भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 304, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 304

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २८५ रूढं सख्यं तदपि गणितं नानुजस्यानुजे मे । तुल्यः कामं भवतः शिष्ययोः स्नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम् ॥ २० ॥ (द्रौपदीमुपगम्य ।) अयि पाञ्चालि, - उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्च्छया किं मामेवमतिसंधत्से । भवतः, शिष्ययोः, स्नेहबन्धः, तुल्यः, कामम्, भवतु मन्दभाग्ये, मयि, त्वम्, यत्, विमुखः, असि, अयम्, कः, पन्था, ( अस्ति ) ॥ २० ॥ तत्पक्षपातकरणाभावेऽपि कथं पक्षपातः कृत इत्याह—ज्ञातिप्रीतिरिति । मन- सि=अन्तःकरणे, ज्ञातिप्रीतिः = बान्धवस्नेहः, भीमस्य ते पितृष्वस्रेयतया ज्ञातित्व- मित्यभिप्रायः । त्वया, न कृता = आचरिता, (सङ्केतकरणम् ), क्षत्रियाणाम्=राज- न्यानाम्, धर्मः = युक्ताचारः, न, ( तव ) अनुजस्य = कनिष्ठभ्रातुः, मे=मम, अनुजे= अवरजे, ( यत् ) रूढम्=प्रसिद्धम्, सख्यम्=सौहार्दम्, तदपि, न गणितम्, अनुज- सुहृदि, अणुरपि दया त्वया कार्येति भावः । भवतः = तव, शिष्ययोः=छात्रयोः, भीमदुर्योधनयोरित्यर्थः । स्नेहबन्धः = प्रीतिदृढता, तुल्यः = समः, कामम् = यथेच्छम्, भवतु = तिष्ठतु, तथा च पक्षपातोऽयुक्तं इति भावः । अपक्षपातकारणेषु सत्स्वपि पक्षपातकरणे स्वयमेव कारणमाह—मन्दभाग्य इति । मन्दभाग्ये, मयि = युधिष्ठिरे, यत्, त्वम्, विमुखः = प्रतिकूलः, असि, अयम्, कः, पन्थाः = मार्गः मम मन्दभाग्य- त्वहेतुनाऽनुचितमार्ग आसादितो भवतेति भावः । अत्र विमुखनिरूपितहेतोः पदार्थत्वेन काव्यलिङ्गमलङ्कारः । मन्दाक्रान्ता छन्दः ॥ २० ॥ उपगम्य = प्राप्य, समीपं गत्वेत्यर्थः । पाञ्चालि = द्रौपदि । समानदुःखौ =समानं दुःखं ययोः तौ, तुल्यदुःखभागिनावित्यर्थः । न तु त्वमधिकदुःखभागिनी भव, तदे- वाह— मूर्च्छयेति । माम् = युधिष्ठिरम्, अतिसन्धत्से = सन्धानम् सम्मेलनम् तस्या- तिक्रमणम् अतिसन्धानम् असम्मेलनम् भेद इत्यर्थः । अतुल्यत्वमिति यावत् । तत् सम्बन्धियों के प्रति सद्व्यवहार पर तो आपने ध्यान ही नहीं दिया, क्षत्रियधर्म का भी पालन नहीं किया और अर्जुन के साथ जो आपके कनिष्ठ भ्राता की घनिष्ठ मित्रता है उसको तृण बराबर भी आपने नहीं समझा । आपका दोनों शिष्यों में समान ही प्रेम होना चाहिये था । यह कौन सा मार्ग है जो मुझ अभागे से इस प्रकार आप रुष्ट हो गये हैं ? ॥ २० ॥ (द्रौपदी के समीप जाकर) अयि कृष्णे । उठिये, हम दोनों एक ही प्रकार के दुःख के भागी बनें । मूर्च्छित होकर मुझसे अधिक दुःखी क्यों होती हैं ?