वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
DevanagariHindipublished355 पृष्ठ
पृष्ठ 311, कुल 355 में से
संदर्भ में पढ़ेंपृष्ठ 311
२९२ वेणीसंहारं नाटकं
न्धो तदो विलम्बी अदु । ( महाराज, कस्याप्येष तेजोवलदर्पितस्य विषमः शङ्ख-
निर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यताम् । )
युधिष्ठिर—न खलु विलम्ब्यते । उत्तिष्ठ ।
( इति सर्वे परिक्रामन्ति । )
युधिष्ठिरः—अयि, पाञ्चालि, अम्बायाः सपत्नीजनस्य च किञ्चित्संदिश्य
निवर्तय परिजनम् ।
द्रौपदी—महाराअ, अम्बाए एवं संदिसिस्सम्—'जो सो वअहिडिम्ब-
किम्मीरजडासुरजरासंघविजअमल्लो वि दे मज्झमपुत्तो मम हदासाए
पक्खवादेण परलोअं गदो त्ति' । ( महाराज अम्बायै एवं संदेश्यामि—'यः
वकहिडिम्बकिर्मीरजटासुरजरासन्धविजयमल्लोऽपि ते मध्यमपुत्रो मम हताशायाः
पक्षपातेन परलोकं गता' इति । )
युधिष्ठिर –भद्रे बुद्धिमत्तिके, उच्चतामस्मद्वचनादम्बा ।
------------------------------------------------------------
तेजोबलदर्पितस्य = तेजश्च बलञ्चेति तेजोबले ताभ्यां दर्पितस्य गर्वितस्य;
विषमः = तारः, अथवा, भयानकः, शङ्खनिर्घोषः = शङ्खशब्दः, अप्रियम्-अनिष्टम्,
निर्बन्धः = आग्रहः, ततः = यतः श्रोतुमाग्रहोऽस्ति तस्मात्, विलम्ब्यते = समयो
याप्यते, त्वया, इति शेषः ।
· अम्बायाः = मातुः कुन्त्या, सपत्नीजनस्य = सुभद्रादेः, सन्दिश्य = वाचिकं प्रेष्य,
निवर्त्तय = स्वगृहाभिमुखं परावर्त्तय, परिजनम् = सेवकवर्गम् ।
वकहिडिम्बेति - एतेषां विजयेन मल्लः बलीयान् अतिबलवानित्यर्थः । 'मल्लः
पात्रे कपोले च मत्स्यभेदे बलीयसि' इति मेदिनी । मध्यमपुत्रः = भीमः, हताशायाः=
हततृष्णायाः 'आशा ककुभि तृष्णायाम्' इति हैमः । पक्षपातेन = मत्तिरस्कारनिरा-
करणतत्परतया ।
उच्चताम् = कथनीया,
------------------------------------------------------------
युधिष्ठिर—विलम्ब तो नहीं कर रहा हूँ, उठिये ।
( सब लोग चल रहे हैं )
युधिष्ठिर—अयि द्रौपदी ! माता कुन्ती को तथा अपनी सुभद्रा प्रभृति सौतों को कुछ
सन्देश देकर दास-दासियों को लौटा दीजिए !
द्रौपदी—महाराज ! माताजी के लिए इस प्रकार सन्देश दूँगी—जो 'वक' हिडिम्ब,
किर्मीर, जटासुर और जरासन्ध पर विजयी मल्ल आपके मँझले पुत्र भीमसेन थे, वे मुझ
हतभागिनी के पक्षपात के कारण परलोक को सिधार गये ।'
युधिष्ठिर—कल्याणि बुद्धिमत्तिके ! मेरी ओर से माताजी से कहना कि उस लाल