वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 308, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयापेतम् २८९ तयोर्गदायां भुजसारम्। दुःखितस्य पुनरस्य राजर्षेरपरमनिष्ठश्रवणं परिह- रन्नेवं ब्रवीमि। युधिष्ठिरः -(बाष्पं विसृजन्।) साधु महर्षे साधु। सुस्निग्धमभि- हितम्। कञ्चुकी-महाराज, किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृ- तेनेव त्यज्यते क्षात्रधर्मः। युधिष्ठिरः -आर्य जयंधर, शक्ष्यामि नो परिघपीवरवाहुदण्डौ वित्तेशशक्रवरुणाधिकवीर्यसारौ। भीमार्जुनौ क्षितितले प्रविचेष्टमानौ द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थम् ॥ मृत्युरभूदित्याकारकम्, परिहरन् = पृथक्कुर्वन्, एवम् = वृथा तत्र गमनमिति, ब्रवी- मि = कथयामि । सुस्निग्धम्, स्नेहयुक्तम्, अभिहितम् = उक्तम् । शोकान्धतया = शोकेन विवेकशून्यता, देवकल्पेन = ईषदूनो देव इति देवकल्पः, 'ईषदसमाप्तौ वि' ति कल्पप्रत्ययः । तेन, देवतुल्येनेत्यर्थः । देवेन = राज्ञा, प्राकृतेन = साधारणमनुष्येण क्षात्रधर्म = युद्धम्, साहसो वा । अन्वयः -परिघपीवरवाहुदण्डौ, वित्तेशशक्रवरुणाधिकवीर्यसारौ, (तथापि) क्षितितले, प्रविचेष्टमानौ, भीमार्जुनौ, तयोः, निधनेन, कृतार्थम्, रिपुम्, च द्रष्टुम्, नो शक्ष्यामि ॥ २२ ॥ अन्यस्मात् कारणात्तत्र न गच्छामि भयादिति तु नेत्याह-शक्ष्यामीति । परिघ- पीवरबाहुदण्डौ = परिघवत् पीवरौ मांसलौ बाहुदण्डौ दण्डाकारबाहू ययोः तौ, वित्तेशशक्रवरुणाधिकवीर्यसारौ = वित्तेशः कुबेरः शक्रः इन्द्रः वरुणः अपां पतिः एतेषा- मितरेतरयोगो द्वन्द्वः 'सारो बले स्थिरांशे च' इत्यमरः । तथापि, क्षितितले = भूतले प्रविचेष्टमानौ = चेष्टाशून्यौ, मृतावित्यर्थः । भीमार्जुनौ, पुनः, द्रष्टुम् = विलोकितुम्, न, शक्ष्यामि = समर्थो भविष्यामि, च पुनः तयोः = भीमार्जुनयोः, निधनेन = गदायुद्ध में उन दोनों के बाहुबल को जानता हूँ और व्यथित हृदय इस राजा को एक दूसरे अनिष्ट सन्देश के सुनने से दूर रखने के लिए इस प्रकार कह रहा हूँ । युधिष्ठिर -(आँसू गिराता हुआ) साधु तपस्विन् ! साधु ! आपने कल्याण की बात कही । कंचुकी - महाराज ! आप देवताओं के सदृश होते हुए भी शोकान्त होकर साधारण व्यक्ति की तरह क्यों क्षत्रियधर्म का परित्याग कर रहे हैं ? युधिष्ठिर - आर्य जयन्धर ! मुद्गराकार स्थूलभुजदण्डशाली तथा धनेश [कुबेर] और इन्द्र के नगर में अपने १९ वे०