वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
२९२ वेणीसंहारं नाटकं
न्धो तदो विलम्बी अदु । ( महाराज, कस्याप्येष तेजोवलदर्पितस्य विषमः शङ्ख-
निर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यताम् । )
युधिष्ठिर—न खलु विलम्ब्यते । उत्तिष्ठ ।
( इति सर्वे परिक्रामन्ति । )
युधिष्ठिरः—अयि, पाञ्चालि, अम्बायाः सपत्नीजनस्य च किञ्चित्संदिश्य
निवर्तय परिजनम् ।
द्रौपदी—महाराअ, अम्बाए एवं संदिसिस्सम्—'जो सो वअहिडिम्ब-
किम्मीरजडासुरजरासंघविजअमल्लो वि दे मज्झमपुत्तो मम हदासाए
पक्खवादेण परलोअं गदो त्ति' । ( महाराज अम्बायै एवं संदेश्यामि—'यः
वकहिडिम्बकिर्मीरजटासुरजरासन्धविजयमल्लोऽपि ते मध्यमपुत्रो मम हताशायाः
पक्षपातेन परलोकं गता' इति । )
युधिष्ठिर –भद्रे बुद्धिमत्तिके, उच्चतामस्मद्वचनादम्बा ।
------------------------------------------------------------
तेजोबलदर्पितस्य = तेजश्च बलञ्चेति तेजोबले ताभ्यां दर्पितस्य गर्वितस्य;
विषमः = तारः, अथवा, भयानकः, शङ्खनिर्घोषः = शङ्खशब्दः, अप्रियम्-अनिष्टम्,
निर्बन्धः = आग्रहः, ततः = यतः श्रोतुमाग्रहोऽस्ति तस्मात्, विलम्ब्यते = समयो
याप्यते, त्वया, इति शेषः ।
· अम्बायाः = मातुः कुन्त्या, सपत्नीजनस्य = सुभद्रादेः, सन्दिश्य = वाचिकं प्रेष्य,
निवर्त्तय = स्वगृहाभिमुखं परावर्त्तय, परिजनम् = सेवकवर्गम् ।
वकहिडिम्बेति - एतेषां विजयेन मल्लः बलीयान् अतिबलवानित्यर्थः । 'मल्लः
पात्रे कपोले च मत्स्यभेदे बलीयसि' इति मेदिनी । मध्यमपुत्रः = भीमः, हताशायाः=
हततृष्णायाः 'आशा ककुभि तृष्णायाम्' इति हैमः । पक्षपातेन = मत्तिरस्कारनिरा-
करणतत्परतया ।
उच्चताम् = कथनीया,
------------------------------------------------------------
युधिष्ठिर—विलम्ब तो नहीं कर रहा हूँ, उठिये ।
( सब लोग चल रहे हैं )
युधिष्ठिर—अयि द्रौपदी ! माता कुन्ती को तथा अपनी सुभद्रा प्रभृति सौतों को कुछ
सन्देश देकर दास-दासियों को लौटा दीजिए !
द्रौपदी—महाराज ! माताजी के लिए इस प्रकार सन्देश दूँगी—जो 'वक' हिडिम्ब,
किर्मीर, जटासुर और जरासन्ध पर विजयी मल्ल आपके मँझले पुत्र भीमसेन थे, वे मुझ
हतभागिनी के पक्षपात के कारण परलोक को सिधार गये ।'
युधिष्ठिर—कल्याणि बुद्धिमत्तिके ! मेरी ओर से माताजी से कहना कि उस लाल
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९३ येनासि तत्र जतुवेश्मनि दीप्यमाने उत्तारिता सह सुतैर्भुजयोर्बलेन । तस्य प्रियस्य बलिनस्तनयस्य पाप- माख्यामि तेऽम्ब कथयेत्कथमीदृगन्यः ॥ २३ ॥ आर्य जयन्धर, त्वया सहदेवसकाशं गन्तव्यम् । वक्तव्यश्च तत्र- भवान्माद्रेयः कनीयान्सकलकुरुकुलकमलाकरवडवानलो युधिष्ठिरः परलो- कमभिप्रस्थितः प्रियानुजमप्रतिकूलं सततमाशंसनीयमसंमूढव्यसनेऽप्यु- अन्वयः—तत्र, जतुवेश्मनि, दीप्यमाने, येन, भुजयोः, बलेन ( त्वम् ) सुतैः सह, उत्तारिता, प्रियस्य, तस्य, बलिनः, तनयस्य, पापम्, आख्यामि, अम्ब ! अन्यः, कथम्, ईदृक्, कथयेत् ॥ २३ ॥ अस्य गौणक्रमहि -- येनासीति । तत्र=वारणावते, जतुवेश्मनि=लाक्षागृहे, दीप्य- माने=अग्निना प्रज्वालमाने, सति, येन - वृकोदरेण, भुजयोः=बाह्वोः, बलेन, = ( त्वम् ) सुतैः = अन्यैरपि पुत्रैः, सह = साकम्, उत्तारिता = बहिरानीता, प्रियस्य= स्निग्धस्य, तस्य = भीमस्य, बलिनः = बलवतः, तनयस्य = सुतस्य, पापम् = छलेन मारणम्, तेन = तुभ्यम्, आख्यामि = कथयामि । कथमेतादृशक्रूरवचनं त्वमेव कथय- सीत्याह-अम्बेति ( हे ) । अम्ब ! अन्यः = मदतिरिक्तः, कथम्, ईदृक् = अश्रव्यं पापम् कथयेत्, द्यूतद्वाराऽहमेवात्र हेतुरतोऽहमेव स्वापराधक्षमार्थं कथयामि अन्यस्तु न कथयिष्यति 'कथानि खलु पापानममश्रेयसे यतः' इति वचनादित्याशयः । अत्र सामान्येन विशेषस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः । वसन्ततिलका छन्दः । जयन्धरेति-एतन्नामकयुधिष्ठिरकञ्चुकी सहदेवसकाशम् = कनिष्ठमाद्रीपुत्र- निर्मित गृह के जल देने पर जिसने भुजाओं के बल से आपको पुत्रों के साथ उतारा था उस बलशाली आपके प्यारे पुत्र के विषय में अनिष्ट संवाद सुना रहा हूँ । माता जी ! मेरे अतिरिक्त दूसरा कौन व्यक्ति इस प्रकार का साहस कर सकता है ? ॥ २३ ॥ आर्य जयन्धर ! तुम भी सहदेव के समीप जाओ और श्रीमान् कनिष्ठ, माद्रीकुमार सहदेव से कहना-अखिल कुरुवंशरूपी कमलवन के लिये दावाग्नि, 'युधिष्ठिर परलोक के लिए प्रस्थान करते समय विपत्ति और सम्पत्ति काल में जिसकी बुद्धि विपरीत नहीं होती, सर्वदा जिसकी आशा की जा सकती है, और जो सर्वदा अनुकूल अर्थात् आज्ञापालन में तत्पर रहता है इस प्रकार के कनिष्ठ और प्रिय भ्राता का निरन्तर आलिङ्गन करके और शिर सूँघ कर यह प्रार्थना करते हैं— ‘आप मुझसे अतीव अल्पावस्था के हैं किन्तु शास्त्राध्ययन में मेरे समान हैं स्वाभाविक दया
दये च धृतिमन्त भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेढं प्रार्थयते— मम हि वयसा दूरेण त्वं श्रुतेन समो भवान् कृतसहजया बुद्ध्या ज्येष्ठो मनीषितया गुरुः। शिरसि मुकलो पाणी कृत्वा भवन्तमतोऽर्थये मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ २४ ॥ सविधे । तत्रभवान् = प्रशंसनीयः, माद्रेयः = माद्रीतनयः । कनीयान् = कनिष्ठः । किं वक्तव्य इत्याह - सकलेति । सकलं यत्कुरुकुलम्, भरतवंशः तदेव कमलाकरः पद्मखनिः तत्र वडवानलः वाडवाग्निः, परलोकम् = स्वर्गम्, अभिप्रस्थितः = गन्तु- मारब्धः आदिकर्मणि क्तः अनुकूलम्, ममेत्यादि । अथवा अनुकूलमित्यस्य आशंसनीय- मित्यनेनान्वयः । आशीर्वचनयाग्यम्, व्यसने = विपत्तौ, अभ्युदये च असम्मूहम् = अनुद्विग्नम्, समानमित्यर्थः । धृतिमन्तम् = सधैर्यम् भवन्तम् = सहदेवम्, चिरम् = बहुकालम्, आलिङ्ग्य = परिष्वज्य, आघ्राय = घ्रात्वा, लालनं कृत्वेत्यर्थः । -- अन्वयः -- मम, वयसा, दूरेण ( उपलक्षितः ), त्वम्, श्रुतेन, भवान्, समः, कृतसहजया, बुद्ध्या, ज्येष्ठः, मनीषितया, गुरुः, अतः, शिरसि, पाणी, मुकुलौ कृत्वा, भवन्तम्, अर्थये, मयि स्नेहः, विरलताम्, नेयः, पितुः, वारिदः, भव, (त्वम्) ॥२४॥ किं प्रार्थयत इत्याह - ममेति । हि = यतः, मम = युधिष्ठिरस्य, वयसा = अव- स्थया, दूरेण, (उपलक्षितः) त्वम्, अल्प इति पाठे दूरेणाल्पः = अतिकनिष्ठः, श्रुतेन = श्रवणेन, शास्त्रस्येत्यादिः, शास्त्रश्रवणेनेत्यर्थः । भावे क्तप्रत्ययः । भवान्, समः = सदृशः, कृतसहजया = सहजननं सहजः 'अन्येभ्योपि दृश्यते' इति वाहुलका- द्भावे डप्रत्ययः । कृतः प्राप्तः सहजः सहजननं यया बुद्ध्या तया, सहोत्पन्नयेत्यर्थः । स्वाभाविकयेति यावत् ।- बुद्ध्या = ज्ञानेन, ज्येष्ठः = अतिप्रवस्यः प्रशंसनीय इत्यर्थः । 'ज्य च' इति सूत्रेण प्रशस्यस्येष्ठन्प्रत्यये परे ज्यादेशः । मनीषितया = विद्वत्तया, शास्त्राध्ययनजन्यज्ञानेनेत्यर्थः । गुरुः = श्रेष्ठः, अतः, शिरसि = मस्तके, पाणी = हस्तौ, मुकुलौ = सम्पुटितौ, अथवा कुङ्म्लसदृशौ, कृत्वा = विधाय,, भवन्तम् अर्थये = अभ्यर्थये, एतत्सर्ववाक्यमतिनम्रताबोधनार्थं तथा च त्वया मद्वचनमवश्यं कर्त- व्यमिति सूचितम् । अभ्यर्थनामेवाह-- मयीति । मयि = ज्येष्ठभ्रातरि, स्नेहः = प्रीतिः, विरलताम् = कृशत्वम्, नेयः = प्रापणीयः, मयि स्नेहं त्यक्त्वा जीवितव्यमिति भावः । तदेवाह -- पितुरिति । पितुः, वारिदः = जलदः, भव, पितृगणाय जलं देयम् और बुद्धि से मुझसे ज्येष्ठ (बड़े) हैं और विद्वत्ता में साक्षात् बृहस्पति के सदृश हैं अतः हाथ जोड़कर अञ्जलि को शिर से लगाकर आपसे प्रार्थना करता हूँ- 'मेरे विषय में स्नेह को शिथिल कर दीजियेगा और पितरों के लिए तिलाञ्जलिदाता बनिये' ॥ २४ ॥
· षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९५ अपि च। बाल्ये संवर्धितस्य नित्याभिमानिनोऽस्मत्सदृशहृदयसार- स्यापि नकुलस्य ममाज्ञया वचने स्थातव्यम्। नानुगन्तव्याऽस्मत्पदवी। त्वया हि वत्स, विस्मृत्यास्माञ्छ्रुतिविशदया स्वाग्रजौ चात्मबुद्ध्या क्षीणे पाण्डावुदकपृषतानश्रुगर्भान् प्रदातुम् । अन्यथा तर्पणाभावे पितृगणस्याधोगतिः स्यादिति भावः। अत्र विषयभेदादे- कस्यैवानेकधोल्लेखादुल्लेखो नामाऽलङ्कारः, हरिणी छन्दः॥ २४ ॥ बाल्ये संवर्धितस्येति = अनेक नकुलेऽधिकस्नेहो दर्शितो भवति। नित्यमभिमानिन इति-अनेक अभिमानाद् दुर्योधनस्यानानुवर्त्तने पुनः कलहशान्तिर्न स्यात्तथाच तवापि शरीररक्षणाऽसम्भवं स्यात् तच्च न भवेदित्या कर्तव्यमिति सूचितम्। नकुलस्य सहदेव- ज्येष्ठत्वेनानुशासनमयुक्तमित्यत आह = ममाज्ञयेति। अस्मत्पदवी = मम मार्गः, मर- णेन भ्रात्रनुसरणरूपः। अन्वयः—श्रुतिविशदया, आत्मबुद्ध्या, अस्मान्, स्वाग्रजौ, च विस्मृत्य, पाण्डौ, क्षीणे (सति) उदकपृषतान्, अश्रुगर्भान्, प्रदातुम्, दायादानाम्, अपि तु, भवने, यादवानाम्, कुले, वा कान्तारे वा, कृतवसतिना, शरीरम्, रक्षणीयम् ॥ २५ ॥ केनाप्युपायेन पित्रे जलदानार्थं शरीरं रक्षणीयमित्याह—विस्मृत्येति। श्रुतिवि- शदया = वेदविशुद्धया, आत्मबुद्ध्या = स्वीयकर्त्तव्याकर्त्तव्यविचाररतज्ञानेन, अस्मान्, 'एकवचनं न प्रयुञ्जीते' त्यादिवचनात्बहुवचनप्रयोगः। स्वाग्रजौ = भीमार्जुनौ, च, विस्मृत्य, पाण्डौ, पितरि, क्षीणे=समूलं नष्टे, अस्मासु सत्सु न पाण्डोर्विनाशः 'आत्मा वै जायते पुत्रः' इति वचनात्, अस्माकमभावे युवयोरपि रक्षाऽसम्भाव्येति साम्प्रतं पाण्डुविनाश इति भावः अश्रुगर्भान् = नेत्राश्रुमिश्रितान्, उदकपृषतान्= जलविन्दून् 'पृषन्ति बिन्दुपृषताः' इत्यमरः। प्रदातुम् = दानार्थम्, दायादानाम्= और भी— 'बडबुद्धि, नित्याहङ्कारी नकुल को, जिसके हृदय का तत्त्व हम लोगों के समान ही हैं आज्ञापालन में लगे रहियेगा। हम लोगों के मार्ग का अनुसरण न कीजिएगा (अथ प्राणत्याग न कीजिएगा)' आप प्रिय भ्रातः ! शास्त्राध्ययन से स्वच्छ बुद्धि के कारण अनुजों के साथ-साथ हम लोगों को भूलकर पाण्डु के अश्रुबिन्दु रूप जल से सने हुए पिण्डों का दान करने के लिए दायादों [कौरवों] के घर या यदुवंशियों के वंश में या किसी गहन वन में कुटी बना कर शरीर की रक्षा करना ॥ २५ ॥
२९६ वेणीसंहारं नाटकं दायादानामपि तु भवने यादवानां कुले वा कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ १५ ॥ गच्छ जयधर, अस्मच्छरीरस्पृष्टिकया शापितेन भवताऽकालहीनमिद- वश्यमावेदनीयम् । द्रौपदी—हला बुद्धिमदिए, भणाहि मंह वअणेण पियसही सुभद्दाम्- अज्ज वच्छाए उत्तराए आवण्णसत्ताएं चउत्थो मासो वट्टदि । सव्वधा- णाभिकुले तं णिक्खिवेसि । कदा विइदो परलोगगदस्स ससुरउलस्स अम्हा- णंवि सलिलविन्दुदो भविस्सदि'त्ति । ( हला बुद्धिमत्तिके, भण, मम वचनेन प्रियसखीं सुभद्राम् - अद्य वत्साया उत्तराया आपन्नसत्त्वायाश्चतुर्थो मासो वर्तते । सर्वथा नाभिकुले तां निक्षेप्स्यसि । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलविन्दुदो भविष्यति' इति । ) बान्धवानाम्, 'दायादौ सुतबान्धवौ' इत्यमरः । अपितु, भवने = गृहे; अपित्वित्य- नेनारुचिरत आह—यादवानामिति । यादवानाम् = यदुवंशजातानाम्, कुले भवने 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च । 'भवने च तनौ' इति मेदिनी । वा, तत्रा- प्यकारणवैरिणो बलरामाद्भये, कान्तारे = दुर्गभूमौ, वा, कृतवसतिना = कृतनिवासेन, त्वया, शरीरम्, रक्षणीयम् = पालनीयम् । कथमपि शरीररक्षा कर्तव्येति भावः । अत्र विस्मरणम्प्रति हेतो श्रुतिविशदयेति पदार्थगतत्वेन काव्यलिङ्गम्, शरीररक्षा प्रति हेतोर्वाक्यार्थत्वेनापरं काव्यलिङ्गम्, उभयोः संसृष्टिरलङ्कारः । मन्दाक्रान्ता छन्दः ॥ १५ ॥ अस्मच्छरीरस्पृष्टिकया = मम शरीरस्पर्शेन, शापितेन = दत्तशपथेन अकालही- नम् = कालेन न हीनमित्यकालहीनम्, असूर्यम्पश्येतिवदसमर्थसमासः । समयमनति- क्रम्येत्यर्थः । किं भण इत्याह—वत्साया इति । उत्तरायाः = अभिमन्युस्त्रियः, प्रतिपन्नस्य = प्राप्तस्य, गर्भस्य = भ्रूणस्य, 'गर्भो भ्रूणोऽर्भके कुक्षी' इति मेदिनी । चतुर्थो मास इत्यन्वयः । इतो लोकात् = मर्त्यलोकात, श्वशुरकुलस्य = पाण्डुवंशस्य, सलिलविन्दुदः = जलबिन्दोर्दाता । जयन्धर ! जाओ मेरे अङ्गों का स्पर्शपूर्वक आपको शपथ है कि समय न व्यतीत होने पाये, यह अवश्य कह दीजिएगा । द्रौपदी—अरी बुद्धिमत्तिके ! मेरी ओर से प्रिय सखी सुभद्रा से कहना—'आज पुत्री उत्तरा के गर्भधारण का चौथा महीना है । किसी भी प्रकार उसे आप पितृकुल में
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९७ युधिष्ठिरः- ( साश्रम् । ) भो कष्टम् । शाखारोधस्थगितवसुधामण्डले मण्डिताशे पीनस्कन्धे सुसदृशमहामूलपर्यङ्कवन्धे । दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्म!ङ्कुरेऽस्मि- न्नाशाबन्धं कमपि कुरुते छाययार्थी जनोऽयम् ॥ २६ ॥ अन्वयः-शाखारोधस्थगितवसुधामण्डले, पीनस्कन्धे, मण्डिताशे सुसदृशमहा- मूलपर्यङ्कवन्धे, सुमहति तरौ, दैवात्, दग्धे, तस्य, अस्मिन्, सूक्ष्माङ्कुरे, छायया, अर्थी, अयम्, जनः, कमपि, आशाबन्धम्, कुरुते ॥ २६ ॥ पाण्डुवंशरूपमहावृक्षस्य विनाशे उत्तरार्गभरूपाइङ्कुर आशाबन्धम् वृथैवेत्याह- शाखारोधेति । शाखारोधस्थगितवसुधामण्डले = शाखाया द्रुमांशस्य रोधेन प्रसारेण अथवा शाखैव रोधः आवरणम्, तेन करणभूतेन स्थगितम् आच्छादितम् अवरुद्धं वा वसुधामण्डलं भूमण्डलं येन तस्मिन्, पीनस्कन्धे = स्थूलप्रकाण्डे, मण्डिताशे = भूषितदिशे, सुसदृशमहामूलपर्यङ्कवन्धे = सुसदृशं दृढं यन्महामूलम् तस्य पर्यङ्कवन्धः परितोऽङ्कवन्धनम्, आलवालः ( कियारी ) इति प्रसिद्धः, यस्मिन्, तस्मिन्, सुमहति= विशाले, तरौ = वृक्षे, एतादृशैश्वर्यशालिपाण्डुवंशरूपे, दैवात् = दुरदृष्टात् दुर्भाग्या- दित्यर्थः । दग्धे = विनष्टे, सति, तस्य = पाण्डुवंशवृक्षस्य, अस्मिन् = साम्प्रतिके न तु भाविकालेऽपि स्थायिनि, तस्यापि दुर्योधनेन विनाशसम्भवादिति भावः । सूक्ष्मा- ङ्कुरे = उत्तरार्गभरूपे, छायया=मुखप्रयोजकत्वेन, अर्थी=इच्छुः, अयम् = दुःखसन्तप्तः, जनः = द्रौपदीरूपः, कमपि=सलिलविन्दुदो भविष्यतीत्याकारकम्, आशाबन्धम् = तृष्णाश्रयम्, कुरुते, भीमादिपराक्रमिपाण्डुवंशस्य विनाशे, उत्तरार्गभे आशाबन्धनं वृथैवेति भावः । मन्दाक्रान्ता छन्दः ॥ २६ ॥ [ सुभद्रा के पितृकुल यादवों के यहाँ अथवा उत्तरा के पितृकुल विराट के यहाँ ] रख दीजिए, कदाचित् यहाँ से परलोक में गये हुए श्वशुरकुल के पुरुषों और हमलोगों के लिए जलबिन्दु देने वाला हो जाय । युधिष्ठिर- ( आँसू बहाते हुए ) हाय बड़े कष्ट की बात है । संयोगवश अतीव विशाल वृक्ष के, जिसकी शाखाओं के आवरण से भूमण्डल आच्छा- दित हो गया था जिसने दिशाओं को अलंकृत कर दिया था, जिसका स्कन्ध [ तना ] अधिक मोटा था, जिसका आलवाल [ जड़ में जल देने का स्थान जो मिट्टी ऊँचा करके पानी रुकने के लिए बनाया जाता है ] उसके मूल [ जड़ ] के अनुरूप ही विस्तृत [ बड़ा ] था, भस्म हो जाने पर उसके अणुमात्र के इस अङ्कुरप्ररोह में कोई भी छायाभिलाषी व्यक्ति जिस प्रकार आशा करता है उसी प्रकार पाण्डवों के, जिनके प्रताप से समस्त भूमण्डल व्याप्त हो
२६८ वेणीसंहारं नाटकं साधु । इदानीमध्यवसितं करणीयम् । ( कञ्चुकिनमवलोक्य । ) आर्य जयन्धर, स्वशरीरेण शापितोऽसि तथापि न गम्यते । कञ्चुकी-( साक्रन्दम् । ) हा देव पाण्डो, तव सुतानामजातशत्रुभीमा- र्जुननकुलसहदेवाना मयं दारुणः परिणामः । हा देवि कुन्ति भोजराजभवन- पताके, भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन- स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः । अध्यवसितम् = निश्चितम्, शापितः = दत्तशपथः । आक्रन्दः = उच्चैरोदनम्, दारुणः = भयानकः, परिणामः = अवस्थितिः, अन्यथा- भाव इत्यर्थः । भोजराजभवनपताके ! = भोजराजस्य कुन्तीपितुः यद् भवनम् तत्र पताका वैजयन्ती इव तत्सम्बोधने । अन्वयः-ते, भ्रातुः तनयेन, शौरिगुरुणा, गाण्डीविनः, श्यालेन, अखिलधा- र्तराष्ट्रनलिनीव्यालोलने, दन्तिनः, तस्यैव, वृकोदरस्य, आचार्येण उन्मत्तेन, वा, मत्तेन, हलिना, तव, तत्, सुतकाननम्, दग्धम्, यस्य, आश्रयात् मही शीतला ॥ तव बन्धुनैव तव सुता विनाशिता इत्याह-भ्रातुरिति । ते = कुन्त्याः, भ्रातुः = वसुदेवस्य, तनयेन = पुत्रेण, एतेन स्वजनकविनाशदर्शनादतीव दुष्परिणामः सूचितः । शौरिगुरुणा = कृष्णश्रेष्ठेन, एतेन कृष्णोऽपि सहायेऽसमर्थ इति सूचितम् गाण्डीविनः = अर्जुनस्य, श्यालेन = अर्जुनस्त्रीसुभद्राभ्रात्रा, एतेन मदीयोऽयं श्यालो न ममानिष्टं करिष्यतीत्यसावधानोऽर्जुन आसीदत एवमभूदन्यथा गाण्डीविनोऽग्रे नान्यः किमपि कर्तुं शक्नोतीति सूचितम् । अखिलधार्तराष्ट्रनलिनीव्यालोलने - रहा था, जो अपने गुणों से दिशाओं को अलङ्कृत कर रहे थे [ अर्थात् जिनकी कीर्ति चारों तरफ व्याप्त हो रही थी ] जिनके विस्तार के अनुरूप ही रक्षा का प्रबन्ध था, विनष्ट हो जाने पर उनके इस चार महीने के उत्तरा के गर्भस्थित बालक में यह द्रौपदी आश्रय की कामना से आशा कर रही है ॥ २३ ॥ अच्छा, अब जो करना निश्चय किया है उसे करना चाहिए । ( कञ्चुकी को देखकर ) आर्य जयन्धर ! अपनी भी शपथ दिलाई तथापि नहीं जा रहे हो ? कंचुकी-( रोकर ) हाय महाराज पाण्डु ! आपके पुत्र युधिष्ठिर, भीम, अर्जुन, नकुल और सहदेव की यह दयनीय दशा । हाय महारानी कुन्ती भोजराज के महल की ध्वजा ! आपके भ्राता पुत्र भगवान् वासुदेव के अग्रज अर्जुन के साले पागल या [ सुरा
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६६ आचार्येण वृकोदरस्य हलिनान्मत्तेन मत्तेन वा दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ २७ ॥ ( इति रुदन्निष्क्रान्तः । ) युधिष्ठिरः—जयन्धर जयन्धर, ( प्रविश्य । ) कञ्चुकी—आज्ञापयतु देवः । युधिष्ठिरः—वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः, यदि कदाचिद्विजयी स्यात्तत्सोऽर्जुनस्तद्वक्तव्योऽस्मद्वचनाद्ब्रूवता । अखिला ये धार्तराष्ट्राः दुर्योधनादयः त एव नलिनी अनायासेन विनाशयत्वात्, तस्य व्यालोलने = मर्दने, दन्तिनः = हस्तिन इव तस्यैव = हस्तिनः, एव वृकोदरस्य, आचार्येण = उपदेशकेन, अत एव, उन्मत्तेन = उन्मादवता स्वाभाविकचित्तविभ्रम- वतेत्यर्थः । ननु स्वाभाविकचित्तविभ्रमवांस्तदा ज्ञानशून्यत्वेन संकेतर्माप कतुं न शक्नोतीत्यत आह—वा मत्तेनेति । मत्तेन = सुरया क्षीवेण, यदि नहि क्षीवस्तदा कर्तव्याकर्तव्यविचारं विहाय कथं स्वयमेव स्वजनविनाशमकरोदिति भावः । हलिना = बलभद्रेण, तव = कुन्त्याः, तत् = भूमण्डलविदितम्, सुतकाननम् = सुता एव काननम् । रूपकसमासः । दग्धम् = विनाशितम्, यस्य = सुतकाननस्य, आश्रयात् = सेवनात्, मही=पृथ्वी, शीतला=सुप्रसन्ना, आसीदिति शेषः । दुराचारिणां बकादीनां तेन विनाशादिति भावः । अत्र विषमालङ्कारः । शार्दूलविक्रीडितं छन्दः । वक्तव्यमिति—अस्य सम्भावना तु नास्त्येवेति भावः । अपर्याप्तमेवावलोक्य पान से ] मतवाले बलराम ने, जो सम्पूर्ण कौरव-कुल कमलिनी को ध्वस्त करने में मातङ्ग [ हाथी ] रूपी उसी भीम के आचार्य [ गुरु ] हैं, आपके पुत्ररूपी अरण्य को भस्म कर डाला ) जिस अरण्य के आश्रय से पृथ्वी शीतल थी [ अर्थात् बलराम ने आपके पुत्र भीम को मार डाला, जिसके कारण प्रजा अधिक सुखी थी ] ॥ २७ ॥ ( इस तरह विलाप करते हुए निकल पड़े ) युधिष्ठिर—जयन्धर, जयन्धर, ( प्रवेश करके ) कंचुकी—आज्ञा दीजिए महाराज ! युधिष्ठिर—कहने के लिए इच्छा हो रही है इसलिए कह रहा हूँ । हम लोगों के भाग्य में यह ना कहाँ बदा है। यदि कभी अनुज अर्जुन विजय प्राप्त कर लें तो उनको मेरी ओर से कहना—
३०० वेणीसंहारं नाटकं हली हेतुः सत्यं भवति मम वत्सस्य निधने तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः । अतः क्रोधः कार्यो न खलु मयि चेत्प्रेम भवतो वनं गच्छेर्मा गाः पुनरकरणां क्षात्रपदवीम् ॥ ८ ॥ कञ्चुकी—यदाज्ञापयति देवः । ( इति निष्क्रान्तः । ) गदायुद्धमर्जुनसुयोधनयोरागत इति राक्षसेनोक्तत्वाद्युद्धस्थानवसानादर्जुनस्यापि विजयः सम्भाव्यतेऽत आह—यदि कदाचिदिति । अन्वयः—मम, वत्सस्य, निधने, हली, सत्यम्, हेतुः, भवति, तथापि, एषः, ते, सहजसुहृदः मधुरिपोः, भ्राता, अतः, क्रोधः, न, खलु, कार्यः, भवतः, प्रेम, मयि; चेत्, ( तदा ) वनम्, गच्छेः, पुनः, अकरुणाम्, क्षात्रपदवीम् मा, गाः ॥ २८ ॥ जये सति वलभद्रे भीमविनाशजन्यक्रोधो न कर्तव्य इत्याह—हलीति । मम, वत्सस्य = भीमस्य, निधने = मरणे, हली = बलरामः, यद्यपि, सत्यम् = तथ्यम्, हेतुः = कारणम्, भवति = विद्यते तथापि = एवं सत्यपि, एषः = बलरामः, ते = तवार्जुनस्य, सहजसुहृदः = स्वाभाविकमित्रस्य, कृष्णार्जुनयोर्नरनारायणरुपत्वात्तयोः सनातनमित्रत्वमित्युक्तं सहजसुहृद इति । मधुरिपोः = कृष्णस्य एतेन कृष्णेऽधिक- बलवत्त्वमीश्वरत्वं वा बोधितम् । तथा च 'अहो दुरन्ता बलवद्विरोधिता' इति न्यायेन तस्य भ्रातुर्द्वेषायोग्यत्वं वा दर्शितम् । भ्राता = सहोदरः, अस्ति, अतः, क्रोधः—कोपः, न खलु = नैव, खलुशब्दोऽत्रिनिषेधद्योतनार्थम् । 'निषेधवाक्यालङ्कारे विलासानुनये खलु' इति कोशात्खलुशब्दस्य निषेधार्थकत्वेन अभावोभावस्य प्रतियोगिरूपत्वेन भीम- वधप्रतीकारार्थं बलरामे क्रोधः कार्यं एवेति व्याख्यानन्तु न युक्तम्, तथापीत्यादिग्रन्थ- विरोधात्, 'अथात आदेशो नेति' इत्यादौ तथानवगमाच्च । भवतः, मयि = युधिष्ठिरे, प्रेम = स्नेहः, चेत्, तदा, त्वमित्यस्याध्याहारः । त्वम्, वनम् = अरण्यम्, गच्छेः = व्रजेः, पुनः = भूयः, अकरुणाम् = दयाशून्याम्, क्षात्रपदवीम् = क्षत्रियमार्गः युद्धादि- कमित्यर्थः । मा = न, गाः = प्राप्स्यसि स्वीकरिष्यसीत्यर्थः । 'माङि लुङ्' इति माङ्योगे लुङ् । अत्र क्रोधाकरणे तृतीयचरणार्थो हेतुरिति हेतोर्वाक्यार्थत्वेन काव्य- लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ २८ ॥ सच ही मेरे वत्स ( भीम ) के संहार में हलधर ( बलराम ) कारण हैं। तो भी ये तुम्हारे स्वाभाविक मित्र मधुसूदन ( श्रीकृष्ण ) के भाई हैं। अतः यदि मुझ में तुम्हारा स्नेह हो तो ( इन पर ) क्रोध न करना। वन का आश्रय ले लेना, परन्तु निर्दयतापूर्ण क्षत्रियोचित मार्ग का अवलम्बन न करना ॥ १८ ॥ कंचुकी—महाराज की जो आज्ञा । ( चल पड़ता है )'
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०१ युधिष्ठिरः—( अग्निं दृष्ट्वा, सहर्षम् । ) कृष्णे, ननूद्भूतशिखाहस्ताहूतास्म- द्विधव्यसनिजनः समिद्धो भगवान्हुताशस्तत्रैन्धनीकरोम्यात्मानम् । द्रौपदी—पसीददु पसीददु महाराओ इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसाभि । ( प्रसीदतु प्रसीदतु महाराजोऽनेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि । ) युधिष्ठिरः—सहितावेवाभ्युदयमुपभोक्ष्यावहे । चेटी—हा भअवन्तो लोअवाला, परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहोखण्डवसंपिदहुदवहस्स किरि- डिणो जेट्ठो भा सुग्गहीहणामहेओ महाराअजुहिट्ठिरो । एसा वि पाञ्चाल- राअतणआ देवी वेदिमज्जसंभवा जणसेणी । दुवे वि णिक्करुणजलणस्स- प्पवेसेन इन्धणीहोन्ति । तापरित्ताअह अज्जा, परित्ताअह । कधं ण को वि परित्ताअदि । (तयोरग्रतः पतित्वा ।) किंन वसिदं देवीए देवेण अ । (हा भगवन्तो अग्निमिविति—चितास्थमिति भावः । उद्भूतशिखाहस्ताहूतास्मद्विधव्यसनिजनः= उद्भूता प्रकम्पिता चञ्चला वा या शिखा ज्वाला सैव हस्तः करः तेन आहूताः आकारिताः अस्मद्विधाः व्यसनिजनाः पीडितशक्तयः येन सः, 'हूतिराकारणाह्वानम्' इत्यमरः । हुताशनः = अग्निः, इन्धनीकरोमि = अनिन्धनम्, इन्धनं सम्पद्यते तत्क- रोमि 'कृभ्वस्तियोगे' इत्यादिना च्विप्रत्ययः । 'अस्य च्वौ' इतीत्वं च्वेलोपः । अपश्चिमेन = अनन्त्येन अग्रतः = अग्रे, भवतः पूर्वमित्यर्थः । अभ्युदयं = प्रियप्राप्तिरूपोत्सवम् । युधिष्ठिर—(अग्नि को देखकर प्रसन्नता के साथ) कृष्णे ! अपने अखण्ड ज्वाला रूप हाथ से हम लोगों जैसे दुखियों का आह्वान करते हुए भगवान् अग्निदेव प्रदीप्त हो रहे हैं । मैं उनमें अपने को ईंधन की तरह झोंक दूँगा । द्रौपदी—प्रसन्न हों प्रसन्न हों महाराज ! अपनी इस प्राथमिक अभ्यर्थना से मैं सर्व- प्रथम अपने को आहुति करूँगी । युधिष्ठिर—यदि इसी तरह की समस्या है तो हम दोनों एक ही साथ अभ्युदय का उपयोग करें । अर्थात् जलकर इस दुःख से मुक्त हो जाँय । चेटी—हाय लोकपालों ! आपलोग रक्षा कीजिए, रक्षा कीजिए । यह चन्द्रवंश के राजर्षि राजसूययज्ञ के विधान से अग्निदेव को तृप्त करने वाले, खाण्डववन के दहनकर्त्ता अर्जुन के ज्येष्ठ भ्राता हैं । इनका शुभ नाम युधिष्ठिर है । पाञ्चाल नरेश की पुत्री
३०२ वेणीसंहारं नाटकं लोकपालाः, परित्रायध्वं परित्रायध्वम् । एष खलु सोमवंशराजर्षी राजसूयसन्तर्पित- हव्यवाहः खाण्डवसन्तर्पितहुतवहस्य किरीटिनो ज्येष्ठो भ्रातासुगृहीतनामधेयो महाराज- युधिष्ठिरः । एषापि पाञ्चालराजतनया देवी वेदिमध्यसम्भवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः । तत्परित्रायध्वमार्याः, परित्रायध्वम् । कथं न कोऽपि परित्रायते । किं व्यवसितं देव्या देवेन च । ) युधिष्ठिरः—अयि बुद्धिमत्तिके, यन्नाथेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ, भद्रे उदकमुपानय ।- ( चेटी तथा करोति । ) युधिष्ठिरः—( पादौ प्रक्षाल्योपस्पृश्य च । ) एष तावत्सलिलाञ्जलिर्गाङ्गे- परित्रायध्वम् = रक्षत, राजसूयसन्तर्पितहव्यवाहः = राजसूयेन क्षत्रियकर्तृकयज्ञ- विशेषेण सन्तर्पितः सन्तोषतः हव्यवाहः अग्निः येन सः न केवलमयमेवाग्नेः सन्तर्प- यिता किन्त्वस्य भ्रातापीत्याह—खाण्डवेति । खाण्डवसन्तर्पितहुतवहस्य = खाण्डवेन एतन्नामकवनविशेषेण सन्तर्पितः हुतवहः अग्निः येन तस्य, वेदिमध्यसम्भवा = वेदिः, यज्ञे परिष्कृता भूमिः तस्या मध्ये सम्भवति उत्पद्यते या सा, याज्ञसेनी । द्वौ = द्रौपदीयुधिष्ठिरौ प्रवेशेनेति । इन्धनीभवत इत्यनेनान्वेति । व्यवसितम् = आचरितम् । किं व्यवसितमित्यस्योत्तरमाह = अयीति । नाथेनेति—तस्य द्रौपद्या इत्यादि, नाथेन = स्वामिना भीमेन, प्रियानुजेनेति—अस्य ममेत्यादिः, सदृशं = युक्तम्, भीमं विना यदुचितं तदेवाचरितमित्यर्थः । उपानय = समीपमानय । पादौ = चरणौ, प्रक्षाल्य = जलेन संशोध्य, उपस्पृश्य = आचम्य, जलाञ्जलिमेवं यज्ञीयवेदिका के मध्य से जन्मधारण करने वाली महारानी याज्ञसेनी (द्रौपदी) हैं । ये दोनों निष्ठुर अग्नि में प्रवेश करके अपने को इन्धन (जलाने का काष्ठ) बना रहे हैं। अतः श्रीमन् लोग इन लोगों की रक्षा कीजिए, रक्षा कीजिए। क्यों कोई इनकी रक्षा नहीं कर रहा है ? महाराज और महारानी ने यह क्या करने की मन में ठानी है ? युधिष्ठिर—अरी बुद्धिमत्तिके, अपने अभीष्ट तथा प्रिय कनिष्ठ भ्राता की अनुपस्थिति में जो कुछ करना चाहिये वही करने के लिए मन में ठाना गया है ? उठो, उठो अरी भद्रे ! जल लाओ । ( चेटी जल लाती है ) युधिष्ठिर—(पैर धोकर तथा आचमन करके) सबसे पहले यह जल पूर्ण अञ्जलि गङ्गा के पुत्र पूज्य प्रपितामह (परदादा) शान्तनु के आत्मज भीष्म के लिये है। यह दूसरी
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०३ याय भीष्माय गुरवे प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचि- त्रवीर्याय । ( साश्रम् ) तातस्याधुनावसरः । अयं तावत्स्वर्गस्थिताय सुगृही- तनाम्ने पित्रै पाण्डवे । अद्यप्रभृति वां दत्तमस्मत्तो दुर्लभं पुनः । तात ! त्वयाऽम्बया सार्धं मया दत्तं निपीयताम् ॥ २९ ॥ एतज्जलं जलजनीलविलोचनाय भीमाय भोस्तव ममाप्यविभक्तमस्तु । ददाति—एप इति । गाङ्गेयाय=गङ्गापुत्राय 'शुभ्रादिभ्यश्चे'ति ढक्प्रत्ययः । 'आय नेयीति' एयादेश । शन्तनो राज्ञः प्राक् परिणीता स्त्री गङ्गाऽऽसीत् । तातः = पितः ? भवते = पूज्याय, सुगृहीतनाम्ने = सुगृहीतं प्रातः स्मरणीयं नाम यस्य, तस्मै । अन्वयः—( हे ) तात ! वाम् दत्तम्, पुनः, अद्य, प्रभृति, अस्मत्तः दुर्लभम्, अम्बया, सार्धम् त्वया, एतद्, दत्तम् ( जलम् ) निपीयताम् ॥ २९ ॥ ( हे ) तात = पितः ! वाम्=युवाभ्याम्, दत्तम् जलमिति शेषः ( 'वारीदमि'ति पाठे—इदम्, वारि ) पुनः. अद्य प्रभृति=अद्यारभ्य, अस्मत्तः = अस्मत्, 'पञ्चम्यास्त सिल्' इति तसिल् । दुर्लभम् = दुष्प्राप्यम्, अतः अम्बया = विमात्रा माद्र्या सार्द्धम्, त्वया = पित्रा, एतत्, क्वचिन्मयेति पाठः । दत्तम् जलमिति शेषः । निपीयताम् = पीयताम् । अत्र पाने प्रति पूर्वार्द्धवाक्यार्थो हेतुरिति काव्यलिङ्गमलङ्कारः । पथ्या वक्त्रं छन्दः ॥ २९ ॥ अन्वयः—जलजनीलविलोचनाय, भीमाय, ( दत्तम् ) एतत्, जलम्, भोः, वत्स, तव, मम, अपि, अविभक्तम्, अस्तु तु, पिपासितः, ( त्वम् ) एकम्, क्षणम्, विरम् त्वया, सह, पातुम्, अयम् ( अहम् ), जवात्, आगतः, अस्मि ॥ ३० ॥ मयैवसार्द्धं त्वया जलं पेयमहर्माप भस्मीभूत्वाऽगत एवेत्याह = एतदिति । जलज नीलविलोचनाय = जलजं कमलं तद्वन्नीले विलोचने नेत्रे यस्य तस्मै, भीमाय, दत्तमिति शेषः । एतत्, जलम्, भोः वत्स ! तव = भीमस्य, मम, अपि, अविभक्तम्= जलाञ्जलि पितामह विचित्रवीर्य के लिए है । ( अश्रुकलुषत नेत्रों से ) अब पिता की वारी है । यह सलिलाञ्जलि स्वर्गवासी आदरणीय पिता पाण्डु के लिए हैं । आज से यह जल हमलोगों से मिलना दुर्लभ हो जायगा, पिताजी ! माता माद्री के साथ मेरे दिये हुए जल को पी लीजिये ॥ २९ ॥ यह तोयाञ्जलि ( जलाञ्जलि ) अविभक्त ( बिना बाँटी हुई ) रूप से कमल के सदृश नील नेत्रशाली भीमसेन के लिए भी है । वत्स ! तुम तृषार्त हो तो भी
३०४ वेणीसंहारं नाटकं
एकं क्षणं.विरम वत्स पिपासितोऽपि
पातुं त्वया सह जवाद्यमागतोऽस्मि ॥ ३० ॥
अथवा सुक्षत्रियाणां गतिमुपगतं वत्समहमुपगतोऽप्यकृती द्रष्टुम् । वत्स
भीमसेन,
मया पीतं पीतं तदनु भवताम्बास्तनयुगं
यदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया ।
----------------------------------------------------------------
सम्मिलितम्, अस्तु=तिष्ठतु, पिपासितः = तृषितः, अपि, त्वम्, एकम्, क्षणम् =
मुहूर्तम्, विरम = तिष्ठ विलम्बं कुर्वित्यर्थः । त्वया, सह=साकम्, पातुम्, अयम् =
युधिष्ठिरः, ( अहम् ) जवात् = वेगात्, आगतः, कर्तरि क्तप्रत्ययः । अस्मि । वसन्त-
तिलका छन्दः ॥ ३० ॥
सुक्षत्रियाणाम्=वीराणाम्, गतिम् = स्वर्गरूपाम्, उपगतम् = प्राप्तम्, वत्सम्=
भीमम् द्रष्टुम् = विलोकितुम्, अहम् मृतः, अपि अकृतो = अकुशलः, असमर्थ इत्यर्थं
इत्यन्वयः । अस्माकमात्मघातेन वीरगतेरभावादिति भावः ।
अन्वयः—अम्बास्तनयुगम्, मया, पीतम्, तदनु, भवता, पीतम् वत्सलतया
मदुच्छिष्टैः रसैः, वृत्तिम्, जनयसि, तव, मम, वितानेषु, सोमे, च, एवम्, विधिः,
अभूत्, अधुना, कथम्, एवम्, निवापाम्भः, पूर्वम्, त्वम्, पिबसि ॥ ३१ ॥
मयेति । अम्बास्तनयुगम् = मातृस्तनद्वयम्, मया=युधिष्ठिरेण, पीतम्,
तदनुः = तत्पश्चात्, भवता = भीमेन, पीतम्, वत्सलतया = स्नेहेन, मदुच्छिष्टैः =
मद्भोजनावशिष्टैः, रसैः = दुग्धादिभिः, वृत्तिम् = जीविकाम्, जनयसि = अजनयः,
एक क्षण के लिए प्रतीक्षा करो तुम्हारे साथ पान करने के लिए अत्यन्त द्रुत गति से मैं आ ही
रहा हूँ ॥ ३० ॥
अथवा वीरसुलभ गति को प्राप्त वत्स भीमसेन के समीप पहुंच कर भी उनके दर्शन से
वञ्चित हो रह जाऊँगा (तात्पर्य यह है कि क्षत्रिय लोग जो युद्ध में प्राण परित्याग करते हैं
उन्हें स्वर्ग होता है और जो आत्महत्या करते हैं वे स्वर्ग के भागी नही होते इसलिए भीम
की गति को तो युधिष्ठिर पा नहीं सकते थे । अतएव उनका भी दर्शन होना उन (युधिष्ठिर)
के लिए कठिन ही था ।
प्रिय भ्रात भीमसेन !
माता के स्तनद्वय का मेरे द्वारा पान कर लेने पर आपने उसका पान किया था ? आप
मेरे जूठे फल-रसादिक (खाद्य तथा पेय पदार्थ) के द्वारा अत्यन्त चाव से अपनी प्राणयात्रा
करते थे । यज्ञों के प्रकरण में सोमरस का पान करने के लिए भी मेरा और आपका
यही नियम था (अर्थात् पहले युधिष्ठिर पी लेते थे तो फिर भीम पान करते थे] फिर
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०५ वितानेष्वप्येवं तव मम च सोमे विधिरभू- न्निवापाम्भः पूर्वं पिवसि कथमेवं त्वमधुना ॥ ३१ ॥ कृष्णे, त्वमपि देहि सलिलाञ्जलिम् । द्रौपदी -हञ्जे बुद्धिमदिए, उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमत्तिके, उपनय मे सलिलम् । ) ( चेटी तथा करोति ) द्रौपदी - ( उपसृत्य जलाञ्जलि पूरयित्वा । ) महाराज, कस्स सलिलं देम्हि । ( महाराज, कस्य सलिलं ददामि । ) युधिष्ठिरः- तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् । वर्तमानसामीप्ये लट् । वितानेषु = 'ऋतुविस्तारयोःस्त्री' इत्यमरः । सोमे = सोमयागे, सोमरसपाने वा, एवम् = मम पश्चात् विधिः=क्रिया, अभूत्, सर्वं कार्यं त्वया मत्प- श्चादेव सम्पादितमिति भावः । अधुना, कथम् एवम् = वैपरीत्येन, निवापाम्भः= मृताय देयं जलम्, पूर्वम्=मत्तः प्राक्, त्वम्, पिवसि । साम्प्रतं कथं विपरीतमाचरित- मिति भावः। मन्मरणानन्तरं तव मरणं समुचितमिति गूढाभिप्रायः । अत्र काव्य- लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ ३१ ॥ सलिलाञ्जलिम् = जलाञ्जलिम् । कस्येति-सम्बन्धविवक्षया षष्ठी । अथवा व्याकुलीभूता द्रौपदी कस्मै इत्यस्य स्थाने कस्येति प्रयुक्तम् । अन्वयः-दिवम्, सहसा, गच्छते, तस्मै, पूर्वम्, जलम्, देहि, येन, रुदितेन, अपि, गान्धार्या, समीकृत । यदर्थं साम्प्रतं जलदानस्यावश्यकता पूर्वं तस्मै देहीत्याह-तस्मा इति । दिवम् = स्वर्गम्, सहसा=सपदि, गच्छते, शतृप्रत्ययान्तस्य ङयि रूपमिदम् । तस्मै = भीमाय, अब इस तिलजल को इस प्रकार मुझ से प्रथम क्यों पान कर रहे हो ? ॥ ३१ ॥ कृष्णे [ द्रौपदि ] ? तुम भी सलिलाञ्जलि प्रदान करो । द्रौपदी -अरी बुद्धिमत्तिके, मुझे जल ला दे । ( चेटी जल लाकर देती है ) द्रौपदी - ( समीप आकर जल से अञ्जलि भरकर ) महाराज, किसे जलप्रदान करूँ ? युधिष्ठिर - ऐ कृष्णे, अकस्मात् स्वर्ग में जाने वाले उसे (भीम को) जल दो जिसने माताजी को रुदन २० वे०
३०६ वेणीसंहारं नाटकं अम्बयापि येन गान्धार्या रुदितेन समीकृता ॥ ३२ ॥ द्रौपदी—णाह भीमसेण, परिअणोसवणीदं उदअं सग्गगदस्स दे पादो- दअं भेदु । ( नाथ भीमसेन, परिजनोपनीतम उदकं स्वर्गगतस्य ते पादोदकं भवतु । ) युधिष्ठिरः—फाल्गुनाग्रज, असमाप्तप्रतिज्ञेऽपि याते त्वयि महाभुजे । मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ ३३ ॥ द्रौपदी—उट्ठेहि महाराज, दूरं गच्छदि दे भादा । ( उत्तिष्ठ महाराज, दूरं गच्छति ते भ्राता । ) युधिष्ठिरः—( दक्षिणाक्षिस्पन्दनं सूचयित्वा । ) पाञ्चालि, निमित्तानि मे पूर्वम्, जलम्, देहि, येन = भीमेन, रुदितेन = रोदनेन । भावे क्तप्रत्ययः । अम्बा = कुन्ती, अपि, गान्धार्या, समीकृता = तुल्यीकृता । यः कुन्तीमप्यरोदयत्तस्मै भीमायं जलं देहीति भावः पथ्यावक्त्रं छन्दः ॥ ३२ ॥ —परिजनोपनीतम् = सेविकया दत्तम्, पादोदकम् = पादप्रक्षालनार्थं जलम् । फाल्गुनाग्रज = अर्जुनश्रेष्ठ ! अन्वयः—असमाप्तप्रतिज्ञे, अपि, महाभुजे, त्वयि, याते ( सति ) प्रियया, मुक्त- केश्या, एव, ते, सलिलाञ्जलिः, दत्तः ॥ ३३ । असमाप्तेति । असमाप्तप्रतिज्ञे = अपूर्णप्रतिज्ञे अपि, महाभुजे=बलवति, त्वयि = भीमे, याते = गते, स्वर्गमिति शेषः । सति, प्रियया = स्त्रिया मुक्तकेश्या = अबद्ध- केश्या । स्वाङ्गाच्चोपसर्जनादिति डोष् । एव, ते = तुभ्यम्' सलिलाञ्जलिः = उदका- ञ्जलिः, दत्तः = समर्पितः । पथ्यावक्त्रं छन्दः ॥ ३३ ॥ दक्षिणाक्षिस्पन्दनम् = दक्षिणनेत्रसञ्चलनम् ( फडकन ) इति प्रसिद्धोऽर्थः । पुरु- में गान्धारी माता के समान बना दिया है [ अर्थात् वे अपने सौ पुत्रों को मृत्यु होने पर रोदन कर रही हैं और अब भीम के मृत्योपरान्त माता कुन्ती भी रो रही हैं अतः रोने में दोनों में समानता हो गई है । द्रौपदी—नाथ भीमसेन ! दासी के द्वारा दिया हुआ यह जल आपके पादप्रक्षालन के लिए हो । युधिष्ठिर—ऐ अर्जुन के ज्येष्ठ भ्राता ! प्रतिज्ञा की पूर्ति किए बिना आप जैसे शूरवीर के प्रस्थान कर जाने पर आपकी प्रियतमा केशपाश बाँधे बिना ही जलाञ्जलि दे रही हैं ॥ ३३ ॥ द्रौपदी—उठिए महाराज ! आपके भ्राता दूर चले जा रहे हैं । युधिष्ठिर—( दाहिने नेत्र के फड़कने की सूचना देते हुए ) पाञ्चालनरेशपुत्रि ! शुभ- शकुनों से पता चलता है कि भीमसेन मिलेंगे ।
कथयन्ति सम्भावयिष्यसि वृकोदरमिति, भवतु शीघ्रं दहनमुपसर्पावः । द्रौपदी—महाराज, सुणिमित्तं भोदु । ( महाराज ! सुनिमित्तं भवतु । ) ( नेपथ्ये कलकलः । ) ( प्रविश्य सम्भ्रान्तः । ) कञ्चुकी—परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुच्छ्रितदिग्धभीषणगदा- शनिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते । युधिष्ठिरः--हा दैव, तेन निर्णयो जातः ! हा गाण्डीवधन्वन्,
पाणां दक्षिणनेत्रस्पन्दनं शुभकरमिति भावः । सम्भावयिष्यसि = प्राप्स्यसि । स्वर्गं गतं स्वर्गे प्राप्स्यामीत्यवगत्याह = भवत्विति । अत्रैव प्राप्तिसूचकं नेत्रस्पन्दनं तत्र प्राप्तिसूचकमित्यवगतं युधिष्ठिरेणेति भावः । दहनम् = अग्निम् । उपसर्पावः = गच्छावः । सम्भ्रान्तः = उद्विग्नः । कौरवापसदः = कौरवेषु अपसदः अधमः । क्षतजाभिषेकपाटलिताम्बरशरीरः-- क्षतजस्य रुधिरस्य अभिषेकेण सेचनेन पाटलिते ईषद्रक्तीकृते अम्बरशरीरे येन सः, रक्तभीषणगदाशनिः = रक्तेन रुधिरेण भीषणा भयजनिका या गदा सा अशनिः वज्रं इव यस्य सः, अतः एव उद्यतकालदण्डः = उत्थापितयमलगुडः, कृतान्तः = यमः, अत्रभवतीम् = पूज्याम्, परिमार्गमाणः = गवेषयन् । दैव = विधे, तेन दुर्योधनागमनेन, निर्णयः = भीमार्जुनवधस्य निश्चयः नायं भीमार्जुनौ अविजित्यागन्तुं शक्नोतीति भावः ।
द्रौपदी—महाराज ! शुभ शकुन हो । ( नेपथ्य में कलकल ध्वनि ) ( प्रवेश करके उद्विग्न होते हुए ) कंचुकी—रक्षा कीजिए, रक्षा कीजिए महाराज ! यह दुरात्मा कौरवाधम, जिसके वस्त्र और शरीर रुधिर से सराबोर होकर लोहितवर्ण हो गए हैं, रक्तरञ्जित भीषण शक्तिवाली गदा को कालदण्ड के समान ऊपर को उठाए हुए साक्षात् काल के समान यहाँ श्रीमती पाञ्चालराज की दुहिता का अन्वेषण करता हुआ इसी ओर आ रहा है । युधिष्ठिर—हाय भाग्य ! इससे निर्णय हो गया ( अर्जुन भी मृत्यु को प्राप्त हो गये )। हाय गाण्डीवधारी !
३०८ | वेणीसंहारं नाटकं
- (इति मुह्यति ।) द्रौपदी- हा अज्जउत्त, हा मम सअम्वरसङ्गाहकुडुम्ब पिअं भादुअं अणुगदोसि । ण उण महाराअं ईमं दासजणं अ । ( इति मोहमुपगता ) ( हा आर्यपुत्र, हा मम स्वयंवरसंग्राहकुटुम्ब, प्रियं भ्रातरमनुगतोऽसि । पुनर्महारा- जमिमं दासजनं च । ) युधिष्ठिरः-हा वत्स सव्यसाचिन्, हा असदृशमल्ल, हा निवातक- वचोद्धरणनिष्कण्टकीकृतामरलोक, हा बदर्याश्रममुनिद्वितीयतापस, हा द्रोणाचार्यप्रियशिष्य, हा अस्त्रशिक्षावलपरितोषितगाङ्गेय, हा राधेयकुल- कमलिनीप्रालेयवर्ष, हा गन्धर्वनिर्वासितदुर्योधन, हा पाण्डवकुलकमलिनी- राजहंस, मुह्यति = अचेतन्यं प्राप्नोति , मम = द्रौपद्याः स्वयंवरसंग्राहकुटुम्ब = स्वयंवरे संग्रहः संग्रहणं स्वीकार इत्यर्थः, तेन कुटुम्बः पोषकः तत्सम्बोधने । सम्भावयसि = सम्मानयसि, दासजनम् = मां द्रौपदीम् असदृशमल्ल = अनुपमेयवलिष्ठ, निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक = निवातकवचस्य एतन्नामकदैत्यस्य उद्धरणेन निष्कण्टकीकृतः अमरलोकः स्वर्गः येन तत्सम्बोधने । निवातकवचासुरवधकथा महाभारते वर्णिताऽस्ति । बदर्याश्रममुनि- द्वितीयतापस = बदर्याश्रमे बदरिकाश्रमे यौ मुनी नरनारायणौ तयोर्द्वितीयः नररूपः स चासौ तापसः तत्सम्बोधने, अर्जुनो नरावतार आसीदिति भावः । अस्त्र- शिक्षावलपरितोषितगाङ्गेय = अस्त्रशिक्षाबलेन अस्त्रशिक्षया बलेन चेति वा परितो- षितः गाङ्गेयः भीष्मो येन तत्सम्बोधने, गन्धर्वनिर्वासितदुर्योधन = गन्धर्वग्रहणाद् (मूर्च्छित हो जाते हैं) द्रौपदी-हाय आर्यपुत्र । हाय ! स्वयंवर में मुझे स्वयं अपने पराक्रम से ग्रहण करने वाले ! प्रियभ्राता के पीछे ही पीछे चले गए, किन्तु महाराज के अथवा इस दासी के पश्चात् नहीं गए ? ( चेतना विहीन हो जाती है ) युधिष्ठिर-हाय अनुज सव्यसाचिन् ! हाय अनुपम योद्धा ! हाय निवातकवच नामके राक्षस का वध करके स्वर्ग को निष्कण्टक बना देने वाले ! हाय बदरिकाश्रम के द्वितीय तपस्विन् ! हाय द्रोणाचार्य के प्रिय शिष्य ! हाय अस्त्र-शिक्षा और बल से भीष्म को सन्तुष्ट करने वाले ! हाय कर्ण-कुल-कमलिनी के लिए हिमपात सदृश ! हाय गन्धर्वों से दुर्योधन को मुक्त कराने वाले ! हाय पाण्डव-वंश कमल के बीच विहरण करनेवाले राजहंस !
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०९ तां वत्सलामनभिवाद्य विनीतमम्बां गाढं च मामनुपगुह्य मयाऽप्यनुक्तः । एतां स्वयंवरवधूं दयितामदृष्ट्वा दीर्घप्रवासमयि तात कथं गतोऽसि ॥ ३४ ॥ ( मोहमुपगतः । ) कञ्चुकी—( चेटीं प्रति । ) इदानीं भोः कष्टम् । एष कौरवाधमो यथेष्ट- मिहैव प्रवर्तते । सर्वथा प्रवेशकालः चितासमीपमुपनयाम्यत्रभवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि । भद्रे, त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वाऽवाप्नुहि । एवमवस्थिते महाराजेऽस्तमितयोर्भी- मार्जुनयोः कुतोऽत्र परित्राणाशा । निर्वासितो मोचितो दुर्योधनो येनेत्यर्थः । वने निवसता अर्जुनेन गन्धर्वराजगृहीतो दुर्योधनो युधिष्ठिराज्ञया मोचितः, इति महाभारतीया कथानुसन्धेया । अन्वयः—अयि, तात ! वत्सलाम् ताम्, अम्वाम्, विनीतम् ( यथा स्यादेवम् ) अनभिवाद्य, माम्, गाढम्, अनुपगुह्य, मया अपि, अनुक्तः, एताम् स्वयंम्वरवधूम, अदृष्ट्वा, च, दीर्घप्रवासम्, गतः असि ॥ ३४ ॥ अस्मान् विहाय कथं गत इत्याह—तामिति । अयि, तात !=अर्जुन ! ताम्= पूज्याम्, वत्सलाम्=स्नेहवतीम्, अम्वाम्=मातरम्, विनीतम्=सनम्रं, यथा स्यादेवम्, अनभिवाद्य=नामोच्चारणपूर्वकम्प्रणम्य, माम्, गाढम्=भृशम्, अनुपगुह्य= अनालिङ्ग्य, एताम्, स्वयंवरवधूम् = स्वयं वृणीत इति स्वयंवरा सा चासौ वधूः ताम्, अदृष्ट्वा मया, अपि, अनुक्तः=अननुज्ञातः, दीर्घप्रवासम्=दीर्घकालिकयात्राम्, मरणमित्यर्थः कथम्, गत=प्राप्तः, असि । वसन्ततिलका छन्दः ॥ ३४ ॥ अस्तम = विनाशम्, इतयोः = प्राप्तयोः, परित्राणम् = रक्षा । उस पुत्र-स्नेहवती माता को नम्रतापूर्वक प्रणाम किए बिना ही, भ्रातृवत्सल मुझे आलि- ङ्गित किए बिना ही तथा मेरी आज्ञा लिए बिना और स्वयंम्बर में लाई गई प्राणवल्लभा इस वधू से बिना पूछे दीर्घयात्रा को चले गये हो [ मृत्यु को प्राप्त हुए हो ] ॥ ३४ ॥ कंचुकी—( चेटी से ) अरे इस समय महान् कष्ट ? यह कौरवनीच अबाधगति से यहाँ ही चला आ रहा है । प्रत्येक दशा में चिताप्रवेश का ही समय है ! अब श्रीमती पाञ्चालराजपुत्री को चिता के समीप ले चलता हूँ इसी तरह मैं भी पहुँच जाता हूँ । भद्रे !
३१० वेणीसंहारं नाटकं चेटी—परित्ताअह परित्ताअह अज्जा । ( परित्रायध्वं परित्रायध्वमार्याः । ) ( नेपथ्ये कलकलानन्तरम् । ) भोः भोः समन्तपञ्चकसञ्चारिणः क्षतजास्वादमत्तयक्षराक्षसपिशाच- भूतवेतालकङ्कगृध्रजम्बूकवायसभूयिष्ठा अवशिष्टविरलाश्च योधाः, कृतम- स्मद्दर्शनसंत्रासेन । कथयत भवन्तः कस्मिन्नुद्देशे याज्ञसेनी सन्निहितेति । कथयामि लक्षणं तस्याः— ऊरू करेण परिघट्टयतः सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या । क्षतजेति—क्षतजस्य शोणितस्य आस्वादेन मत्ता ये यक्षादयः [ कङ्कः लोहपृष्ठः 'कलहङ्ग' इति ख्यातः, जम्बूकः शृगालः, वायसः काकः ] ते भूयिष्ठाः बहुला यत्र ते, अवशिष्टा अत एव विरलाः = अल्पाः, योधाः = युध्यन्त इति योधाः भटाः, पचादि- त्वादप्रत्ययः । मद्दर्शनसन्द्रासेन = मद्विलोकनजन्यभयेन, कृतम् = व्यर्थम् उद्देशे = स्थाने, सन्निहिता = समीपस्था, उपविष्टेत्यर्थः । लक्षणम् = स्वरूपम् । अन्वयः—करेण, ऊरू, सलीलम्, परिघट्टयतः दुर्योधनस्य, पुरतः, या, अप- हृताम्बरा, दुःशासनस्य, करकर्षणभिन्नमौलिः, सा, पुनः, क्व, प्रदेशे, वर्तते ( इति ) कथय ॥ ३५ ॥ लक्षणमेवाह—ऊरू करेणेति । करेण = हस्तेन, ऊरू = सक्थिनी, सलीलम् = सकौ- तुकम्, परिघट्टयतः = परिमर्द्दतः 'मदीयं वोरुपरि उपविशेति बोधयत इत्यर्थः । दुर्योधनस्य, पुरतः = अग्रे, या अपहृताम्बरा = अपहृतम् आकृष्टम् अम्बरं यस्याः सा, दुःशासनस्य, करकर्षणभिन्नमौलिः = करेण यत्कर्षणम् आकर्षणम् तेन भिन्नः विदीर्णः तू भी महारानी के भ्राता [ धृष्टद्युम्न ] अथवा नकुल और सहदेव के समीप चला जाना । [ क्योंकि ] महाराज [ युधिष्ठिर ] का ऐसी अवस्था में और भीमार्जुन के स्वर्ग चले जाने पर यहाँ हम लोगों की रक्षा के लिये क्या आशा ? चेटी—रक्षा कीजिए, रक्षा कीजिए आर्यो । ( नेपथ्य में कोलाहल के अनन्तर ) अरे अरे ! समन्तपञ्चक के चारो ओर से भ्रमण करनेवाले क्षत-विक्षत अङ्गों से निकले हुए रुधिर के आस्वाद से उन्मत्त यक्ष, राक्षस, पिशाच, भूत वेताल, कङ्क, गीध, शृगाल और कौवों से अधिक संख्या वाले कतिपय अवशिष्ट योद्धाओ ! मुझे देखकर आप लोगों के डरने की कोई आवश्यकता नहीं । आप लोग यह कहिए, कि द्रौपदी किस स्थान में वर्तमान है ? उनके लक्षणों को मैं बता दे रहा हूँ । 'बड़े हाव-भाव के साथ हाथ से जाँघों को ठोंकते हुए दुर्योधन के नेत्रों के सामने
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश द्वयोपेतम् ३११ दुःशासनस्य करकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥ ३५ ॥ कञ्चुकी-हा देवि यज्ञवेदिसम्भवे, परिभूयसे सम्प्रत्यनाथा कुरुकुल- कलङ्केन । युधिष्ठिरः- (सहसोत्थाय ।) पाञ्चालि, न भेतव्यम् । न भेतव्यम् । ( ससंभ्रमम् ।) कः कोऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन् दुर्द्यो- धनहतक, आगच्छागच्छ । अपनयामि ते गदाकौशलसम्भृतं भुजदर्पं शिली- मुखासारेण । अन्यच्च रे कुरुकुलाङ्गार, प्रियमनुजमपश्यंस्तं जरासन्धशत्रुं कुपितहरकिरातद्वेषिणं तं च वत्सम् । मौलिः चूडा यस्याः सा, 'मौलिः किराटे धम्मिल्ले चूडायाम्' इति मेदिनी । पुनः, क्व = कस्मिन्, प्रदेशे = स्थाने, वर्तते, कथय, पश्य मृगो धावती'त्यादिवत्कथयेत्यस्य पूर्वं वाक्यं कर्म । वसन्ततिलका छन्दः ॥ ३५ ॥ यज्ञवेदिसम्भवे = द्रौपदि, कुरुकुलकलङ्केन = कौरववंशलाञ्छनभूतदुर्योधनेन, सम्प्रति, अनाथा = अस्स्वामिनी । परिभूयसे = तिरस्क्रियसे । सहसा = झटिति, न भेतव्यमिति । दुर्योधनादिति शेष । सज्यम् = समौर्वीकम्, धनुः = चापम्, उपनय = आनय, अपनयामि = दूरीकरोमि, गदाकौशलसम्भृतम् = गदा- कौशलेन सम्भृतम्, उत्पन्नम्, शिलीमुखासारेण = बाणधारया । अन्वयः - प्रियम, अनुजम् जरासन्धशत्रुम्, तम्, कुपितहरकिरातद्वेषिणम्, वत्सम्, तम् च, अपश्यन्, कठिनचेताः, त्वम्, इव, प्राणितुम्, न, शक्तः, ( परम् ) बाणवर्षैः तव, असून्, अपहर्तुम्, न च, शक्तः ॥ ३६ ॥ तव प्राणान् हृत्वाैव स्वयं मरिष्यामीत्याह - प्रियमिति । प्रियम् = स्निग्धम्, दुःशासन के द्वारा जिसका वस्त्र खींचा गया था तथा केशों के आकृष्ट करने से जिसकी वेणी खुल गई थी, वह द्रौपदी बतलाइए किस स्थान में है ?' ॥ ३५ ॥ कंचुकी-हाय यज्ञवेदी से उत्पन्न महारानी ! आप [ अब ] असहाय होकर कौरव कुलाङ्गार से अपमानित होंगी । युधिष्ठिर - पाञ्चालि ! डरिए मत, डरिए मत । ( उद्विग्नतापूर्वक ) कौन हैं यहाँ कोई है ? तूणीर के साथ मेरा धनुष लाओ । दुष्ट दुर्योधन ! आओ, आओ, बाणवर्षा से तुम्हारे अभिमान को, जो गदायुद्ध की कला में एकत्रित किया गया है, चूर-चूर कर देता हूँ । और भी अरे कुरुकुलङ्क ! हम जरासन्ध के शत्रु, प्रिय लघु भ्राता ( भीमसेन ) और किरातरूपधारी क्रुद्ध शंकर