वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 307, कुल 355 में से
संदर्भ में पढ़ेंभ्रातृप्रियेण कृतमद्य यदर्जुनेन. श्रेयो ममापि हि तदेव कृतं जयेन ॥ २१ ॥ राक्षसः - ( सविषादमात्मगतम् ।) कथं गच्छति भवत्वेवं तावत् ( प्रका- शम् ) राजन्, रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् । कञ्चुकी - धिङ्मुने, राक्षससदृशं हृदयं भवतः । राक्षसः - ( सभयं स्वगतम् ।) किं ज्ञातोऽहमनेन । ( प्रकाशम् । ) भो कञ्चुकिन्, तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च क्रियाविशेषणत्वप्रदर्शनेन वा व्याख्याने न युक्तं पूर्वत्र, अध्याहारेऽप्रयोजनत्वात् उत्त- रत्र स्ववचोव्याघातात् । यद्यप्येकदेशान्वय गौरबमभ्युपेत्य कर्मणीत्यस्य क्रियाया- मित्यर्थकरणेन समन्वितुं शक्यते तथा कृधात्वर्थक्रियायामन्वस्य नाटककृतामनभि- प्रेतत्वात् । मदीयव्याख्याने तु गदायुद्धं धनुर्युद्धस्यायुक्तत्वेन अलमथवा धनुरुपेत्यतीव सङ्गतं भवतीति । संयति = संग्रामे, भ्रातृप्रियेण = भ्राता प्रियो यस्य तेन, अर्जुनेन, यत् = कार्यम्, कृतम् = विहितम्, मम = युधिष्ठिरस्य, अपि, तत् = धनुस्त्यागेन गदया युद्धम् अथवा तदनन्तरं मरणम्, श्रेयः = श्रेष्ठं, हि = यत , जयेन = विजयेन, कृतं = व्यर्थं, भ्रातरं विना जयस्यापि निष्फलत्वादिति भावः । अत्र करणंप्रति हेतोर्भ्रातृ- प्रियेणेति पदगतत्वेन काव्यलिङ्गमलङ्कारः । वसन्ततिलका छन्दः ॥ २१ ॥ सविषादमिति - विषादं प्रति हेतुर्यद्ययं तत्र गच्छेत्तदा भीमस्य दर्शनसम्भ्रा- याया ज्ञातत्वादस्य दुर्योधनप्रियं मरणं न स्यादिति । गच्छतीति, समरस्थानमिति शेषः । पुनश्छलनार्थमाह - राजन्निति । रिपुजयविमुखं = शत्रुजयपराङ्मुखं, चेतः = मनः, यत्र तत्रेति-कुत्रापि स्थाने इत्यर्थः, युद्धस्थाने गमनं वृथेति भावः । राक्षससदृशं = क्रविजनेनातुल्यमित्यर्थः । व्याहृतं = उक्तं । सभयं = सभीति, प्रवृत्तं = प्रारब्धं । ययोः = अर्जुनदुर्योधनयोः, भुजसारं = बाहुबलं, गदायुद्धेऽर्जुनो दुर्योधनं न जेतुं शक्नोतीति भावः । अपरं = अर्जुनस्यापि छोड़कर भ्रातृस्नेही अर्जुन ने आज जो कुछ किया है वही कार्य मेरे लिए भी श्रेयस्कर है। विजय से कोई प्रयोजन नहीं ॥ २१ ॥ राक्षस - राजन् ! शत्रु पर विजय प्राप्त करने के विरुद्ध यदि आपका विचार हो तो जहाँ कहीं भी प्राण छोड़ दीजिए । वहाँ [ रणभूमि में ] जाना व्यर्थ है । कंचुकी - मुनि जी ! आपको धिक्कार है, आपका हृदय राक्षस के समान मालूम पड़ता है । राक्षस - ( भयभीत होता हुआ मन ही मन ) क्या इसने मुझे जान- लिया ? ( प्रकट रूप से ) ऐ कञ्चुकिन् ! उन दोनों अर्जुन और सुयोधन में गदायुद्ध प्रारम्भ हो गया । मैं