वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 341, कुल 355 में से
संदर्भ में पढ़ें३२२ वेणीसंहारं नाटकं द्रौपदी -- णाह, विसुमरिवम्हि एदं वावारम् । णाहस्स पसादेण पुणो वि सिक्खिस्सम् । (-नाथ, विस्मृताऽस्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि शिक्षिष्यामि ।) ( भीमसेनो वेणीं बध्नाति ।) ( नेपथ्ये ।) महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय । क्रोधान्धैर्यस्य मोक्षात्कुरुनरपतिभिः पाण्डुपुत्रैः कृतानि । एतम्, व्यापारम् = केशबन्धनरूपक्रियाम् । शिक्षिष्यामीति = यद्यपि शिक्षधातुरनुदात्तेतात्मनेपदी तथापि चक्षिङो ङित्करणा- ज्ज्ञापितया 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' इति परिभाषया परस्मैपदम् । अत एव शिशुपालवधकाव्ये चतुर्थसर्गे रैवतकगिरिवर्णनपरके-'उदयति विततोर्ध्वरश्मिर- ज्जावि' ति श्लोके - 'उदयति' इति उत्पूूर्वकादयधातोः परस्य लटः शत्रादेशः साधु- सङ्गच्छते । केचित्तु 'चान्द्रायस्तु मन्यन्ते सर्वस्मादुभयं पदम्' इति न्यायसुधोक्ते- श्चान्द्रमते सर्वेभ्यो धातुभ्य उभयपदं भवतीति 'शिक्षिष्यामि' इत्यत्र लुटः स्थाने पर- स्मैपदमिति वदन्ति । क्वचित्तु-'शिक्षिष्ये' इत्येव पाठो निवेशितः । अन्वयः- यस्य, मोक्षात्, क्रोधान्धैः अतुलभुजबलेः, पाण्डुपुत्रैः, कुरुनरपतिभिः, प्रत्याशम्, पार्थिवान्तःपुराणि, मुक्तकेशानि, कृतानि, सः, अयम्, कुपितयमसखः, कुरूणाम्, धूमकेतुः, कृष्णायाः, केशपाशः, बद्धः, ( अतः ) प्रजानाम्, निधनम्, विर- मतु, राज्ञाम्, कुलेभ्यः, स्वस्ति ( अस्तु ) ॥ ४२ ॥ आकाशे देवादिभिरुक्तमाह - क्रोधान्धैरिति । तस्य = केशस्य, मोक्षात् = मुक्तेः, क्रोधान्धैः = अतिकुपितैः, अत एव द्रोणादीनामपि वधोऽकारीति भावः, अतुलभुज- बलैः = अतिपराक्रमिभिः, पाण्डुपुत्रैः, कुरुनरपतिभिः = दुर्योधनादिभिः, ( च ) चेन विनापि क्वचित्समुच्चयस्य प्रतीतिर्भवत्येव । प्रत्याशम् = प्रतिदिक्, पार्थिवान्तः- पुराणि = राज्ञां स्त्र्यगाराणि, मुक्तकेशानि = अबद्धकचानि, कृतानि, स्वामिनां, हननेन द्रौपदी-नाथ ! इस कार्य को तो भूल ही गई हूँ । स्वामी के प्रसाद से फिर भी सीख लूँगी । ( भीमसेन वेणी बाँधते हैं ) ( नेपथ्य में ) भीषण समराग्नि में जलकर बचे हुए राजकुलों का कल्याण हो । जिसके छूट जाने से क्रोधान्ध पाण्डुपुत्रों के द्वारा, जिन्होंने राजाओं का संहार किया