भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 341, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 341

३२२ वेणीसंहारं नाटकं द्रौपदी -- णाह, विसुमरिवम्हि एदं वावारम् । णाहस्स पसादेण पुणो वि सिक्खिस्सम् । (-नाथ, विस्मृताऽस्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि शिक्षिष्यामि ।) ( भीमसेनो वेणीं बध्नाति ।) ( नेपथ्ये ।) महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय । क्रोधान्धैर्यस्य मोक्षात्कुरुनरपतिभिः पाण्डुपुत्रैः कृतानि । एतम्, व्यापारम् = केशबन्धनरूपक्रियाम् । शिक्षिष्यामीति = यद्यपि शिक्षधातुरनुदात्तेतात्मनेपदी तथापि चक्षिङो ङित्करणा- ज्ज्ञापितया 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' इति परिभाषया परस्मैपदम् । अत एव शिशुपालवधकाव्ये चतुर्थसर्गे रैवतकगिरिवर्णनपरके-'उदयति विततोर्ध्वरश्मिर- ज्जावि' ति श्लोके - 'उदयति' इति उत्पूूर्वकादयधातोः परस्य लटः शत्रादेशः साधु- सङ्गच्छते । केचित्तु 'चान्द्रायस्तु मन्यन्ते सर्वस्मादुभयं पदम्' इति न्यायसुधोक्ते- श्चान्द्रमते सर्वेभ्यो धातुभ्य उभयपदं भवतीति 'शिक्षिष्यामि' इत्यत्र लुटः स्थाने पर- स्मैपदमिति वदन्ति । क्वचित्तु-'शिक्षिष्ये' इत्येव पाठो निवेशितः । अन्वयः- यस्य, मोक्षात्, क्रोधान्धैः अतुलभुजबलेः, पाण्डुपुत्रैः, कुरुनरपतिभिः, प्रत्याशम्, पार्थिवान्तःपुराणि, मुक्तकेशानि, कृतानि, सः, अयम्, कुपितयमसखः, कुरूणाम्, धूमकेतुः, कृष्णायाः, केशपाशः, बद्धः, ( अतः ) प्रजानाम्, निधनम्, विर- मतु, राज्ञाम्, कुलेभ्यः, स्वस्ति ( अस्तु ) ॥ ४२ ॥ आकाशे देवादिभिरुक्तमाह - क्रोधान्धैरिति । तस्य = केशस्य, मोक्षात् = मुक्तेः, क्रोधान्धैः = अतिकुपितैः, अत एव द्रोणादीनामपि वधोऽकारीति भावः, अतुलभुज- बलैः = अतिपराक्रमिभिः, पाण्डुपुत्रैः, कुरुनरपतिभिः = दुर्योधनादिभिः, ( च ) चेन विनापि क्वचित्समुच्चयस्य प्रतीतिर्भवत्येव । प्रत्याशम् = प्रतिदिक्, पार्थिवान्तः- पुराणि = राज्ञां स्त्र्यगाराणि, मुक्तकेशानि = अबद्धकचानि, कृतानि, स्वामिनां, हननेन द्रौपदी-नाथ ! इस कार्य को तो भूल ही गई हूँ । स्वामी के प्रसाद से फिर भी सीख लूँगी । ( भीमसेन वेणी बाँधते हैं ) ( नेपथ्य में ) भीषण समराग्नि में जलकर बचे हुए राजकुलों का कल्याण हो । जिसके छूट जाने से क्रोधान्ध पाण्डुपुत्रों के द्वारा, जिन्होंने राजाओं का संहार किया