वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०१ युधिष्ठिरः—( अग्निं दृष्ट्वा, सहर्षम् । ) कृष्णे, ननूद्भूतशिखाहस्ताहूतास्म- द्विधव्यसनिजनः समिद्धो भगवान्हुताशस्तत्रैन्धनीकरोम्यात्मानम् । द्रौपदी—पसीददु पसीददु महाराओ इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसाभि । ( प्रसीदतु प्रसीदतु महाराजोऽनेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि । ) युधिष्ठिरः—सहितावेवाभ्युदयमुपभोक्ष्यावहे । चेटी—हा भअवन्तो लोअवाला, परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसंतप्पिदहव्ववाहोखण्डवसंपिदहुदवहस्स किरि- डिणो जेट्ठो भा सुग्गहीहणामहेओ महाराअजुहिट्ठिरो । एसा वि पाञ्चाल- राअतणआ देवी वेदिमज्जसंभवा जणसेणी । दुवे वि णिक्करुणजलणस्स- प्पवेसेन इन्धणीहोन्ति । तापरित्ताअह अज्जा, परित्ताअह । कधं ण को वि परित्ताअदि । (तयोरग्रतः पतित्वा ।) किंन वसिदं देवीए देवेण अ । (हा भगवन्तो अग्निमिविति—चितास्थमिति भावः । उद्भूतशिखाहस्ताहूतास्मद्विधव्यसनिजनः= उद्भूता प्रकम्पिता चञ्चला वा या शिखा ज्वाला सैव हस्तः करः तेन आहूताः आकारिताः अस्मद्विधाः व्यसनिजनाः पीडितशक्तयः येन सः, 'हूतिराकारणाह्वानम्' इत्यमरः । हुताशनः = अग्निः, इन्धनीकरोमि = अनिन्धनम्, इन्धनं सम्पद्यते तत्क- रोमि 'कृभ्वस्तियोगे' इत्यादिना च्विप्रत्ययः । 'अस्य च्वौ' इतीत्वं च्वेलोपः । अपश्चिमेन = अनन्त्येन अग्रतः = अग्रे, भवतः पूर्वमित्यर्थः । अभ्युदयं = प्रियप्राप्तिरूपोत्सवम् । युधिष्ठिर—(अग्नि को देखकर प्रसन्नता के साथ) कृष्णे ! अपने अखण्ड ज्वाला रूप हाथ से हम लोगों जैसे दुखियों का आह्वान करते हुए भगवान् अग्निदेव प्रदीप्त हो रहे हैं । मैं उनमें अपने को ईंधन की तरह झोंक दूँगा । द्रौपदी—प्रसन्न हों प्रसन्न हों महाराज ! अपनी इस प्राथमिक अभ्यर्थना से मैं सर्व- प्रथम अपने को आहुति करूँगी । युधिष्ठिर—यदि इसी तरह की समस्या है तो हम दोनों एक ही साथ अभ्युदय का उपयोग करें । अर्थात् जलकर इस दुःख से मुक्त हो जाँय । चेटी—हाय लोकपालों ! आपलोग रक्षा कीजिए, रक्षा कीजिए । यह चन्द्रवंश के राजर्षि राजसूययज्ञ के विधान से अग्निदेव को तृप्त करने वाले, खाण्डववन के दहनकर्त्ता अर्जुन के ज्येष्ठ भ्राता हैं । इनका शुभ नाम युधिष्ठिर है । पाञ्चाल नरेश की पुत्री
३०२ वेणीसंहारं नाटकं लोकपालाः, परित्रायध्वं परित्रायध्वम् । एष खलु सोमवंशराजर्षी राजसूयसन्तर्पित- हव्यवाहः खाण्डवसन्तर्पितहुतवहस्य किरीटिनो ज्येष्ठो भ्रातासुगृहीतनामधेयो महाराज- युधिष्ठिरः । एषापि पाञ्चालराजतनया देवी वेदिमध्यसम्भवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः । तत्परित्रायध्वमार्याः, परित्रायध्वम् । कथं न कोऽपि परित्रायते । किं व्यवसितं देव्या देवेन च । ) युधिष्ठिरः—अयि बुद्धिमत्तिके, यन्नाथेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ, भद्रे उदकमुपानय ।- ( चेटी तथा करोति । ) युधिष्ठिरः—( पादौ प्रक्षाल्योपस्पृश्य च । ) एष तावत्सलिलाञ्जलिर्गाङ्गे- परित्रायध्वम् = रक्षत, राजसूयसन्तर्पितहव्यवाहः = राजसूयेन क्षत्रियकर्तृकयज्ञ- विशेषेण सन्तर्पितः सन्तोषतः हव्यवाहः अग्निः येन सः न केवलमयमेवाग्नेः सन्तर्प- यिता किन्त्वस्य भ्रातापीत्याह—खाण्डवेति । खाण्डवसन्तर्पितहुतवहस्य = खाण्डवेन एतन्नामकवनविशेषेण सन्तर्पितः हुतवहः अग्निः येन तस्य, वेदिमध्यसम्भवा = वेदिः, यज्ञे परिष्कृता भूमिः तस्या मध्ये सम्भवति उत्पद्यते या सा, याज्ञसेनी । द्वौ = द्रौपदीयुधिष्ठिरौ प्रवेशेनेति । इन्धनीभवत इत्यनेनान्वेति । व्यवसितम् = आचरितम् । किं व्यवसितमित्यस्योत्तरमाह = अयीति । नाथेनेति—तस्य द्रौपद्या इत्यादि, नाथेन = स्वामिना भीमेन, प्रियानुजेनेति—अस्य ममेत्यादिः, सदृशं = युक्तम्, भीमं विना यदुचितं तदेवाचरितमित्यर्थः । उपानय = समीपमानय । पादौ = चरणौ, प्रक्षाल्य = जलेन संशोध्य, उपस्पृश्य = आचम्य, जलाञ्जलिमेवं यज्ञीयवेदिका के मध्य से जन्मधारण करने वाली महारानी याज्ञसेनी (द्रौपदी) हैं । ये दोनों निष्ठुर अग्नि में प्रवेश करके अपने को इन्धन (जलाने का काष्ठ) बना रहे हैं। अतः श्रीमन् लोग इन लोगों की रक्षा कीजिए, रक्षा कीजिए। क्यों कोई इनकी रक्षा नहीं कर रहा है ? महाराज और महारानी ने यह क्या करने की मन में ठानी है ? युधिष्ठिर—अरी बुद्धिमत्तिके, अपने अभीष्ट तथा प्रिय कनिष्ठ भ्राता की अनुपस्थिति में जो कुछ करना चाहिये वही करने के लिए मन में ठाना गया है ? उठो, उठो अरी भद्रे ! जल लाओ । ( चेटी जल लाती है ) युधिष्ठिर—(पैर धोकर तथा आचमन करके) सबसे पहले यह जल पूर्ण अञ्जलि गङ्गा के पुत्र पूज्य प्रपितामह (परदादा) शान्तनु के आत्मज भीष्म के लिये है। यह दूसरी
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०३ याय भीष्माय गुरवे प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचि- त्रवीर्याय । ( साश्रम् ) तातस्याधुनावसरः । अयं तावत्स्वर्गस्थिताय सुगृही- तनाम्ने पित्रै पाण्डवे । अद्यप्रभृति वां दत्तमस्मत्तो दुर्लभं पुनः । तात ! त्वयाऽम्बया सार्धं मया दत्तं निपीयताम् ॥ २९ ॥ एतज्जलं जलजनीलविलोचनाय भीमाय भोस्तव ममाप्यविभक्तमस्तु । ददाति—एप इति । गाङ्गेयाय=गङ्गापुत्राय 'शुभ्रादिभ्यश्चे'ति ढक्प्रत्ययः । 'आय नेयीति' एयादेश । शन्तनो राज्ञः प्राक् परिणीता स्त्री गङ्गाऽऽसीत् । तातः = पितः ? भवते = पूज्याय, सुगृहीतनाम्ने = सुगृहीतं प्रातः स्मरणीयं नाम यस्य, तस्मै । अन्वयः—( हे ) तात ! वाम् दत्तम्, पुनः, अद्य, प्रभृति, अस्मत्तः दुर्लभम्, अम्बया, सार्धम् त्वया, एतद्, दत्तम् ( जलम् ) निपीयताम् ॥ २९ ॥ ( हे ) तात = पितः ! वाम्=युवाभ्याम्, दत्तम् जलमिति शेषः ( 'वारीदमि'ति पाठे—इदम्, वारि ) पुनः. अद्य प्रभृति=अद्यारभ्य, अस्मत्तः = अस्मत्, 'पञ्चम्यास्त सिल्' इति तसिल् । दुर्लभम् = दुष्प्राप्यम्, अतः अम्बया = विमात्रा माद्र्या सार्द्धम्, त्वया = पित्रा, एतत्, क्वचिन्मयेति पाठः । दत्तम् जलमिति शेषः । निपीयताम् = पीयताम् । अत्र पाने प्रति पूर्वार्द्धवाक्यार्थो हेतुरिति काव्यलिङ्गमलङ्कारः । पथ्या वक्त्रं छन्दः ॥ २९ ॥ अन्वयः—जलजनीलविलोचनाय, भीमाय, ( दत्तम् ) एतत्, जलम्, भोः, वत्स, तव, मम, अपि, अविभक्तम्, अस्तु तु, पिपासितः, ( त्वम् ) एकम्, क्षणम्, विरम् त्वया, सह, पातुम्, अयम् ( अहम् ), जवात्, आगतः, अस्मि ॥ ३० ॥ मयैवसार्द्धं त्वया जलं पेयमहर्माप भस्मीभूत्वाऽगत एवेत्याह = एतदिति । जलज नीलविलोचनाय = जलजं कमलं तद्वन्नीले विलोचने नेत्रे यस्य तस्मै, भीमाय, दत्तमिति शेषः । एतत्, जलम्, भोः वत्स ! तव = भीमस्य, मम, अपि, अविभक्तम्= जलाञ्जलि पितामह विचित्रवीर्य के लिए है । ( अश्रुकलुषत नेत्रों से ) अब पिता की वारी है । यह सलिलाञ्जलि स्वर्गवासी आदरणीय पिता पाण्डु के लिए हैं । आज से यह जल हमलोगों से मिलना दुर्लभ हो जायगा, पिताजी ! माता माद्री के साथ मेरे दिये हुए जल को पी लीजिये ॥ २९ ॥ यह तोयाञ्जलि ( जलाञ्जलि ) अविभक्त ( बिना बाँटी हुई ) रूप से कमल के सदृश नील नेत्रशाली भीमसेन के लिए भी है । वत्स ! तुम तृषार्त हो तो भी
३०४ वेणीसंहारं नाटकं
एकं क्षणं.विरम वत्स पिपासितोऽपि
पातुं त्वया सह जवाद्यमागतोऽस्मि ॥ ३० ॥
अथवा सुक्षत्रियाणां गतिमुपगतं वत्समहमुपगतोऽप्यकृती द्रष्टुम् । वत्स
भीमसेन,
मया पीतं पीतं तदनु भवताम्बास्तनयुगं
यदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया ।
----------------------------------------------------------------
सम्मिलितम्, अस्तु=तिष्ठतु, पिपासितः = तृषितः, अपि, त्वम्, एकम्, क्षणम् =
मुहूर्तम्, विरम = तिष्ठ विलम्बं कुर्वित्यर्थः । त्वया, सह=साकम्, पातुम्, अयम् =
युधिष्ठिरः, ( अहम् ) जवात् = वेगात्, आगतः, कर्तरि क्तप्रत्ययः । अस्मि । वसन्त-
तिलका छन्दः ॥ ३० ॥
सुक्षत्रियाणाम्=वीराणाम्, गतिम् = स्वर्गरूपाम्, उपगतम् = प्राप्तम्, वत्सम्=
भीमम् द्रष्टुम् = विलोकितुम्, अहम् मृतः, अपि अकृतो = अकुशलः, असमर्थ इत्यर्थं
इत्यन्वयः । अस्माकमात्मघातेन वीरगतेरभावादिति भावः ।
अन्वयः—अम्बास्तनयुगम्, मया, पीतम्, तदनु, भवता, पीतम् वत्सलतया
मदुच्छिष्टैः रसैः, वृत्तिम्, जनयसि, तव, मम, वितानेषु, सोमे, च, एवम्, विधिः,
अभूत्, अधुना, कथम्, एवम्, निवापाम्भः, पूर्वम्, त्वम्, पिबसि ॥ ३१ ॥
मयेति । अम्बास्तनयुगम् = मातृस्तनद्वयम्, मया=युधिष्ठिरेण, पीतम्,
तदनुः = तत्पश्चात्, भवता = भीमेन, पीतम्, वत्सलतया = स्नेहेन, मदुच्छिष्टैः =
मद्भोजनावशिष्टैः, रसैः = दुग्धादिभिः, वृत्तिम् = जीविकाम्, जनयसि = अजनयः,
एक क्षण के लिए प्रतीक्षा करो तुम्हारे साथ पान करने के लिए अत्यन्त द्रुत गति से मैं आ ही
रहा हूँ ॥ ३० ॥
अथवा वीरसुलभ गति को प्राप्त वत्स भीमसेन के समीप पहुंच कर भी उनके दर्शन से
वञ्चित हो रह जाऊँगा (तात्पर्य यह है कि क्षत्रिय लोग जो युद्ध में प्राण परित्याग करते हैं
उन्हें स्वर्ग होता है और जो आत्महत्या करते हैं वे स्वर्ग के भागी नही होते इसलिए भीम
की गति को तो युधिष्ठिर पा नहीं सकते थे । अतएव उनका भी दर्शन होना उन (युधिष्ठिर)
के लिए कठिन ही था ।
प्रिय भ्रात भीमसेन !
माता के स्तनद्वय का मेरे द्वारा पान कर लेने पर आपने उसका पान किया था ? आप
मेरे जूठे फल-रसादिक (खाद्य तथा पेय पदार्थ) के द्वारा अत्यन्त चाव से अपनी प्राणयात्रा
करते थे । यज्ञों के प्रकरण में सोमरस का पान करने के लिए भी मेरा और आपका
यही नियम था (अर्थात् पहले युधिष्ठिर पी लेते थे तो फिर भीम पान करते थे] फिर
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०५ वितानेष्वप्येवं तव मम च सोमे विधिरभू- न्निवापाम्भः पूर्वं पिवसि कथमेवं त्वमधुना ॥ ३१ ॥ कृष्णे, त्वमपि देहि सलिलाञ्जलिम् । द्रौपदी -हञ्जे बुद्धिमदिए, उवणेहि मे सलिलम् । ( हञ्जे बुद्धिमत्तिके, उपनय मे सलिलम् । ) ( चेटी तथा करोति ) द्रौपदी - ( उपसृत्य जलाञ्जलि पूरयित्वा । ) महाराज, कस्स सलिलं देम्हि । ( महाराज, कस्य सलिलं ददामि । ) युधिष्ठिरः- तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् । वर्तमानसामीप्ये लट् । वितानेषु = 'ऋतुविस्तारयोःस्त्री' इत्यमरः । सोमे = सोमयागे, सोमरसपाने वा, एवम् = मम पश्चात् विधिः=क्रिया, अभूत्, सर्वं कार्यं त्वया मत्प- श्चादेव सम्पादितमिति भावः । अधुना, कथम् एवम् = वैपरीत्येन, निवापाम्भः= मृताय देयं जलम्, पूर्वम्=मत्तः प्राक्, त्वम्, पिवसि । साम्प्रतं कथं विपरीतमाचरित- मिति भावः। मन्मरणानन्तरं तव मरणं समुचितमिति गूढाभिप्रायः । अत्र काव्य- लिङ्गमलङ्कारः । शिखरिणी छन्दः ॥ ३१ ॥ सलिलाञ्जलिम् = जलाञ्जलिम् । कस्येति-सम्बन्धविवक्षया षष्ठी । अथवा व्याकुलीभूता द्रौपदी कस्मै इत्यस्य स्थाने कस्येति प्रयुक्तम् । अन्वयः-दिवम्, सहसा, गच्छते, तस्मै, पूर्वम्, जलम्, देहि, येन, रुदितेन, अपि, गान्धार्या, समीकृत । यदर्थं साम्प्रतं जलदानस्यावश्यकता पूर्वं तस्मै देहीत्याह-तस्मा इति । दिवम् = स्वर्गम्, सहसा=सपदि, गच्छते, शतृप्रत्ययान्तस्य ङयि रूपमिदम् । तस्मै = भीमाय, अब इस तिलजल को इस प्रकार मुझ से प्रथम क्यों पान कर रहे हो ? ॥ ३१ ॥ कृष्णे [ द्रौपदि ] ? तुम भी सलिलाञ्जलि प्रदान करो । द्रौपदी -अरी बुद्धिमत्तिके, मुझे जल ला दे । ( चेटी जल लाकर देती है ) द्रौपदी - ( समीप आकर जल से अञ्जलि भरकर ) महाराज, किसे जलप्रदान करूँ ? युधिष्ठिर - ऐ कृष्णे, अकस्मात् स्वर्ग में जाने वाले उसे (भीम को) जल दो जिसने माताजी को रुदन २० वे०
३०६ वेणीसंहारं नाटकं अम्बयापि येन गान्धार्या रुदितेन समीकृता ॥ ३२ ॥ द्रौपदी—णाह भीमसेण, परिअणोसवणीदं उदअं सग्गगदस्स दे पादो- दअं भेदु । ( नाथ भीमसेन, परिजनोपनीतम उदकं स्वर्गगतस्य ते पादोदकं भवतु । ) युधिष्ठिरः—फाल्गुनाग्रज, असमाप्तप्रतिज्ञेऽपि याते त्वयि महाभुजे । मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ ३३ ॥ द्रौपदी—उट्ठेहि महाराज, दूरं गच्छदि दे भादा । ( उत्तिष्ठ महाराज, दूरं गच्छति ते भ्राता । ) युधिष्ठिरः—( दक्षिणाक्षिस्पन्दनं सूचयित्वा । ) पाञ्चालि, निमित्तानि मे पूर्वम्, जलम्, देहि, येन = भीमेन, रुदितेन = रोदनेन । भावे क्तप्रत्ययः । अम्बा = कुन्ती, अपि, गान्धार्या, समीकृता = तुल्यीकृता । यः कुन्तीमप्यरोदयत्तस्मै भीमायं जलं देहीति भावः पथ्यावक्त्रं छन्दः ॥ ३२ ॥ —परिजनोपनीतम् = सेविकया दत्तम्, पादोदकम् = पादप्रक्षालनार्थं जलम् । फाल्गुनाग्रज = अर्जुनश्रेष्ठ ! अन्वयः—असमाप्तप्रतिज्ञे, अपि, महाभुजे, त्वयि, याते ( सति ) प्रियया, मुक्त- केश्या, एव, ते, सलिलाञ्जलिः, दत्तः ॥ ३३ । असमाप्तेति । असमाप्तप्रतिज्ञे = अपूर्णप्रतिज्ञे अपि, महाभुजे=बलवति, त्वयि = भीमे, याते = गते, स्वर्गमिति शेषः । सति, प्रियया = स्त्रिया मुक्तकेश्या = अबद्ध- केश्या । स्वाङ्गाच्चोपसर्जनादिति डोष् । एव, ते = तुभ्यम्' सलिलाञ्जलिः = उदका- ञ्जलिः, दत्तः = समर्पितः । पथ्यावक्त्रं छन्दः ॥ ३३ ॥ दक्षिणाक्षिस्पन्दनम् = दक्षिणनेत्रसञ्चलनम् ( फडकन ) इति प्रसिद्धोऽर्थः । पुरु- में गान्धारी माता के समान बना दिया है [ अर्थात् वे अपने सौ पुत्रों को मृत्यु होने पर रोदन कर रही हैं और अब भीम के मृत्योपरान्त माता कुन्ती भी रो रही हैं अतः रोने में दोनों में समानता हो गई है । द्रौपदी—नाथ भीमसेन ! दासी के द्वारा दिया हुआ यह जल आपके पादप्रक्षालन के लिए हो । युधिष्ठिर—ऐ अर्जुन के ज्येष्ठ भ्राता ! प्रतिज्ञा की पूर्ति किए बिना आप जैसे शूरवीर के प्रस्थान कर जाने पर आपकी प्रियतमा केशपाश बाँधे बिना ही जलाञ्जलि दे रही हैं ॥ ३३ ॥ द्रौपदी—उठिए महाराज ! आपके भ्राता दूर चले जा रहे हैं । युधिष्ठिर—( दाहिने नेत्र के फड़कने की सूचना देते हुए ) पाञ्चालनरेशपुत्रि ! शुभ- शकुनों से पता चलता है कि भीमसेन मिलेंगे ।
कथयन्ति सम्भावयिष्यसि वृकोदरमिति, भवतु शीघ्रं दहनमुपसर्पावः । द्रौपदी—महाराज, सुणिमित्तं भोदु । ( महाराज ! सुनिमित्तं भवतु । ) ( नेपथ्ये कलकलः । ) ( प्रविश्य सम्भ्रान्तः । ) कञ्चुकी—परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुच्छ्रितदिग्धभीषणगदा- शनिरुद्यतकालदण्ड इव कृतान्तोऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते । युधिष्ठिरः--हा दैव, तेन निर्णयो जातः ! हा गाण्डीवधन्वन्,
पाणां दक्षिणनेत्रस्पन्दनं शुभकरमिति भावः । सम्भावयिष्यसि = प्राप्स्यसि । स्वर्गं गतं स्वर्गे प्राप्स्यामीत्यवगत्याह = भवत्विति । अत्रैव प्राप्तिसूचकं नेत्रस्पन्दनं तत्र प्राप्तिसूचकमित्यवगतं युधिष्ठिरेणेति भावः । दहनम् = अग्निम् । उपसर्पावः = गच्छावः । सम्भ्रान्तः = उद्विग्नः । कौरवापसदः = कौरवेषु अपसदः अधमः । क्षतजाभिषेकपाटलिताम्बरशरीरः-- क्षतजस्य रुधिरस्य अभिषेकेण सेचनेन पाटलिते ईषद्रक्तीकृते अम्बरशरीरे येन सः, रक्तभीषणगदाशनिः = रक्तेन रुधिरेण भीषणा भयजनिका या गदा सा अशनिः वज्रं इव यस्य सः, अतः एव उद्यतकालदण्डः = उत्थापितयमलगुडः, कृतान्तः = यमः, अत्रभवतीम् = पूज्याम्, परिमार्गमाणः = गवेषयन् । दैव = विधे, तेन दुर्योधनागमनेन, निर्णयः = भीमार्जुनवधस्य निश्चयः नायं भीमार्जुनौ अविजित्यागन्तुं शक्नोतीति भावः ।
द्रौपदी—महाराज ! शुभ शकुन हो । ( नेपथ्य में कलकल ध्वनि ) ( प्रवेश करके उद्विग्न होते हुए ) कंचुकी—रक्षा कीजिए, रक्षा कीजिए महाराज ! यह दुरात्मा कौरवाधम, जिसके वस्त्र और शरीर रुधिर से सराबोर होकर लोहितवर्ण हो गए हैं, रक्तरञ्जित भीषण शक्तिवाली गदा को कालदण्ड के समान ऊपर को उठाए हुए साक्षात् काल के समान यहाँ श्रीमती पाञ्चालराज की दुहिता का अन्वेषण करता हुआ इसी ओर आ रहा है । युधिष्ठिर—हाय भाग्य ! इससे निर्णय हो गया ( अर्जुन भी मृत्यु को प्राप्त हो गये )। हाय गाण्डीवधारी !
३०८ | वेणीसंहारं नाटकं
- (इति मुह्यति ।) द्रौपदी- हा अज्जउत्त, हा मम सअम्वरसङ्गाहकुडुम्ब पिअं भादुअं अणुगदोसि । ण उण महाराअं ईमं दासजणं अ । ( इति मोहमुपगता ) ( हा आर्यपुत्र, हा मम स्वयंवरसंग्राहकुटुम्ब, प्रियं भ्रातरमनुगतोऽसि । पुनर्महारा- जमिमं दासजनं च । ) युधिष्ठिरः-हा वत्स सव्यसाचिन्, हा असदृशमल्ल, हा निवातक- वचोद्धरणनिष्कण्टकीकृतामरलोक, हा बदर्याश्रममुनिद्वितीयतापस, हा द्रोणाचार्यप्रियशिष्य, हा अस्त्रशिक्षावलपरितोषितगाङ्गेय, हा राधेयकुल- कमलिनीप्रालेयवर्ष, हा गन्धर्वनिर्वासितदुर्योधन, हा पाण्डवकुलकमलिनी- राजहंस, मुह्यति = अचेतन्यं प्राप्नोति , मम = द्रौपद्याः स्वयंवरसंग्राहकुटुम्ब = स्वयंवरे संग्रहः संग्रहणं स्वीकार इत्यर्थः, तेन कुटुम्बः पोषकः तत्सम्बोधने । सम्भावयसि = सम्मानयसि, दासजनम् = मां द्रौपदीम् असदृशमल्ल = अनुपमेयवलिष्ठ, निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक = निवातकवचस्य एतन्नामकदैत्यस्य उद्धरणेन निष्कण्टकीकृतः अमरलोकः स्वर्गः येन तत्सम्बोधने । निवातकवचासुरवधकथा महाभारते वर्णिताऽस्ति । बदर्याश्रममुनि- द्वितीयतापस = बदर्याश्रमे बदरिकाश्रमे यौ मुनी नरनारायणौ तयोर्द्वितीयः नररूपः स चासौ तापसः तत्सम्बोधने, अर्जुनो नरावतार आसीदिति भावः । अस्त्र- शिक्षावलपरितोषितगाङ्गेय = अस्त्रशिक्षाबलेन अस्त्रशिक्षया बलेन चेति वा परितो- षितः गाङ्गेयः भीष्मो येन तत्सम्बोधने, गन्धर्वनिर्वासितदुर्योधन = गन्धर्वग्रहणाद् (मूर्च्छित हो जाते हैं) द्रौपदी-हाय आर्यपुत्र । हाय ! स्वयंवर में मुझे स्वयं अपने पराक्रम से ग्रहण करने वाले ! प्रियभ्राता के पीछे ही पीछे चले गए, किन्तु महाराज के अथवा इस दासी के पश्चात् नहीं गए ? ( चेतना विहीन हो जाती है ) युधिष्ठिर-हाय अनुज सव्यसाचिन् ! हाय अनुपम योद्धा ! हाय निवातकवच नामके राक्षस का वध करके स्वर्ग को निष्कण्टक बना देने वाले ! हाय बदरिकाश्रम के द्वितीय तपस्विन् ! हाय द्रोणाचार्य के प्रिय शिष्य ! हाय अस्त्र-शिक्षा और बल से भीष्म को सन्तुष्ट करने वाले ! हाय कर्ण-कुल-कमलिनी के लिए हिमपात सदृश ! हाय गन्धर्वों से दुर्योधन को मुक्त कराने वाले ! हाय पाण्डव-वंश कमल के बीच विहरण करनेवाले राजहंस !
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३०९ तां वत्सलामनभिवाद्य विनीतमम्बां गाढं च मामनुपगुह्य मयाऽप्यनुक्तः । एतां स्वयंवरवधूं दयितामदृष्ट्वा दीर्घप्रवासमयि तात कथं गतोऽसि ॥ ३४ ॥ ( मोहमुपगतः । ) कञ्चुकी—( चेटीं प्रति । ) इदानीं भोः कष्टम् । एष कौरवाधमो यथेष्ट- मिहैव प्रवर्तते । सर्वथा प्रवेशकालः चितासमीपमुपनयाम्यत्रभवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि । भद्रे, त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वाऽवाप्नुहि । एवमवस्थिते महाराजेऽस्तमितयोर्भी- मार्जुनयोः कुतोऽत्र परित्राणाशा । निर्वासितो मोचितो दुर्योधनो येनेत्यर्थः । वने निवसता अर्जुनेन गन्धर्वराजगृहीतो दुर्योधनो युधिष्ठिराज्ञया मोचितः, इति महाभारतीया कथानुसन्धेया । अन्वयः—अयि, तात ! वत्सलाम् ताम्, अम्वाम्, विनीतम् ( यथा स्यादेवम् ) अनभिवाद्य, माम्, गाढम्, अनुपगुह्य, मया अपि, अनुक्तः, एताम् स्वयंम्वरवधूम, अदृष्ट्वा, च, दीर्घप्रवासम्, गतः असि ॥ ३४ ॥ अस्मान् विहाय कथं गत इत्याह—तामिति । अयि, तात !=अर्जुन ! ताम्= पूज्याम्, वत्सलाम्=स्नेहवतीम्, अम्वाम्=मातरम्, विनीतम्=सनम्रं, यथा स्यादेवम्, अनभिवाद्य=नामोच्चारणपूर्वकम्प्रणम्य, माम्, गाढम्=भृशम्, अनुपगुह्य= अनालिङ्ग्य, एताम्, स्वयंवरवधूम् = स्वयं वृणीत इति स्वयंवरा सा चासौ वधूः ताम्, अदृष्ट्वा मया, अपि, अनुक्तः=अननुज्ञातः, दीर्घप्रवासम्=दीर्घकालिकयात्राम्, मरणमित्यर्थः कथम्, गत=प्राप्तः, असि । वसन्ततिलका छन्दः ॥ ३४ ॥ अस्तम = विनाशम्, इतयोः = प्राप्तयोः, परित्राणम् = रक्षा । उस पुत्र-स्नेहवती माता को नम्रतापूर्वक प्रणाम किए बिना ही, भ्रातृवत्सल मुझे आलि- ङ्गित किए बिना ही तथा मेरी आज्ञा लिए बिना और स्वयंम्बर में लाई गई प्राणवल्लभा इस वधू से बिना पूछे दीर्घयात्रा को चले गये हो [ मृत्यु को प्राप्त हुए हो ] ॥ ३४ ॥ कंचुकी—( चेटी से ) अरे इस समय महान् कष्ट ? यह कौरवनीच अबाधगति से यहाँ ही चला आ रहा है । प्रत्येक दशा में चिताप्रवेश का ही समय है ! अब श्रीमती पाञ्चालराजपुत्री को चिता के समीप ले चलता हूँ इसी तरह मैं भी पहुँच जाता हूँ । भद्रे !
३१० वेणीसंहारं नाटकं चेटी—परित्ताअह परित्ताअह अज्जा । ( परित्रायध्वं परित्रायध्वमार्याः । ) ( नेपथ्ये कलकलानन्तरम् । ) भोः भोः समन्तपञ्चकसञ्चारिणः क्षतजास्वादमत्तयक्षराक्षसपिशाच- भूतवेतालकङ्कगृध्रजम्बूकवायसभूयिष्ठा अवशिष्टविरलाश्च योधाः, कृतम- स्मद्दर्शनसंत्रासेन । कथयत भवन्तः कस्मिन्नुद्देशे याज्ञसेनी सन्निहितेति । कथयामि लक्षणं तस्याः— ऊरू करेण परिघट्टयतः सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या । क्षतजेति—क्षतजस्य शोणितस्य आस्वादेन मत्ता ये यक्षादयः [ कङ्कः लोहपृष्ठः 'कलहङ्ग' इति ख्यातः, जम्बूकः शृगालः, वायसः काकः ] ते भूयिष्ठाः बहुला यत्र ते, अवशिष्टा अत एव विरलाः = अल्पाः, योधाः = युध्यन्त इति योधाः भटाः, पचादि- त्वादप्रत्ययः । मद्दर्शनसन्द्रासेन = मद्विलोकनजन्यभयेन, कृतम् = व्यर्थम् उद्देशे = स्थाने, सन्निहिता = समीपस्था, उपविष्टेत्यर्थः । लक्षणम् = स्वरूपम् । अन्वयः—करेण, ऊरू, सलीलम्, परिघट्टयतः दुर्योधनस्य, पुरतः, या, अप- हृताम्बरा, दुःशासनस्य, करकर्षणभिन्नमौलिः, सा, पुनः, क्व, प्रदेशे, वर्तते ( इति ) कथय ॥ ३५ ॥ लक्षणमेवाह—ऊरू करेणेति । करेण = हस्तेन, ऊरू = सक्थिनी, सलीलम् = सकौ- तुकम्, परिघट्टयतः = परिमर्द्दतः 'मदीयं वोरुपरि उपविशेति बोधयत इत्यर्थः । दुर्योधनस्य, पुरतः = अग्रे, या अपहृताम्बरा = अपहृतम् आकृष्टम् अम्बरं यस्याः सा, दुःशासनस्य, करकर्षणभिन्नमौलिः = करेण यत्कर्षणम् आकर्षणम् तेन भिन्नः विदीर्णः तू भी महारानी के भ्राता [ धृष्टद्युम्न ] अथवा नकुल और सहदेव के समीप चला जाना । [ क्योंकि ] महाराज [ युधिष्ठिर ] का ऐसी अवस्था में और भीमार्जुन के स्वर्ग चले जाने पर यहाँ हम लोगों की रक्षा के लिये क्या आशा ? चेटी—रक्षा कीजिए, रक्षा कीजिए आर्यो । ( नेपथ्य में कोलाहल के अनन्तर ) अरे अरे ! समन्तपञ्चक के चारो ओर से भ्रमण करनेवाले क्षत-विक्षत अङ्गों से निकले हुए रुधिर के आस्वाद से उन्मत्त यक्ष, राक्षस, पिशाच, भूत वेताल, कङ्क, गीध, शृगाल और कौवों से अधिक संख्या वाले कतिपय अवशिष्ट योद्धाओ ! मुझे देखकर आप लोगों के डरने की कोई आवश्यकता नहीं । आप लोग यह कहिए, कि द्रौपदी किस स्थान में वर्तमान है ? उनके लक्षणों को मैं बता दे रहा हूँ । 'बड़े हाव-भाव के साथ हाथ से जाँघों को ठोंकते हुए दुर्योधन के नेत्रों के सामने
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश द्वयोपेतम् ३११ दुःशासनस्य करकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥ ३५ ॥ कञ्चुकी-हा देवि यज्ञवेदिसम्भवे, परिभूयसे सम्प्रत्यनाथा कुरुकुल- कलङ्केन । युधिष्ठिरः- (सहसोत्थाय ।) पाञ्चालि, न भेतव्यम् । न भेतव्यम् । ( ससंभ्रमम् ।) कः कोऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन् दुर्द्यो- धनहतक, आगच्छागच्छ । अपनयामि ते गदाकौशलसम्भृतं भुजदर्पं शिली- मुखासारेण । अन्यच्च रे कुरुकुलाङ्गार, प्रियमनुजमपश्यंस्तं जरासन्धशत्रुं कुपितहरकिरातद्वेषिणं तं च वत्सम् । मौलिः चूडा यस्याः सा, 'मौलिः किराटे धम्मिल्ले चूडायाम्' इति मेदिनी । पुनः, क्व = कस्मिन्, प्रदेशे = स्थाने, वर्तते, कथय, पश्य मृगो धावती'त्यादिवत्कथयेत्यस्य पूर्वं वाक्यं कर्म । वसन्ततिलका छन्दः ॥ ३५ ॥ यज्ञवेदिसम्भवे = द्रौपदि, कुरुकुलकलङ्केन = कौरववंशलाञ्छनभूतदुर्योधनेन, सम्प्रति, अनाथा = अस्स्वामिनी । परिभूयसे = तिरस्क्रियसे । सहसा = झटिति, न भेतव्यमिति । दुर्योधनादिति शेष । सज्यम् = समौर्वीकम्, धनुः = चापम्, उपनय = आनय, अपनयामि = दूरीकरोमि, गदाकौशलसम्भृतम् = गदा- कौशलेन सम्भृतम्, उत्पन्नम्, शिलीमुखासारेण = बाणधारया । अन्वयः - प्रियम, अनुजम् जरासन्धशत्रुम्, तम्, कुपितहरकिरातद्वेषिणम्, वत्सम्, तम् च, अपश्यन्, कठिनचेताः, त्वम्, इव, प्राणितुम्, न, शक्तः, ( परम् ) बाणवर्षैः तव, असून्, अपहर्तुम्, न च, शक्तः ॥ ३६ ॥ तव प्राणान् हृत्वाैव स्वयं मरिष्यामीत्याह - प्रियमिति । प्रियम् = स्निग्धम्, दुःशासन के द्वारा जिसका वस्त्र खींचा गया था तथा केशों के आकृष्ट करने से जिसकी वेणी खुल गई थी, वह द्रौपदी बतलाइए किस स्थान में है ?' ॥ ३५ ॥ कंचुकी-हाय यज्ञवेदी से उत्पन्न महारानी ! आप [ अब ] असहाय होकर कौरव कुलाङ्गार से अपमानित होंगी । युधिष्ठिर - पाञ्चालि ! डरिए मत, डरिए मत । ( उद्विग्नतापूर्वक ) कौन हैं यहाँ कोई है ? तूणीर के साथ मेरा धनुष लाओ । दुष्ट दुर्योधन ! आओ, आओ, बाणवर्षा से तुम्हारे अभिमान को, जो गदायुद्ध की कला में एकत्रित किया गया है, चूर-चूर कर देता हूँ । और भी अरे कुरुकुलङ्क ! हम जरासन्ध के शत्रु, प्रिय लघु भ्राता ( भीमसेन ) और किरातरूपधारी क्रुद्ध शंकर
३१२ वेणीसंहारं नाटकं
त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो
न च पुनरपहर्तुं बाणवर्षैस्तवासून् ॥ ३६ ॥
( ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः । )
भीमसेनः--( उद्धतं परिक्रामन् । ) भो भोः समन्तपञ्चकसञ्चारिणः,
कोऽयमावेगः—
नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्गः प्रकामं
निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि ।
-------------------------------------------------------------------
अनुजम् = कनिष्ठभ्रातरम्, जरासन्धशत्रुम्=जरासन्धनामकनृपस्य रिपुम्, तम् =
भीमम्, कुपितहरकिरातद्वेषिणम् = कुपितो यो हरः शिवः स एव किरातः व्याधः
तस्य द्वेषिणम् रिपुम् किरातवेषधारिणा शिवेन सहार्जुनोऽयुध्यतेति कथा महाभारते
वनपर्वणि द्रष्टव्या । वत्सम् प्रियम् तम् = अर्जुनम्, च अपश्यन् = अविलोकयन्,
कठिनचेताः = कठोरहृदयः, त्वम् = दुर्योधनः, इव, प्राणितुम्=जीवितुम्, न शक्तः=
समर्थः, परम् बाणवर्षैः = शरवपणैः, तव = दुर्योधनस्य, असून् = प्राणान्, अपह-
र्तुम्=विनाशयितुम्, न च, शक्तः=समर्थः, शश्वत इत्यस्यापि सम्बन्धः । काक्ववोच्यते न
च शक्तः । तथा च अहं शश्वत एवेति भावः । अत्रोपमालङ्कारः । मालिनी छन्दः ॥
गदापाणिः = पाणौ गदा यस्य सः, 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' इति
सप्तम्यन्तस्य परप्रयोगः । क्षतजसिक्तसर्वाङ्गः=क्षतजेन शोणितेन सिक्तानि सर्वाणि,
अङ्गानि यस्य सः ।
उद्धतम् = उत्कटम्, परिक्रामन्=प्रचलन्, आवेगः=उद्विग्नता ।
अन्वयः अहम्, रक्षः, न, भूतः न, प्रकामम्, रिपुरुधिरजलप्लाविताङ्गः, नि-
स्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः, क्षत्रियः, अस्मि भोः, भोः, समरशिखिशिला-
भगवान् से द्वन्द्व युद्ध करने वाले उस वत्स ( अर्जुन ) को न देखता हुआ मैं तुम्हारी तरह
क्रूरहृदय वाला होकर जीवित रहने में असमर्थ हूँ । किन्तु बाणों की वर्षा से तुम्हारे प्राणों को
अपहरण करने में समर्थ हूँ । [ अभिप्राय यह है कि दुर्योधन के सौ भाई मारे गये हैं तो भी
वह हृदय को वज्र बनाकर जीवित है इसके विपरीत युधिष्ठिर अपने एक भी भाई की मृत्यु
पर प्राण-परित्याग करने की प्रतिज्ञा किए हुए हैं । साथ-साथ दुर्योधन की हत्या भी करनी
चाहते हैं ] ॥ २६ ॥
( तदनन्तर सर्वाङ्ग रक्त से लिप्त और गदा हाथ में लिए भीमसेन प्रवेश करते हैं ]
भीमसेन—अरे अरे समन्तपञ्चक के चारों तरफ भ्रमणकारियों !
न मैं राक्षस हूँ और न तो भूत-प्रेत हूँ किन्तु यथेच्छ शत्रुरक्त रूपी जल से आप्लावित
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१३
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व-
स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ३७ ॥
कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति ।
द्रौपदी—( लब्धसंज्ञा ।) पदित्ताअदु परित्ताअदु महाराओ । ( परित्रा-
यतां परित्रायतां महाराजः । )
कञ्चुकी—देवि पाण्डुस्नुषे. उत्तिष्ठोत्तिष्ठ । सम्प्रति चिताप्रवेश
एव श्रेयान् ।
दग्धशेष, राजन्यवीराः, वः, अनेन, त्रासेन कृतम्, किम्, हतकरितुरगान्तर्हितैः,
लीनैः, आस्यते ॥ ३७ ॥
नाहमिति । अहम् = त्वया दृश्यमानः, रक्षः = राक्षसः, न, भूतम् = पिशाचादिः,
न, किन्तु प्रकामम् = यथेष्टम्, रिपुरुधिरजलप्लाविताङ्गः = शत्रुशोणितसलिलसिक्ता-
वयवः, निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः = ऊरुविषयिणी प्रतिज्ञा ऊरुप्रतिज्ञा सैव
जलनिधिगहनम् दुब्धारसमुद्रः तत् निस्तीर्णम् उत्तीणं येन सः, क्रोधनः, नन्द्यादि-
त्वाल्ल्युप्रत्ययः । क्षत्रियः = राजन्यः, अस्मि, अतः भो भोः समरशिखिशिखादग्धशे-
षाः = समरमेव शिखिशिखा अग्निज्वाला तया ये दग्धाः, तेभ्यः शेषाः अवशिष्टाः
तत्सम्बोधने राजन्यवीराः = क्षत्रियेषु शूरा., युद्धेऽपराजितत्वादिति भावः । वः =
युष्माकम् अनेन = मद्दर्शनजन्येन, त्रासेन = भयेन, कृतम् = अलम्, ननु कथमवगम्यते
त्रास इत्याह = लीनैरिति । किम्, हतकरितुरगान्तर्हितैः = हता ये करितुरगाः तेषु
अन्तर्हितैः, अत एव लीनैः = प्रच्छन्नैः, किम्, आस्यते = उपविश्यते । नाहं युष्मान्
किमपि करिष्यामि वृथैव त्रासो मत्त इति भावः । अहे त्वदीयो भीमसेन एवेति
तत्त्वम् । अत्र तृतीयचरणे रूपकमलङ्कारः । स्रग्धरा छन्दः ॥ ३७ ॥
भीममजानन् दुर्योधनं जानन् कञ्चुक्याह—देवीति । पाण्डुस्नुषे ! पाण्डुपुत्रवधु ।
श्रेयान् = श्रेष्ठः ।
शरीर वाला और ऊरुभंग की प्रतिज्ञारूपी गम्भीर समुद्र को पार करके क्रोधान्ध क्षत्रिय वीर
हूँ । अरे अरे समराग्नि की ज्वाला से जलकर अवशिष्ट शूरवीर राजाओं ! इस भय से भयभीत
होने की कोई आवश्यकता नहीं जो कि तुम लोग युद्ध में मरे हुए हाथी और घोड़ों की ओट
में बैठ जाते हो ॥ ३७ ॥
आप लोग बतलाइये किस स्थान में पाञ्चाली [ द्रौपदी ] बैठी हुई है !
द्रौपदी—( चेतना प्राप्त कर ) रक्षा कीजिए महाराज !
कंचुकी—महाराजा पाण्डु की पतोहू ! उठिये उठिये । अब शीघ्र ही चिता में कूद
पड़ना ही श्रेयस्कर है ।
३१४ वेणीसंहारं नाटकं द्रौपदी - (सहसोत्थाय ।) कह ण संभावेमि अज्जवि चिदासमीवम् । (कथं न संभावयाम्यद्यापि चितासमीपम् ।) युधिष्ठिरः - कः कोऽत्र भोः । सनिषङ्गं धनुरुपनय । कथं न कश्चित्प- रिजनः । भवतु । बाहुयुद्धेन दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपात- यामि । (परिकरं बध्नाति ।) कञ्चुकी - देवि पाण्डुस्नुषे, संयम्यन्तामिदानीं नयनपथावरोधिनी दुःशासनावकृष्टा मूर्धजाः । अस्तमिता सम्प्रति प्रतीकाराशा । द्रुतं चिता- समीप सम्भावय । युधिष्ठिरः - कृष्णे, न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधनहतके संह- र्तव्याः केशाः । भीमसेनः - पाञ्चालि न खलु मयि जीवति संहर्तव्या दुःशासनविलु- लिता वेणिरात्मपाणिभ्याम् । तिष्ठतु तिष्ठतु । स्वयमेवाहं संहरामि । सनिषङ्गम् = सतूणीरम्, ज्वलनम् = अग्निम्, परिकरः = गात्रिकाबन्धः । संयम्यन्ताम् = बध्यन्ताम्, नयनोपरोधिनः = नेत्राच्छादिनः, दुःशासनावकृष्टाः = दुःशासनेनाकृष्टाः, मूर्धजाः = केशाः । कुतः स्वहस्तेनैव संयम्यन्तामित्याह अस्त- मिति । प्रतीकाराशा = शत्रुकृतपराभवनिवारणतृष्णा, सम्प्रति, अस्तम् = विनाशम्, सम्भावय = प्रापय, आत्मानमिति शेषः । अनिहते = अमारिते, दुर्योधनहतके = दुष्टदुर्योधने, संहर्तव्याः = बन्धनीयाः । मयि = भीमे, दुःशासनविलुलिता = दुःशासनेन सञ्चालिता वेणिः आत्मपाणि- भ्याम् = स्वहस्ताभ्याम् । द्रौपदी - (एकाएक उठकर) अब भी चिता के समीप क्यों नहीं पहुँच रहा हूँ ? युधिष्ठिर - कौन है कोई यहाँ है ? तूणीर के साथ मेरा धनुष ला दे । क्यों कोई मृत्य नहीं है । अच्छा, बाहुयुद्ध से गाढ़ आलिङ्गन करके हाथ-पैर तोड़कर चिता की जलती हुई आग में झोंक दूँगा । (फेंटा बाँधते हैं) कंचुकी - महारानी पाण्डु की पतोहू ! नेत्रों की दृष्टि के बाधक केशों को, जो दुःशासन के द्वारा खींचे गये हैं, बाँध डालिए । अब बदला चुकाने की आशा जाती रही । शीघ्र ही चिता के समीप गमन कीजिए । युधिष्ठिर - द्रौपदी ! उस दुरात्मा दुर्योधन के संहार हुए बिना केशों को न बाँधिए । भीमसेन - पाञ्चालपुत्रि ! मेरे जीवित रहते हुए दुःशासन के द्वारा बिगाड़ी हुई वेणी को अपने हाथ से न बाँधिए । ठहरिए, ठहरिए ! मैं स्वयं ही सुधारता हूँ ।
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१५ ( द्रौपदी भयादपसर्पति । ) भीमसेनः—तिष्ठ भीरु, क्वाधुना गम्यते । ( इति केशेषु ग्रहीतु- मिच्छति । ) युधिष्ठिरः—( वेगाद्भीममालिङ्ग्य ) दुरात्मन् ! भीमार्जुनशत्रो ! सुयो- धनहतक ! आशैशवादनुदिनं जनितापराधो मत्तो बलेन भुजयोर्हतराजपुत्रः । आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन्प्रयासि न पदात्पदमद्य पाप ॥ ३८ ॥ आलिङ्ग्य = गाढं संगृह्य, दुर्योधनबुद्धयेति भावः । अन्वयः— हे हतराजपुत्र !, पाप ! आशैशवात् अनुदिनम्, जनितापराध, भुजयोः, बलेन, मत्तः, मे, भुजपञ्जरस्य, इदम्, अन्तरम्, आसाद्य, अद्य, पदात्, पदम् अपि, जीवन्, न, प्रयासि ॥ ३८ ॥ न कुत्रापि यातुं शक्नोषीत्याह—आशैशवादिति । हे हतराजपुत्र = विनाशित- भीमार्जुन, अथवा, दुष्टक्षत्रिय ! पाप ! = पातकिन्, आशैशवात् = बाल्यादारभ्य, अनुदिनम् = दिने दिने, जनितापराधः = जनित उत्पादितः अपराधो येन सः, भुजयोः = बाह्वोः, बलेन, मत्तः = सदपः ( त्वम् ) मे = युधिष्ठिरस्य, भुजपञ्जरस्य = भुजौ पञ्जरम् पक्ष्यादिसंवेष्टनेगृहमिव, तस्य, इदम्, अन्तरम् = मध्यम्, आसाद्य = प्राप्य, अद्य = इदानीम्, पदात्, पदमपि = एकमपि पदम्, जीवन् = प्राणान् धारयन्, न, प्रयासि = प्रयास्यसि । मृत्त्वैवास्मान्निःसरिष्यति न जीवित इति भावः । वसन्ततिलका छन्दः ॥ ३८ ॥ ( द्रौपदी भय से दूर भाग जाती है ) भीमसेन—ठहरिए, ठहरिए, भीरु ! अब कहाँ जाती हो ? ( बालों को पकड़ कर, खींचना चाहते हैं ) युधिष्ठिर—( वेगपूर्वक भीम को भुजाओं से पकड़ कर ) दुष्ट, भीम और अर्जुन के शत्रु तथा नीच सुयोधन ! बाल्यकाल से लेकर अब तक प्रतिदिन अपराध करता गया है, बाहुओं के बल से मत्तवाला हो गया है और भीम प्रभृति राजकुमारों का वध कर डाला है । पापी ! [ तू आज मेरे भुजारूपी पिंजड़े के भीतर पहुँच कर जीवित रहते हुए एक पग भी आगे नहीं बढ़ सकता है ॥ ३८ ॥
३१६ वेणीसंहार नाटकं भीमसेनः—कथमार्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति ? देव अजातशत्रो, भीमार्जुनगुरो, यथैवाज्ञापयसि न तथैवैतत् । कञ्चुकी—( निरूप्य, सहर्षम् । ) महाराज, दिष्ट्या वर्धसे । अयं खल्वा- युष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीराडम्बरो दुर्लक्ष्यव्यक्तिः । अलमधुना सन्देहेन । चेटी—देवी णिवट्टीअदु णिवट्टीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुमं एव्व अण्णेसेदि । ( देवि, निवर्त्यतां निवर्त्य- ताम् । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्वेषयति । ) सुयोधनशङ्कया = दुर्योधनऽयमित्याकारकभ्रमेण, आलिङ्गति = निपीडयति । निरूप्य = विचारेण निश्चत्य, सहर्षमिति । हर्षो हेतुः 'नायं दुर्योधनः किन्तु- भीमोऽयमि'ति ज्ञानम् । दिष्ट्येति आनन्दे प्रयुज्यते । वर्द्धसे = समृद्धो भवसि, नायं दुर्योधनः भीमोऽयमिति युधिष्ठिरं बोधयति—आयुष्मानिति । सुयोधनक्षतजारुणीकृत- सकलशरीराडम्बरः = सुयोधनस्य क्षतजेन रुधिरेण अरुणीकृतानि रक्तीकृतानि सकल- शरीराणि येन स., दुर्लक्ष्यव्यक्तिः=दुर्लक्ष्या दुःखेन वोद्धु योग्या व्यक्तिः स्वरूपं यस्य सः, अथवा दुर्लक्ष्या चासौ व्यक्तिरिति कर्मधारयसमासः । एवमेव चेटी द्रोपदी बोधयति —एष इति । पूरितप्रतिज्ञाभारः=पूरितः सम्पा- 'दितः प्रतिज्ञाभार. दुर्योधनोरुभङ्गरूपः येन सः, वेणीसंहारम् = कवरीबन्धनम्, अन्वेषयति = गवेषयति । भीमसेन—हैं ! क्यों महाराज मुझे सुयोधन समझ कर क्रोधपूर्वक क्रूरता से मेरा आलिङ्गन करते हैं ? ऐ महाराज अजातशत्रु, भीम और अर्जुन के पूज्य ! जिस प्रकार आप कहते हैं यह बात वैसे ही नहीं है । कंचुकी—( समीप जाकर; प्रसन्नता से ) महाराज ! अभ्युदयकाल है । यह चिरंजीवी भीमसेन ही हैं । सुयोधन के घावों से निकलते हुए रक्त से रँग जाने के कारण इनका सम्पूर्ण शरीर अरुण [ लाल ] हो रहा है; अतएव पहचाने नहीं जा रहे थे, अब सन्देह न कीजिए । चेटी—महारानी जी, लौट आइए, लौट आइए ! यह स्वामी अपनी प्रतिज्ञा पूर्ण करके आपकी वेणी सुधारने के लिए ही ( आपका ) अन्वेषण कर रहे हैं ।
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१७ द्रौपदी—हञ्जे, किं मं अलीअवअणेहि आसासेसि । ( हञ्जे, किं मामली- कवचनैराश्वासयसि । ) युधिष्ठिरः—जयंधर, किं कथयसि, नायमनुजद्वेषी दुर्योधनहतकः ? भीमसेनः—देव अजातशत्रो, कुतोऽद्यापि दुर्योधनहतकः ? मया हि तस्य दुरात्मनः पाण्डुकुलपरिभाविनः— भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे लक्ष्मीरायें निषण्णा चतुरुदधिपयःसीमया सार्धमुर्व्या । भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ नामैकं यद् ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ॥३९॥ अलीकवचनैः = मिथ्यावचनैः, आश्वासयसि = सन्तोषयसि । अन्वयः - शरीरम्, भूमौ, क्षिप्तम्, निजाङ्गे, इदम्, असृक्चन्दनम्, निहितम्, चतुरुदधिपयःसीमया, उर्व्या, सार्द्धम्, लक्ष्मीः, आर्ये, निषण्णा, रणाग्नौ, भृत्याः मित्राणि, योधाः, एतत्, अखिलम्, कुरुकुलम्, दग्धम्, हे क्षितिप !, धार्तराष्ट्रस्य, एकम्, नाम, यद्, ब्रवीषि, अधुना तत् शेषम् ॥ ३९ ॥ मया पाण्डुकुलपरिभाविनः किं कृतमित्याह—मूमौ क्षिप्तमिति । शरीरमित्यत्र पाण्डुकुलपरिभाविन इत्यस्यान्वयः । एवमसृगादेरपि । चन्दनाभं = चन्दनतुल्यम् असृक् = रुधिरम्, चतुरुदधिपयःसीमया = चतुर्णां उदधीनां पयांसि सीमा यस्याः सा तया । उर्व्या = पृथिव्या, सार्द्धम् = साकम्, लक्ष्मीः, निषण्णा = स्थिता, रणा- ग्नौ = रणमेवाग्निरिति रूपकसमासः । यस्मिन्, नाम = सुयोधन इति, नामेवावशिष्टं सर्वाणि विनष्टानीति भावः । अत्र द्वितीयचरणे—सहोक्तिः, तृतीये—रूपकालङ्कारः स्रग्धरा छन्दः ॥ ३९ ॥ द्रौपदी—अरी ! क्यों असत्य वचनों से आशा दिला रही है ? युधिष्ठिर—जयन्धर ! क्या कहते हो, यह मेरे भ्राताओं का शत्रु दुष्ट दुर्योधन नहीं है ? भीमसेन—महाराज अजातशत्रो ! अब आज दुर्योधन कहाँ ? मैं पाण्डुवंश का तिरस्कार करने वाले उस दुष्ट के......। शरीर को पृथ्वी पर फेंक दिया हूँ। चन्दन के सदृश उसके रक्त को यह अपने शरीर में लगा लिया हूँ। उसकी राज्यश्री चारों समुद्र की सीमा तक की पृथ्वी के साथ आपके यहाँ विश्राम कर रही है। सेवक, मित्र और सैनिक वीर यहाँ तक कि सम्पूर्ण कुरुवंश इस रण की ज्वाला में भस्म हो चुके हैं, राजन् ! धार्तराष्ट्र (सुयोधन) का केवल नाम, बचा हुआ है जिसे आप उच्चारण कर रहे हैं, अर्थात् वह (दुर्योधन) मर गया ॥ ३९ ॥
३१८ वेणीसंहारं नाटकं (युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमाजयंति ।) भीमसेनः—(पादयोः पतित्वा ।) जयत्वार्यः । युधिष्ठिरः—वत्स, बाष्पजलान्तरितनयनत्वान्न पश्यामि तव मुख- चन्द्रम् । कथय कच्चिज्जीवति भवाञ्समं किरीटिना । भीमसेनः—निहतसकलरिपुपक्षे त्वयि नराधिपे, जीवति भीमोऽर्जुनश्च । युधिष्ठिरः—(पुनर्गाढमालिङ्ग्य ।) तात भीम, रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः प्रियो भ्राता सत्यं त्वमसि मम योऽसौ बकरिपुः । भीमसेनः—आर्य, सोऽहम् । अश्रूणि = नेत्रजलानि, प्रमाजयंति = प्रोञ्छयति । बाष्पजलान्तरितनयनत्वात् = बाष्पजलेन अन्तरिते मद्यीभूते इति यावत्, नयने यस्य तस्य भावः तस्मात् । किरीटिना = अर्जुनेन, समम् = साकम्, भवान्, कच्चित्, जीवतीत्यन्वयः । अन्वयः—रिपोः निधनम्, तावत्, आस्ताम् इदम्, शतशः, आख्याहि, यः, बकरिपु मम, प्रियः, भ्राता, भीमः (त्वम्) असि ? रुधिरासारसलिलेः, जरासन्धस्य, उरःसरसि, संयति, तटाघातक्रीडाललितमकरः, भवान् (अस्ति) ॥ रिपोरिति । रिपोः = शत्रोः निधनम् = मरणम्, तावत् आस्ताम् = तिष्ठतु, इदम्= मया जिज्ञासितम्, शतशः = भूयो भूयः, आख्याहि = कथय, यो, बकरिपुः = बका सुरस्य शत्रुः, मम, प्रियः, भ्राता, भीमः, असौ = मदग्रे उपस्थितः, (सः त्वम्) असि = भवसि । भीम एतच्छ्रुत्वा श्लोकस्य मध्य एवोत्तरमाह—आर्येति । रुधिरा- (युधिष्ठिर धीरे से छोड़ कर भीम को देखते हुए आँसू पोंछते हैं) भीमसेन—(पैरों पर गिर कर) आर्य की जय हो । युधिष्ठिर—वत्स ! आँसुओं से नेत्रों के भर जाने के कारण तुम्हारे मुखचन्द्र को देख नहीं रहा हूँ । कहो क्या तुम अर्जुन के साथ-साथ जीवित हो ? भीमसेन—सभी शत्रुपक्षीय लोग समाप्त हो चुके और (अब) आप ही सम्राट् हैं। भीम और अर्जुन भी जीवित हैं । युधिष्ठिर—(फिर से अच्छी तरह से आलिङ्गन कर) वत्स भीम ! शत्रु के नाश की वार्ता रहने दो, यह तो अनेक बार सुनाओ कि सत्य ही तुम बकासुर के शत्रु मेरे प्रिय अनुज (भीम) हो ? भीमसेन—आर्य ! वही हूँ !
षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१९ युधिष्ठिरः— जरासन्धस्योरःसरसि रुधिरासारसलिले तटाघातक्रीडाललितमकरः संयति भवान् ॥ ४० ॥ भीमसेनः—आर्य स एवाहम् । तन्मुञ्चतु मामार्यः क्षणमेकम् । युधिष्ठिरः—किमपरमवशिष्टम् । भीमसेनः—सुमहदवशिष्टम् । संयच्छामि तावदनेन सुयोधनशोणितो- क्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् । युधिष्ठिरः — गच्छतु भवान् । अनुभवतु तपस्विनी वेणी संहारमहोत्सवम् । भीमसेनः—( द्रौपद मुपमृत्य । ) देवि पाञ्चालराजतनये, दिष्ट्या वर्धसे रिपुकुलक्षयेण । सारसलिले = रुधिरासारः रक्तसम्पातः स एव सलिलं यस्मिन्, तस्मिन्, जरा- सन्धस्य = मगधराजस्य, उरःसरसि = वक्षोरूपजलाशये, संयति = संग्रामे, तटाघात- क्रीडाललितमकरः = तटेषु आघात एव क्रीडा तया ललितः हृष्ट मकरः ग्राहः तत्तुल्यः, ग्राह आनन्दार्थं तटाघातं करोतीति भावः । भवान्, अस्ति जरासन्धघात्येव भवान् स्तीति भावः । अत्र परम्परितरूपकमलङ्कारः । शिखरिणी छन्दः ॥ ४० ॥ मुञ्चतु = त्यजतु क्षणमिति = 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । सुमहत् = अत्यधिकम्, दुर्योधनशोणितोक्षितेन = दुर्योधनरुधिरलिप्तेन, पाणिना = करेण, दुःशासनावकृष्टम् = दुःशासनेनाकृष्टम्, केशहस्तम् = केशसमूहम्, संयच्छामि = बध्नामि । 'क्वचित् संयमयामि' इति पाठः । सत्वरम् = शीघ्रम् । तपस्विनी = द्रौपदी, वेणीसंहारमहोत्सवम् = वेणीसंहारः कबरीबन्धनम् स एव महानुत्सवः तम्, अनुभवतु = साक्षात्करोतु । युधिष्ठिर—आप रणस्थली के बीच जरासन्ध के हृदयरूपी सरोवर में, जो रुधिररूपी धारावर्षण के जल से पूर्ण है, तटाघात रूप क्रीडा में दक्ष मकर हैं ॥ ४० ॥ भीमसेन—आर्य ! वही मैं हूँ । एक क्षण के लिए महाराज मुझे अवकाश तो दीजिए । युधिष्ठिर—अब और क्या करना शेष रह गया है ? भीमसेन—बड़ा भारी कार्य रह गया है। पहले मैं दुर्योधन के रक्त में सने हुए इस हाथ से पाञ्चाली [ द्रौपदी ] की वेणी, जिसे दुःशासन ने खींच कर खोल दिया है, बाँध लूँ । युधिष्ठिर—जाइये आप, तपस्विनी अपनी वेणी सँवारे । भीमसेन—( द्रौपदी के समीप जाकर ) देवि ! पाञ्चालपुत्रि ! शत्रुकुल के नाश से आपका कल्याण हो ।
३२० वेणीसंहारं नाटकं द्रौपदी—( उपसृत्य ) जेदु जेदु णाहो ( जयतु जयतु नाथः । ) ( इति भयादपसर्पति । ) भीमसेनः—राजपुत्रि ! अलमलमेवविधं मामालोक्य त्रासेन ! कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि । कान्ते राज्ञः कुरूणामतिसरसमिदं मद्गदाचूर्णितोरो- रङ्गेऽङ्गेऽसृङ्निषक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥ ४१ ॥ भयादिति—बीभत्सवेषदर्शनादिति भावः । अपसर्पति = अन्यत्र गच्छति । अन्वयः—( हे ) कान्ते, राज्ञाम्, सदसि येन नृपशुना, तेन, दुःशासनेन, ( त्वम् ) आकृष्टा, असि, तस्य, स्त्यानानि एतानि, पीतशेषाणि, मम, करयोः, असृञ्जि स्पृश, मद्गदाचूर्णितोरोः, कुरूणाम्, राज्ञः अपि, (मम) अङ्गे, अङ्गे निष- क्तम्, इदम्, रुधिरम्, तव, परिभवजस्य अनलस्य, उपशान्त्यै ( भवतु ) ॥ ४१ ॥ अनेन वेषेण तव परिभवस्य प्रतीकारोऽभिव्यक्तो भवतीत्याह = कृष्टा येनेति । हे, कान्ते = कथनीयस्वरूपे !, राज्ञाम्, सदसि = सभायाम्, नृशुना = पशुतुल्यनरेण, तेन = दुराचारित्वेन प्रसिद्धेन, दुःशासनेन, आकृष्टा = बलादानीता, असि, तस्य = दुःशासनस्य, स्त्यानानि = निबिडानि, एतानि, पीतशेषाणि = पीतावशिष्टानि, मम = भीमस्य, करयोः = हस्तयोः स्थितानि, असृञ्जि = रुधिराणि, स्पृश तापशान्त्यायिति भावः । मद्गदाचूर्णितोरोः = मम गदया चूर्णितौ ऊरू यस्य तस्य, कुरूणाम्, राज्ञः = दुर्योधनस्य, अपि, मम, अङ्के अङ्गे = प्रत्यङ्गम, निषक्तम् = व्याप्तम्, लिप्तमित्यर्थः । इदम्, रुधिरम्, तव = द्रौपद्याः, परिभवजस्य, तवेत्यस्यैकदेशे परिभवेऽन्वयः । अभे- दान्वयस्थल एवैकदेशान्वयस्यासाधुत्वबोधनात् । अनलस्य = कोपाग्नेः, उपशान्त्यै, = शमनाय, भवतु । मदङ्गलिप्तरुधिरं दृष्ट्वा परिभवाग्नि शमय कथं पलायम इति भावः । स्रग्धरा छन्दः ॥ ४१ ॥ द्रौपदी—( समीप जाकर ) स्वामिन्, आपकी जय हो ! जय हो !!! ( डर कर हट जाती है ) भीमसेन—इस दशा में मुझे देखकर डरने की कोई आवश्यकता नहीं । जिस नरपशु दुःशासन के द्वारा राजाओं की सभा में तुम आकृष्ट की गई हो, उस (पापी) के मेरे पीने से बचे हुए और हाथ में लगे हुए इस गाढ़े रक्त का स्पर्श करो । प्रिये ! कुरुओं के राजा दुर्योधन की जाँघें मेरी गदा से भग्न कर डाली गई हैं, उनका रक्त जो मेरे प्रत्येक अङ्गों में लगा हुआ है, वह शत्रु के द्वारा उद्दीप्त तुम्हारी क्रोधाग्नि की शान्ति के लिए है ॥४१॥