्य = तेजश्च बलञ्चेति तेजोबले ताभ्यां दर्पितस्य गर्वितस्य;
विषमः = तारः, अथवा, भयानकः, शङ्खनिर्घोषः = शङ्खशब्दः, अप्रियम्-अनिष्टम्,
निर्बन्धः = आग्रहः, ततः = यतः श्रोतुमाग्रहोऽस्ति तस्मात्, विलम्ब्यते = समयो
याप्यते, त्वया, इति शेषः ।
· अम्बायाः = मातुः कुन्त्या, सपत्नीजनस्य = सुभद्रादेः, सन्दिश्य = वाचिकं प्रेष्य,
निवर्त्तय = स्वगृहाभिमुखं परावर्त्तय, परिजनम् = सेवकवर्गम् ।
वकहिडिम्बेति - एतेषां विजयेन मल्लः बलीयान् अतिबलवानित्यर्थः । 'मल्लः
पात्रे कपोले च मत्स्यभेदे बलीयसि' इति मेदिनी । मध्यमपुत्रः = भीमः, हताशायाः=
हततृष्णायाः 'आशा ककुभि तृष्णायाम्' इति हैमः । पक्षपातेन = मत्तिरस्कारनिरा-
करणतत्परतया ।
उच्चताम् = कथनीया,
------------------------------------------------------------
युधिष्ठिर—विलम्ब तो नहीं कर रहा हूँ, उठिये ।
( सब लोग चल रहे हैं )
युधिष्ठिर—अयि द्रौपदी ! माता कुन्ती को तथा अपनी सुभद्रा प्रभृति सौतों को कुछ
सन्देश देकर दास-दासियों को लौटा दीजिए !
द्रौपदी—महाराज ! माताजी के लिए इस प्रकार सन्देश दूँगी—जो 'वक' हिडिम्ब,
किर्मीर, जटासुर और जरासन्ध पर विजयी मल्ल आपके मँझले पुत्र भीमसेन थे, वे मुझ
हतभागिनी के पक्षपात के कारण परलोक को सिधार गये ।'
युधिष्ठिर—कल्याणि बुद्धिमत्तिके ! मेरी ओर से माताजी से कहना कि उस लाल
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९३ येनासि तत्र जतुवेश्मनि दीप्यमाने उत्तारिता सह सुतैर्भुजयोर्बलेन । तस्य प्रियस्य बलिनस्तनयस्य पाप- माख्यामि तेऽम्ब कथयेत्कथमीदृगन्यः ॥ २३ ॥ आर्य जयन्धर, त्वया सहदेवसकाशं गन्तव्यम् । वक्तव्यश्च तत्र- भवान्माद्रेयः कनीयान्सकलकुरुकुलकमलाकरवडवानलो युधिष्ठिरः परलो- कमभिप्रस्थितः प्रियानुजमप्रतिकूलं सततमाशंसनीयमसंमूढव्यसनेऽप्यु- अन्वयः—तत्र, जतुवेश्मनि, दीप्यमाने, येन, भुजयोः, बलेन ( त्वम् ) सुतैः सह, उत्तारिता, प्रियस्य, तस्य, बलिनः, तनयस्य, पापम्, आख्यामि, अम्ब ! अन्यः, कथम्, ईदृक्, कथयेत् ॥ २३ ॥ अस्य गौणक्रमहि -- येनासीति । तत्र=वारणावते, जतुवेश्मनि=लाक्षागृहे, दीप्य- माने=अग्निना प्रज्वालमाने, सति, येन - वृकोदरेण, भुजयोः=बाह्वोः, बलेन, = ( त्वम् ) सुतैः = अन्यैरपि पुत्रैः, सह = साकम्, उत्तारिता = बहिरानीता, प्रियस्य= स्निग्धस्य, तस्य = भीमस्य, बलिनः = बलवतः, तनयस्य = सुतस्य, पापम् = छलेन मारणम्, तेन = तुभ्यम्, आख्यामि = कथयामि । कथमेतादृशक्रूरवचनं त्वमेव कथय- सीत्याह-अम्बेति ( हे ) । अम्ब ! अन्यः = मदतिरिक्तः, कथम्, ईदृक् = अश्रव्यं पापम् कथयेत्, द्यूतद्वाराऽहमेवात्र हेतुरतोऽहमेव स्वापराधक्षमार्थं कथयामि अन्यस्तु न कथयिष्यति 'कथानि खलु पापानममश्रेयसे यतः' इति वचनादित्याशयः । अत्र सामान्येन विशेषस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः । वसन्ततिलका छन्दः । जयन्धरेति-एतन्नामकयुधिष्ठिरकञ्चुकी सहदेवसकाशम् = कनिष्ठमाद्रीपुत्र- निर्मित गृह के जल देने पर जिसने भुजाओं के बल से आपको पुत्रों के साथ उतारा था उस बलशाली आपके प्यारे पुत्र के विषय में अनिष्ट संवाद सुना रहा हूँ । माता जी ! मेरे अतिरिक्त दूसरा कौन व्यक्ति इस प्रकार का साहस कर सकता है ? ॥ २३ ॥ आर्य जयन्धर ! तुम भी सहदेव के समीप जाओ और श्रीमान् कनिष्ठ, माद्रीकुमार सहदेव से कहना-अखिल कुरुवंशरूपी कमलवन के लिये दावाग्नि, 'युधिष्ठिर परलोक के लिए प्रस्थान करते समय विपत्ति और सम्पत्ति काल में जिसकी बुद्धि विपरीत नहीं होती, सर्वदा जिसकी आशा की जा सकती है, और जो सर्वदा अनुकूल अर्थात् आज्ञापालन में तत्पर रहता है इस प्रकार के कनिष्ठ और प्रिय भ्राता का निरन्तर आलिङ्गन करके और शिर सूँघ कर यह प्रार्थना करते हैं— ‘आप मुझसे अतीव अल्पावस्था के हैं किन्तु शास्त्राध्ययन में मेरे समान हैं स्वाभाविक दया
दये च धृतिमन्त भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेढं प्रार्थयते— मम हि वयसा दूरेण त्वं श्रुतेन समो भवान् कृतसहजया बुद्ध्या ज्येष्ठो मनीषितया गुरुः। शिरसि मुकलो पाणी कृत्वा भवन्तमतोऽर्थये मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ २४ ॥ सविधे । तत्रभवान् = प्रशंसनीयः, माद्रेयः = माद्रीतनयः । कनीयान् = कनिष्ठः । किं वक्तव्य इत्याह - सकलेति । सकलं यत्कुरुकुलम्, भरतवंशः तदेव कमलाकरः पद्मखनिः तत्र वडवानलः वाडवाग्निः, परलोकम् = स्वर्गम्, अभिप्रस्थितः = गन्तु- मारब्धः आदिकर्मणि क्तः अनुकूलम्, ममेत्यादि । अथवा अनुकूलमित्यस्य आशंसनीय- मित्यनेनान्वयः । आशीर्वचनयाग्यम्, व्यसने = विपत्तौ, अभ्युदये च असम्मूहम् = अनुद्विग्नम्, समानमित्यर्थः । धृतिमन्तम् = सधैर्यम् भवन्तम् = सहदेवम्, चिरम् = बहुकालम्, आलिङ्ग्य = परिष्वज्य, आघ्राय = घ्रात्वा, लालनं कृत्वेत्यर्थः । -- अन्वयः -- मम, वयसा, दूरेण ( उपलक्षितः ), त्वम्, श्रुतेन, भवान्, समः, कृतसहजया, बुद्ध्या, ज्येष्ठः, मनीषितया, गुरुः, अतः, शिरसि, पाणी, मुकुलौ कृत्वा, भवन्तम्, अर्थये, मयि स्नेहः, विरलताम्, नेयः, पितुः, वारिदः, भव, (त्वम्) ॥२४॥ किं प्रार्थयत इत्याह - ममेति । हि = यतः, मम = युधिष्ठिरस्य, वयसा = अव- स्थया, दूरेण, (उपलक्षितः) त्वम्, अल्प इति पाठे दूरेणाल्पः = अतिकनिष्ठः, श्रुतेन = श्रवणेन, शास्त्रस्येत्यादिः, शास्त्रश्रवणेनेत्यर्थः । भावे क्तप्रत्ययः । भवान्, समः = सदृशः, कृतसहजया = सहजननं सहजः 'अन्येभ्योपि दृश्यते' इति वाहुलका- द्भावे डप्रत्ययः । कृतः प्राप्तः सहजः सहजननं यया बुद्ध्या तया, सहोत्पन्नयेत्यर्थः । स्वाभाविकयेति यावत् ।- बुद्ध्या = ज्ञानेन, ज्येष्ठः = अतिप्रवस्यः प्रशंसनीय इत्यर्थः । 'ज्य च' इति सूत्रेण प्रशस्यस्येष्ठन्प्रत्यये परे ज्यादेशः । मनीषितया = विद्वत्तया, शास्त्राध्ययनजन्यज्ञानेनेत्यर्थः । गुरुः = श्रेष्ठः, अतः, शिरसि = मस्तके, पाणी = हस्तौ, मुकुलौ = सम्पुटितौ, अथवा कुङ्म्लसदृशौ, कृत्वा = विधाय,, भवन्तम् अर्थये = अभ्यर्थये, एतत्सर्ववाक्यमतिनम्रताबोधनार्थं तथा च त्वया मद्वचनमवश्यं कर्त- व्यमिति सूचितम् । अभ्यर्थनामेवाह-- मयीति । मयि = ज्येष्ठभ्रातरि, स्नेहः = प्रीतिः, विरलताम् = कृशत्वम्, नेयः = प्रापणीयः, मयि स्नेहं त्यक्त्वा जीवितव्यमिति भावः । तदेवाह -- पितुरिति । पितुः, वारिदः = जलदः, भव, पितृगणाय जलं देयम् और बुद्धि से मुझसे ज्येष्ठ (बड़े) हैं और विद्वत्ता में साक्षात् बृहस्पति के सदृश हैं अतः हाथ जोड़कर अञ्जलि को शिर से लगाकर आपसे प्रार्थना करता हूँ- 'मेरे विषय में स्नेह को शिथिल कर दीजियेगा और पितरों के लिए तिलाञ्जलिदाता बनिये' ॥ २४ ॥
· षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९५ अपि च। बाल्ये संवर्धितस्य नित्याभिमानिनोऽस्मत्सदृशहृदयसार- स्यापि नकुलस्य ममाज्ञया वचने स्थातव्यम्। नानुगन्तव्याऽस्मत्पदवी। त्वया हि वत्स, विस्मृत्यास्माञ्छ्रुतिविशदया स्वाग्रजौ चात्मबुद्ध्या क्षीणे पाण्डावुदकपृषतानश्रुगर्भान् प्रदातुम् । अन्यथा तर्पणाभावे पितृगणस्याधोगतिः स्यादिति भावः। अत्र विषयभेदादे- कस्यैवानेकधोल्लेखादुल्लेखो नामाऽलङ्कारः, हरिणी छन्दः॥ २४ ॥ बाल्ये संवर्धितस्येति = अनेक नकुलेऽधिकस्नेहो दर्शितो भवति। नित्यमभिमानिन इति-अनेक अभिमानाद् दुर्योधनस्यानानुवर्त्तने पुनः कलहशान्तिर्न स्यात्तथाच तवापि शरीररक्षणाऽसम्भवं स्यात् तच्च न भवेदित्या कर्तव्यमिति सूचितम्। नकुलस्य सहदेव- ज्येष्ठत्वेनानुशासनमयुक्तमित्यत आह = ममाज्ञयेति। अस्मत्पदवी = मम मार्गः, मर- णेन भ्रात्रनुसरणरूपः। अन्वयः—श्रुतिविशदया, आत्मबुद्ध्या, अस्मान्, स्वाग्रजौ, च विस्मृत्य, पाण्डौ, क्षीणे (सति) उदकपृषतान्, अश्रुगर्भान्, प्रदातुम्, दायादानाम्, अपि तु, भवने, यादवानाम्, कुले, वा कान्तारे वा, कृतवसतिना, शरीरम्, रक्षणीयम् ॥ २५ ॥ केनाप्युपायेन पित्रे जलदानार्थं शरीरं रक्षणीयमित्याह—विस्मृत्येति। श्रुतिवि- शदया = वेदविशुद्धया, आत्मबुद्ध्या = स्वीयकर्त्तव्याकर्त्तव्यविचाररतज्ञानेन, अस्मान्, 'एकवचनं न प्रयुञ्जीते' त्यादिवचनात्बहुवचनप्रयोगः। स्वाग्रजौ = भीमार्जुनौ, च, विस्मृत्य, पाण्डौ, पितरि, क्षीणे=समूलं नष्टे, अस्मासु सत्सु न पाण्डोर्विनाशः 'आत्मा वै जायते पुत्रः' इति वचनात्, अस्माकमभावे युवयोरपि रक्षाऽसम्भाव्येति साम्प्रतं पाण्डुविनाश इति भावः अश्रुगर्भान् = नेत्राश्रुमिश्रितान्, उदकपृषतान्= जलविन्दून् 'पृषन्ति बिन्दुपृषताः' इत्यमरः। प्रदातुम् = दानार्थम्, दायादानाम्= और भी— 'बडबुद्धि, नित्याहङ्कारी नकुल को, जिसके हृदय का तत्त्व हम लोगों के समान ही हैं आज्ञापालन में लगे रहियेगा। हम लोगों के मार्ग का अनुसरण न कीजिएगा (अथ प्राणत्याग न कीजिएगा)' आप प्रिय भ्रातः ! शास्त्राध्ययन से स्वच्छ बुद्धि के कारण अनुजों के साथ-साथ हम लोगों को भूलकर पाण्डु के अश्रुबिन्दु रूप जल से सने हुए पिण्डों का दान करने के लिए दायादों [कौरवों] के घर या यदुवंशियों के वंश में या किसी गहन वन में कुटी बना कर शरीर की रक्षा करना ॥ २५ ॥
२९६ वेणीसंहारं नाटकं दायादानामपि तु भवने यादवानां कुले वा कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ १५ ॥ गच्छ जयधर, अस्मच्छरीरस्पृष्टिकया शापितेन भवताऽकालहीनमिद- वश्यमावेदनीयम् । द्रौपदी—हला बुद्धिमदिए, भणाहि मंह वअणेण पियसही सुभद्दाम्- अज्ज वच्छाए उत्तराए आवण्णसत्ताएं चउत्थो मासो वट्टदि । सव्वधा- णाभिकुले तं णिक्खिवेसि । कदा विइदो परलोगगदस्स ससुरउलस्स अम्हा- णंवि सलिलविन्दुदो भविस्सदि'त्ति । ( हला बुद्धिमत्तिके, भण, मम वचनेन प्रियसखीं सुभद्राम् - अद्य वत्साया उत्तराया आपन्नसत्त्वायाश्चतुर्थो मासो वर्तते । सर्वथा नाभिकुले तां निक्षेप्स्यसि । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलविन्दुदो भविष्यति' इति । ) बान्धवानाम्, 'दायादौ सुतबान्धवौ' इत्यमरः । अपितु, भवने = गृहे; अपित्वित्य- नेनारुचिरत आह—यादवानामिति । यादवानाम् = यदुवंशजातानाम्, कुले भवने 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च । 'भवने च तनौ' इति मेदिनी । वा, तत्रा- प्यकारणवैरिणो बलरामाद्भये, कान्तारे = दुर्गभूमौ, वा, कृतवसतिना = कृतनिवासेन, त्वया, शरीरम्, रक्षणीयम् = पालनीयम् । कथमपि शरीररक्षा कर्तव्येति भावः । अत्र विस्मरणम्प्रति हेतो श्रुतिविशदयेति पदार्थगतत्वेन काव्यलिङ्गम्, शरीररक्षा प्रति हेतोर्वाक्यार्थत्वेनापरं काव्यलिङ्गम्, उभयोः संसृष्टिरलङ्कारः । मन्दाक्रान्ता छन्दः ॥ १५ ॥ अस्मच्छरीरस्पृष्टिकया = मम शरीरस्पर्शेन, शापितेन = दत्तशपथेन अकालही- नम् = कालेन न हीनमित्यकालहीनम्, असूर्यम्पश्येतिवदसमर्थसमासः । समयमनति- क्रम्येत्यर्थः । किं भण इत्याह—वत्साया इति । उत्तरायाः = अभिमन्युस्त्रियः, प्रतिपन्नस्य = प्राप्तस्य, गर्भस्य = भ्रूणस्य, 'गर्भो भ्रूणोऽर्भके कुक्षी' इति मेदिनी । चतुर्थो मास इत्यन्वयः । इतो लोकात् = मर्त्यलोकात, श्वशुरकुलस्य = पाण्डुवंशस्य, सलिलविन्दुदः = जलबिन्दोर्दाता । जयन्धर ! जाओ मेरे अङ्गों का स्पर्शपूर्वक आपको शपथ है कि समय न व्यतीत होने पाये, यह अवश्य कह दीजिएगा । द्रौपदी—अरी बुद्धिमत्तिके ! मेरी ओर से प्रिय सखी सुभद्रा से कहना—'आज पुत्री उत्तरा के गर्भधारण का चौथा महीना है । किसी भी प्रकार उसे आप पितृकुल में
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९७ युधिष्ठिरः- ( साश्रम् । ) भो कष्टम् । शाखारोधस्थगितवसुधामण्डले मण्डिताशे पीनस्कन्धे सुसदृशमहामूलपर्यङ्कवन्धे । दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्म!ङ्कुरेऽस्मि- न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ २६ ॥ अन्वयः-शाखारोधस्थगितवसुधामण्डले, पीनस्कन्धे, मण्डिताशे सुसदृशमहा- मूलपर्यङ्कवन्धे, सुमहति तरौ, दैवात्, दग्धे, तस्य, अस्मिन्, सूक्ष्माङ्कुरे, छायया, अर्थी, अयम्, जनः, कमपि, आशाबन्धम्, कुरुते ॥ २६ ॥ पाण्डुवंशरूपमहावृक्षस्य विनाशे उत्तरार्गभरूपाइङ्कुर आशाबन्धम् वृथैवेत्याह- शाखारोधेति । शाखारोधस्थगितवसुधामण्डले = शाखाया द्रुमांशस्य रोधेन प्रसारेण अथवा शाखैव रोधः आवरणम्, तेन करणभूतेन स्थगितम् आच्छादितम् अवरुद्धं वा वसुधामण्डलं भूमण्डलं येन तस्मिन्, पीनस्कन्धे = स्थूलप्रकाण्डे, मण्डिताशे = भूषितदिशे, सुसदृशमहामूलपर्यङ्कवन्धे = सुसदृशं दृढं यन्महामूलम् तस्य पर्यङ्कवन्धः परितोऽङ्कवन्धनम्, आलवालः ( कियारी ) इति प्रसिद्धः, यस्मिन्, तस्मिन्, सुमहति= विशाले, तरौ = वृक्षे, एतादृशैश्वर्यशालिपाण्डुवंशरूपे, दैवात् = दुरदृष्टात् दुर्भाग्या- दित्यर्थः । दग्धे = विनष्टे, सति, तस्य = पाण्डुवंशवृक्षस्य, अस्मिन् = साम्प्रतिके न तु भाविकालेऽपि स्थायिनि, तस्यापि दुर्योधनेन विनाशसम्भवादिति भावः । सूक्ष्मा- ङ्कुरे = उत्तरार्गभरूपे, छायया=मुखप्रयोजकत्वेन, अर्थी=इच्छुः, अयम् = दुःखसन्तप्तः, जनः = द्रौपदीरूपः, कमपि=सलिलविन्दुदो भविष्यतीत्याकारकम्, आशाबन्धम् = तृष्णाश्रयम्, कुरुते, भीमादिपराक्रमिपाण्डुवंशस्य विनाशे, उत्तरार्गभे आशाबन्धनं वृथैवेति भावः । मन्दाक्रान्ता छन्दः ॥ २६ ॥ [ सुभद्रा के पितृकुल यादवों के यहाँ अथवा उत्तरा के पितृकुल विराट के यहाँ ] रख दीजिए, कदाचित् यहाँ से परलोक में गये हुए श्वशुरकुल के पुरुषों और हमलोगों के लिए जलबिन्दु देने वाला हो जाय । युधिष्ठिर- ( आँसू बहाते हुए ) हाय बड़े कष्ट की बात है । संयोगवश अतीव विशाल वृक्ष के, जिसकी शाखाओं के आवरण से भूमण्डल आच्छा- दित हो गया था जिसने दिशाओं को अलंकृत कर दिया था, जिसका स्कन्ध [ तना ] अधिक मोटा था, जिसका आलवाल [ जड़ में जल देने का स्थान जो मिट्टी ऊँचा करके पानी रुकने के लिए बनाया जाता है ] उसके मूल [ जड़ ] के अनुरूप ही विस्तृत [ बड़ा ] था, भस्म हो जाने पर उसके अणुमात्र के इस अङ्कुरप्ररोह में कोई भी छायाभिलाषी व्यक्ति जिस प्रकार आशा करता है उसी प्रकार पाण्डवों के, जिनके प्रताप से समस्त भूमण्डल व्याप्त हो
२६८ वेणीसंहारं नाटकं साधु । इदानीमध्यवसितं करणीयम् । ( कञ्चुकिनमवलोक्य । ) आर्य जयन्धर, स्वशरीरेण शापितोऽसि तथापि न गम्यते । कञ्चुकी-( साक्रन्दम् । ) हा देव पाण्डो, तव सुतानामजातशत्रुभीमा- र्जुननकुलसहदेवाना मयं दारुणः परिणामः । हा देवि कुन्ति भोजराजभवन- पताके, भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन- स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः । अध्यवसितम् = निश्चितम्, शापितः = दत्तशपथः । आक्रन्दः = उच्चैरोदनम्, दारुणः = भयानकः, परिणामः = अवस्थितिः, अन्यथा- भाव इत्यर्थः । भोजराजभवनपताके ! = भोजराजस्य कुन्तीपितुः यद् भवनम् तत्र पताका वैजयन्ती इव तत्सम्बोधने । अन्वयः-ते, भ्रातुः तनयेन, शौरिगुरुणा, गाण्डीविनः, श्यालेन, अखिलधा- र्तराष्ट्रनलिनीव्यालोलने, दन्तिनः, तस्यैव, वृकोदरस्य, आचार्येण उन्मत्तेन, वा, मत्तेन, हलिना, तव, तत्, सुतकाननम्, दग्धम्, यस्य, आश्रयात् मही शीतला ॥ तव बन्धुनैव तव सुता विनाशिता इत्याह-भ्रातुरिति । ते = कुन्त्याः, भ्रातुः = वसुदेवस्य, तनयेन = पुत्रेण, एतेन स्वजनकविनाशदर्शनादतीव दुष्परिणामः सूचितः । शौरिगुरुणा = कृष्णश्रेष्ठेन, एतेन कृष्णोऽपि सहायेऽसमर्थ इति सूचितम् गाण्डीविनः = अर्जुनस्य, श्यालेन = अर्जुनस्त्रीसुभद्राभ्रात्रा, एतेन मदीयोऽयं श्यालो न ममानिष्टं करिष्यतीत्यसावधानोऽर्जुन आसीदत एवमभूदन्यथा गाण्डीविनोऽग्रे नान्यः किमपि कर्तुं शक्नोतीति सूचितम् । अखिलधार्तराष्ट्रनलिनीव्यालोलने - रहा था, जो अपने गुणों से दिशाओं को अलङ्कृत कर रहे थे [ अर्थात् जिनकी कीर्ति चारों तरफ व्याप्त हो रही थी ] जिनके विस्तार के अनुरूप ही रक्षा का प्रबन्ध था, विनष्ट हो जाने पर उनके इस चार महीने के उत्तरा के गर्भस्थित बालक में यह द्रौपदी आश्रय की कामना से आशा कर रही है ॥ २३ ॥ अच्छा, अब जो करना निश्चय किया है उसे करना चाहिए । ( कञ्चुकी को देखकर ) आर्य जयन्धर ! अपनी भी शपथ दिलाई तथापि नहीं जा रहे हो ? कंचुकी-( रोकर ) हाय महाराज पाण्डु ! आपके पुत्र युधिष्ठिर, भीम, अर्जुन, नकुल और सहदेव की यह दयनीय दशा । हाय महारानी कुन्ती भोजराज के महल की ध्वजा ! आपके भ्राता पुत्र भगवान् वासुदेव के अग्रज अर्जुन के साले पागल या [ सुरा
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६६ आचार्येण वृकोदरस्य हलिनान्मत्तेन मत्तेन वा दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ २७ ॥ ( इति रुदन्निष्क्रान्तः । ) युधिष्ठिरः—जयन्धर जयन्धर, ( प्रविश्य । ) कञ्चुकी—आज्ञापयतु देवः । युधिष्ठिरः—वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः, यदि कदाचिद्विजयी स्यात्तत्सोऽर्जुनस्तद्वक्तव्योऽस्मद्वचनाद्ब्रूवता । अखिला ये धार्तराष्ट्राः दुर्योधनादयः त एव नलिनी अनायासेन विनाशयत्वात्, तस्य व्यालोलने = मर्दने, दन्तिनः = हस्तिन इव तस्यैव = हस्तिनः, एव वृकोदरस्य, आचार्येण = उपदेशकेन, अत एव, उन्मत्तेन = उन्मादवता स्वाभाविकचित्तविभ्रम- वतेत्यर्थः । ननु स्वाभाविकचित्तविभ्रमवांस्तदा ज्ञानशून्यत्वेन संकेतर्माप कतुं न शक्नोतीत्यत आह—वा मत्तेनेति । मत्तेन = सुरया क्षीवेण, यदि नहि क्षीवस्तदा कर्तव्याकर्तव्यविचारं विहाय कथं स्वयमेव स्वजनविनाशमकरोदिति भावः । हलिना = बलभद्रेण, तव = कुन्त्याः, तत् = भूमण्डलविदितम्, सुतकाननम् = सुता एव काननम् । रूपकसमासः । दग्धम् = विनाशितम्, यस्य = सुतकाननस्य, आश्रयात् = सेवनात्, मही=पृथ्वी, शीतला=सुप्रसन्ना, आसीदिति शेषः । दुराचारिणां बकादीनां तेन विनाशादिति भावः । अत्र विषमालङ्कारः । शार्दूलविक्रीडितं छन्दः । वक्तव्यमिति—अस्य सम्भावना तु नास्त्येवेति भावः । अपर्याप्तमेवावलोक्य पान से ] मतवाले बलराम ने, जो सम्पूर्ण कौरव-कुल कमलिनी को ध्वस्त करने में मातङ्ग [ हाथी ] रूपी उसी भीम के आचार्य [ गुरु ] हैं, आपके पुत्ररूपी अरण्य को भस्म कर डाला ) जिस अरण्य के आश्रय से पृथ्वी शीतल थी [ अर्थात् बलराम ने आपके पुत्र भीम को मार डाला, जिसके कारण प्रजा अधिक सुखी थी ] ॥ २७ ॥ ( इस तरह विलाप करते हुए निकल पड़े ) युधिष्ठिर—जयन्धर, जयन्धर, ( प्रवेश करके ) कंचुकी—आज्ञा दीजिए महाराज ! युधिष्ठिर—कहने के लिए इच्छा हो रही है इसलिए कह रहा हूँ । हम लोगों के भाग्य में यह ना कहाँ बदा है। यदि कभी अनुज अर्जुन विजय प्राप्त कर लें तो उनको मेरी ओर से कहना—
३०० वेणीसंहारं नाटकं हली हेतुः सत्यं भवति मम वत्सस्य निधने तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः । अतः क्रोधः कार्यो न खलु मयि चेत्प्रेम भवतो वनं गच्छेर्मा गाः पुनरकरणां क्षात्रपदवीम् ॥ ८ ॥ कञ्चुकी—यदाज्ञापयति देवः । ( इति निष्क्रान्तः । ) गदायुद्धमर्जुनसुयोधनयोरागत इति राक्षसेनोक्तत्वाद्युद्धस्थानवसानादर्जुनस्यापि विजयः सम्भाव्यतेऽत आह—यदि कदाचिदिति । अन्वयः—मम, वत्सस्य, निधने, हली, सत्यम्, हेतुः, भवति, तथापि, एषः, ते, सहजसुहृदः मधुरिपोः, भ्राता, अतः, क्रोधः, न, खलु, कार्यः, भवतः, प्रेम, मयि; चेत्, ( तदा ) वनम्, गच्छेः, पुनः, अकरुणाम्, क्षात्रपदवीम् मा, गाः ॥ २८ ॥ जये सति वलभद्रे भीमविनाशजन्यक्रोधो न कर्तव्य इत्याह—हलीति । मम, वत्सस्य = भीमस्य, निधने = मरणे, हली = बलरामः, यद्यपि, सत्यम् = तथ्यम्, हेतुः = कारणम्, भवति = विद्यते तथापि = एवं सत्यपि, एषः = बलरामः, ते = तवार्जुनस्य, सहजसुहृदः = स्वाभाविकमित्रस्य, कृष्णार्जुनयोर्नरनारायणरुपत्वात्तयोः सनातनमित्रत्वमित्युक्तं सहजसुहृद इति । मधुरिपोः = कृष्णस्य एतेन कृष्णेऽधिक- बलवत्त्वमीश्वरत्वं वा बोधितम् । तथा च 'अहो दुरन्ता बलवद्विरोधिता' इति न्यायेन तस्य भ्रातुर्द्वेषायोग्यत्वं वा दर्शितम् । भ्राता = सहोदरः, अस्ति, अतः, क्रोधः—कोपः, न खलु = नैव, खलुशब्दोऽत्रिनिषेधद्योतनार्थम् । 'निषेधवाक्यालङ्कारे विलासानुनये खलु' इति कोशात्खलुशब्दस्य निषेधार्थकत्वेन अभावोभावस्य प्रतियोगिरूपत्वेन भीम- वधप्रतीकारार्थं बलरामे क्रोधः कार्यं एवेति व्याख्यानन्तु न युक्तम्, तथापीत्यादिग्रन्थ- विरोधात्, 'अथात आदेशो नेति' इत्यादौ तथानवगमाच्च । भवतः, मयि = युधिष्ठिरे, प्रेम = स्नेहः, चेत्, तदा, त्वमित्यस्याध्याहारः । त्वम्, वनम् = अरण्यम्, गच्छेः = व्रजेः, पुनः = भूयः, अकरुणाम् = दयाशून्याम्, क्षात्रपदवीम् = क्षत्रियमार्गः युद्धादि- कमित्यर्थः । मा = न, गाः = प्राप्स्यसि स्वीकरिष्यसीत्यर्थः । 'माङि लुङ्' इति माङ्योगे लुङ् । अत्र क्रोधाकरणे तृतीयचरणार्थो हेतुरिति हेतोर्वाक्यार्थत्वेन काव्य- लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ २८ ॥ सच ही मेरे वत्स ( भीम ) के संहार में हलधर ( बलराम ) कारण हैं। तो भी ये तुम्हारे स्वाभाविक मित्र मधुसूदन ( श्रीकृष्ण ) के भाई हैं। अतः यदि मुझ में तुम्हारा स्नेह हो तो ( इन पर ) क्रोध न करना। वन का आश्रय ले लेना, परन्तु निर्दयतापूर्ण क्षत्रियोचित मार्ग का अवलम्बन न करना ॥ १८ ॥ कंचुकी—महाराज की जो आज्ञा । ( चल पड़ता है )'