भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

३२२ वेणीसंहारं नाटकं द्रौपदी -- णाह, विसुमरिवम्हि एदं वावारम् । णाहस्स पसादेण पुणो वि सिक्खिस्सम् । (-नाथ, विस्मृताऽस्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि शिक्षिष्यामि ।) ( भीमसेनो वेणीं बध्नाति ।) ( नेपथ्ये ।) महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय । क्रोधान्धैर्यस्य मोक्षात्कुरुनरपतिभिः पाण्डुपुत्रैः कृतानि । एतम्, व्यापारम् = केशबन्धनरूपक्रियाम् । शिक्षिष्यामीति = यद्यपि शिक्षधातुरनुदात्तेतात्मनेपदी तथापि चक्षिङो ङित्करणा- ज्ज्ञापितया 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' इति परिभाषया परस्मैपदम् । अत एव शिशुपालवधकाव्ये चतुर्थसर्गे रैवतकगिरिवर्णनपरके-'उदयति विततोर्ध्वरश्मिर- ज्जावि' ति श्लोके - 'उदयति' इति उत्पूूर्वकादयधातोः परस्य लटः शत्रादेशः साधु- सङ्गच्छते । केचित्तु 'चान्द्रायस्तु मन्यन्ते सर्वस्मादुभयं पदम्' इति न्यायसुधोक्ते- श्चान्द्रमते सर्वेभ्यो धातुभ्य उभयपदं भवतीति 'शिक्षिष्यामि' इत्यत्र लुटः स्थाने पर- स्मैपदमिति वदन्ति । क्वचित्तु-'शिक्षिष्ये' इत्येव पाठो निवेशितः । अन्वयः- यस्य, मोक्षात्, क्रोधान्धैः अतुलभुजबलेः, पाण्डुपुत्रैः, कुरुनरपतिभिः, प्रत्याशम्, पार्थिवान्तःपुराणि, मुक्तकेशानि, कृतानि, सः, अयम्, कुपितयमसखः, कुरूणाम्, धूमकेतुः, कृष्णायाः, केशपाशः, बद्धः, ( अतः ) प्रजानाम्, निधनम्, विर- मतु, राज्ञाम्, कुलेभ्यः, स्वस्ति ( अस्तु ) ॥ ४२ ॥ आकाशे देवादिभिरुक्तमाह - क्रोधान्धैरिति । तस्य = केशस्य, मोक्षात् = मुक्तेः, क्रोधान्धैः = अतिकुपितैः, अत एव द्रोणादीनामपि वधोऽकारीति भावः, अतुलभुज- बलैः = अतिपराक्रमिभिः, पाण्डुपुत्रैः, कुरुनरपतिभिः = दुर्योधनादिभिः, ( च ) चेन विनापि क्वचित्समुच्चयस्य प्रतीतिर्भवत्येव । प्रत्याशम् = प्रतिदिक्, पार्थिवान्तः- पुराणि = राज्ञां स्त्र्यगाराणि, मुक्तकेशानि = अबद्धकचानि, कृतानि, स्वामिनां, हननेन द्रौपदी-नाथ ! इस कार्य को तो भूल ही गई हूँ । स्वामी के प्रसाद से फिर भी सीख लूँगी । ( भीमसेन वेणी बाँधते हैं ) ( नेपथ्य में ) भीषण समराग्नि में जलकर बचे हुए राजकुलों का कल्याण हो । जिसके छूट जाने से क्रोधान्ध पाण्डुपुत्रों के द्वारा, जिन्होंने राजाओं का संहार किया

• षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२३ प्रत्याशं मुक्तकेशान्त्यनुदिनमधुना पार्थिवान्तःपुराणि । कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां दिष्ट्या बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः ॥४२॥ युधिष्ठिरः—देवि, एष ते मूर्द्धजानां वेणीसंहारोऽभिनन्द्यते नभस्तल- सञ्चारिणा सिद्धजनेन । ( ततः प्रविशतः कृष्णार्जुनौ । ) कृष्णः—( युधिष्ठिरमुपगम्य । ) विजयतां निहतसकलारातिमण्डलः सानुजो युधिष्ठिरः । स्त्रीणां वैधव्यप्रापणाद् वैधवायाः केशबन्धनस्य निषिद्धत्वादिति भावः । सः, अयम्= उपस्थितः, कुपितयमसखः = क्रुद्धकालस्य सखा, नाशहेतुसाम्यादिति भावः । कुरूणाम्, धूमकेतुः = उत्पातग्रहतुल्यः 'धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयः' इति विश्वः । कृष्णायाः = द्रौपद्याः, केशपाशः चूडा, बद्धः = संयतः, ( अतः ) प्रजानाम्, निधनम् = मरणम्, विरमतु=विरतो भवतु । 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् । राज्ञाम्, कुलेभ्यः = वंशेभ्यः, वा समूहेभ्यः, स्वस्ति = मङ्गलम्, भवत्विति शेषः । उत्पातग्रहस्य प्रशमादुत्पातोऽपि शान्तो भवतीति भावः । अत्र द्वितीयचरणे, पाण्डवा- दिभिर्निखिला भूततयी हृता इति भङ्ग्या प्रतिपादनात्पर्यायोक्तलङ्कारः स्रग्धरा छन्दः ॥ ४२ ॥ वेणीसंहारः = केशस्य संयमनम्, अभिनन्द्यते = स्तूयते, आद्रियत इति वा । नभस्तलसञ्चारिणा = आकाशमार्गेण गन्त्रा, सिद्धजनेन = देवगन्धर्वादिना । • ततः प्रविशत इति = युद्धभूमेः कृष्णार्जुनौ युधिष्ठिरसविध आगताविति भावः । निहतसकलारातिमण्डलः=निहतं विनाशितं सकलारातिमण्डलं निखिलशत्रु- हैं, राजरानियों के केशकलाप दिन दिन समग्र दिशाओं में विक्षिप्त हो गए हैं [ राजाओं की रमणियाँ संग्राम में पतियों के मर जाने से केश खोलकर वैधव्यावस्था का अनुभव करती हैं ] वह क्रुद्ध होने पर यमराज का मित्र, कौरवों के लिए धूमकेतु कृष्णा का केश- पाश भाग्य से बँध गया । प्रजावर्ग की मृत्यु का अब अन्त हो जाय और राजाओं में वंशों का कल्याण हो ॥ ४२ ॥ युधिष्ठिर—कल्याणि ! अन्तरिक्षचारी सिद्धजनों के द्वारा भी आपके केशकलापों के संहार [ सँवारना ] का अभिनन्दन किया गया ! ( इसके अनन्तर कृष्ण और अर्जुन का प्रवेश ) कृष्ण—( युधिष्ठिर के समीप जाकर ) भ्राताओं के सहित युधिष्ठिर की, जिनके सम्पूर्ण शत्रुसमूहों का संहार हो चुका है, विजय हो ।

१२४ वेणीसंहारं नाटकं अर्जुनः—जयत्वार्यः । युधिष्ठिरः ( विलोक्य । ) अये, भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । देव, अभिवादये । ( किरीटिनं प्रति ) एह्येहि वत्स, परिष्वजस्व माम् । ( अर्जुनः प्रणमति । ) युधिष्ठिरः—( वासुदेवं प्रति ) कुतस्तस्य विजयादन्यद्यस्य भगवान्पुण्डरी- काक्षो नारायणः स्वयं मङ्गलान्याशास्ते । कृतगुरुमहदादिक्षोभसंभूतभूति गुणिनमुदयनाशस्थानहेतुं प्रजानाम् । समुदायो येन सः, सानुजः = सावरजः, पाण्डवकुलचन्द्रः = पाण्डवकुले चन्द्र इव । एहि = आगच्छ, परिष्वजस्व = आलिङ्गय । प्रतीति, कथयतीति शेषः । पुण्डरीकाक्षः=पुण्डरीकं कमलं तद्वदक्षिणी यस्य सः 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच्प्रत्ययः । 'यस्येति च' इतीकारलोपः । मङ्गलानि = शुभानि, आशास्ते = इच्छति । अन्वयः—( हे ) देव ! कृतगुरुमहदादिक्षोभसम्भूतभूतिम्, गुणिनम्, प्रजानाम् उदयनाशस्थानहेतुम्, अजम्, अमरम्, अचिन्त्यम्, त्वाम् चिन्तयित्वा, अपि, जगति, ( जनः ) दुःखी, न भवति, किम्, पुनः दृष्ट्वा, ( भविष्यति ! ) । : ४३ ॥ सकलसंसारहेतुभूतस्य नित्यानन्दपरब्रह्मणस्तव चिन्तनेनापि जनो दुःखनिर्मुक्तो भवति, साक्षात्कारे तु दुःखस्य सम्भावनाऽपि नास्तीत्याह—कृतेति । ( हे ) देव = संसारचक्रेण क्रीडक ! क्रीडाद्यर्थकदिवधातोः पचादित्वादच्प्रत्यय । कृतगुरुमहदा- दिक्षोभसम्भूतभूतिम् = कृताः अनित्या ये गुरवः श्रेष्ठाः, कारणत्वादिति भाव । मह- दादयः महदहङ्कारस्तन्मात्राः प्रकृतिविकृतयः तदुक्तं सांख्यतत्त्वकौमुद्याम्— महदाद्याः प्रकृतिविकृतयः सप्त इति प्रकृतेर्महांस्ततोऽहङ्कारः, तस्माद्गणश्च षोडशकः । इति च । तेषां क्षोभेण परिणामेन, सम्भूता उत्पन्ना मूर्तिः जगत् यत्र तम्, अथवा कृता अर्जुन—आप की जय हो । युधिष्ठिर—( देखकर ) अये ! कमलोचन भगवान् वासुदेव और वत्स अर्जुन ! भग- वान् वासुदेव ! साष्टाङ्गपात प्रणाम । ( अर्जुन के प्रति ) प्रिय भ्राता ! आओ आओ मुझसे मिलो । ( अर्जुन प्रणाम करते हैं ) युधिष्ठिर—( वासुदेव के प्रति ) उस व्यक्ति के लिए, जिसके मङ्गल की कामना पुराण पुरुष भगवान् नारायण करते हैं, विजय के अतिरिक्त दूसरा कैसे हो सकता है । हे देव, स्वीय परिणाम से उत्पन्न, गुरु = पृथिवी, जल, तेज वायु, आकाश इत्यादि और महत्तत्त्वादिकों के क्षुभित होने से अर्थात् सृष्टि के अनुगुण प्रवृत्ति से सम्भूत मूर्ति अर्थात्

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२५ अजममरमचिन्त्यं चिन्तयित्वाऽपि न त्वां भवति जगति दुःखी किं पुनर्दैवं दृष्ट्वा ॥ ४३ ॥ कल्पिता गुरुमहदादिक्षोभसम्भूतमुर्तिः, गुरूणि पञ्चभूतानि, महदादयः, अन्तकरणादि- तत्त्वानि तेषां क्षोभेण मेलनेन सम्भूता या मूर्तिः शरीरं मा येन तम्, काल्पनिकमेव ते शरीरम् अतएव 'अरूपमव्ययम्' इत्यपि संगच्छते, शरीरस्य वास्तविकत्वे रूप- वत्त्वादिनाशितात्त्वान्नोक्ता श्रुतिर्विरुध्येतेति भावः । गुणिनम् = सत्त्वरजस्तमोगुणो- पाध्यवच्छिन्नम्, मायाशवलितमित्यर्थः । परब्रह्मणो मायासाहाय्येन सृष्टिककरणादिति भावः । अत एव, प्रजानाम् = जनानाम्, उदयनाशस्थानहेतुम् = उदयः उत्पत्तिः, नाशः प्रलयः, स्थानं स्थितिः जीवनमित्यर्थः, तेषां हेतुः = उपादानकारणम् । तदुक्तं तैत्तिरीये— ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि- शन्ति ।' इति । त्वमेव जगतामुत्पत्तिस्थितिविनाशकारणमित्यर्थः । अजम् = अजन्यम्, न तव कदाऽ- प्युत्पत्तिरिति भावः । तदुक्तं मुण्डके—‘स वाह्याभ्यन्तरो ह्यजः' । इति कठोपनिषदि — 'न जायते म्रियते वा विपश्चित्' । इति च । अमरम् = मृत्युरहितं नित्यमित्यर्थः । तदुक्तं प्रश्नोपनिषदि—'स एषोऽजोऽमृतो भवति' । इति । बृहदारण्यकेऽपि -- 'तेजोमयोऽमृतमयः पुरुषः' । इति । त्वमेव परं ब्रह्मेति कथं त्वं जन्यो मृतो वा स्या इति भावः । अचिन्त्यम्=ध्यातु- मप्यशक्यम्, तव चिन्तामपि कर्तुं न शक्नुवन्ति जना इति भावः । तदुक्तं कठोप- निषदि— ‘न नरेणावरेण प्रोक्त एष विज्ञेयो, बहुधा चिन्त्यमानः' । इति । 'नैव वाचा न मनसा, प्राप्तुं शक्यो न चक्षुषा' । इति । 'नैषा तर्केण मतिरापनेया' । इति च । एषा आत्मविषयिणी, आपनेया = प्रापण्या । त्वाम् = परब्रह्मस्वरूपम् । तदुक्तं भागवते—'कृष्णस्तु भगवान् स्वयम्' । इति । चिन्तयित्वा = अध्यात्मयोगाधिगमेन ध्यात्वा यद्यपि पूर्वोक्तश्रुत्या ध्यानविष- अवतार धारण करने वाले गुणी = सत्त्व, रज, तम इत्यादि तीन प्रकार की उपाधियों से विशिष्ट संसार के चर और अचर प्राणियों के जन्म, पालन और संहार करने वाले, अजन्मा, अमर और ध्यान में न आने वाले अर्थात् आकृतिहीन आपका स्मरण करके ही इस संसार में कोई दुखी नहीं रह सकता और आपका दर्शन हो जाने पर तो कहना ही क्या है ? ॥ ४३ ॥

३२६ वेणीसंहारं नाटकं ( अर्जुनमालिङ्ग्य । ) वत्स, परिष्वजस्व माम् । कृष्णः—महाराज युधिष्ठिर, व्यासोऽयं भगवानमी च मुनयो वाल्मीकिरामादयो- योगेपि न त्वं भवितुमर्हसि, तथापि अव्यात्मयोगं प्राप्यैव ज्ञातुं शक्यत इति गूढामि- प्रायः । अत एवोक्तं तत्रैव—'अध्यात्मयोगाधिगमेन देवं मत्वा ।' इति । अपि, जगति=संसारे, इह लोके परलोके इत्यर्थः । ( जनः ) दुःखी=शोका- कुलः न, भवति, तदुक्तं छान्दोग्ये— 'एतं सेतुमहोरात्रे तरतो न जरा, न मृत्युर्न शोको न सुकृतं न दुष्कृतम् ।' इति । किम्, पुनः, दृष्ट्वा = साक्षात्कृत्य, दुःखी भविष्यति न कथमपि दुःखी भविष्य- तीत्यर्थः । यस्य चिन्तने, न दुःखं तस्य दर्शने कथं दुःखं स्यादिति भावः । तदुक्तं कठे-'यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्- भूयो न जायते ।' इति । अनेन, दुःखकारणस्य जन्मनो निषेधादत्यन्तं दुःखाभावो दर्शितः । कारणभावे कार्यस्यात्यन्तमसम्भावितत्वादिति भावः । अत एवोक्तम् 'तरति शोकमात्मवित्' इति । आत्मवित् परब्रह्मणः साक्षात्कारकर्ता । तरणञ्च मग्नत्वविरोधीति विरुद्धयोः एक- त्रानवस्थानान्न दुःखलेशोऽपीति भावः । अनेन श्लोकेन युधिष्ठिरस्य महत्तत्वं सूचितं कविना । अत्र विरोधापत्तिरलङ्कारो । मालिनी छन्दः ॥ ४३ ॥ अन्वयः—अयम्, भगवान्, व्यासः, अमी, वाल्मीकिरामादयः, मुनयः, च, ला- ङ्गलि विधेयैः, मागधमत्स्ययादवकुलैः समं तं, राज्याभिषेकाय, स्कन्दोत्तम्भिततीर्थवारि- कलशाः, माद्रीसुताधिष्ठिताः धृष्टद्युम्नमुख्याः, सैन्यपतयः, प्राप्ताः ( अनुक्तमेव ) । अहं त्वरिततरमायातो व्यासादयोऽपि तव राज्याभिषेकं कर्तुं त्वरितमेवागच्छ- न्तीति कृष्णः कथयति व्यास इति । अयम् भगवान् = ईश्वरः, ईश्वरत्वन्तु व्यासस्य, 'व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।' इति वचनात् । व्यासः=पाराशर्यः, अमी वाल्मीकिरामादयः = वाल्मीकिः, एतन्नामको रामचरितस्य रचयिता मुनि- विशेषः, रामः = परशुरामः, तत्प्रभृतयः, मुनयः, मागधमत्स्ययादवकुलैः=मगधानां राजेति मागधः, तद्राजेत्यन्वर्थसंज्ञाबलाद्राजन्यपि 'द्व्यचोमागधप्रत्यङ् । मत्स्यानां राजान इति मत्स्याः, अत्रापि तेनैवाण् । 'तद्राजस्य बहुष्वि'ति, तस्य लुक् । ( अर्जुन से मिलकर ) वत्स ! मुझसे मिलो । कृष्ण—महाराज युधिष्ठिर ! ये भगवान् व्यासदेव, वाल्मीकि, परशुराम प्रभृति महर्षि लोग, नकुल सहदेव के

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२७ धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः । प्राप्ता मागधमत्स्ययादवकुलैराज्ञाविधेयैः समं स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥ ४४ ॥ अहं पुनश्चार्वाकेण रक्षसा व्याकुलीकृतं भवन्तमुपलब्ध्यार्जुनेन सह त्वरिततरमायाततः । युधिष्ठिरः—कथं चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः । भीमसेनः—( सरोपम् । ) क्वासौ धार्तराष्ट्रसखो राक्षसः पुण्यजनाप- सदो येनार्यस्य महांश्चित्तविभ्रमः कृतः । कृष्णः—निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज, किम- यादवा यदुवंशजाताः तेषां कुलैः, समम् = सह, 'साकं सत्रा समं सह' इत्यमरः । ते, राज्याभिषेकाय, स्कन्धोत्तम्भिततीर्थवारिकलशाः = स्कन्धेनोत्तम्भिता, उत्थापिताः तीर्थवारिकलशा यैः ते, माद्रीसुताधिष्ठिताः=नकुलसहदेवाध्यक्षा, धृष्टद्युम्नमुखाः=द्रुप- दपुत्रप्रधाना, सैन्यपतयश्च अनुपदमिवेत्यस्याध्याहारः तथा च ते अनुपदमेव, प्राप्ता झटित्येवागच्छन्तीति भावः । नतु उपस्थिता सन्तीत्यर्थो युक्तः, अहं पुनरित्याद्यग्रिम- ग्रन्थविरोधात् पूर्वं तेषामागपने त्वरिततरत्वं विहन्येतेति । क्वचित्पुस्तकेऽयं श्लोको नास्ति परमैतदर्थंकगद्यमेवास्ति । शार्दूलविक्रीडितं छन्दः ॥ ४४ ॥ उपलब्ध्ध=ज्ञात्वा, त्वरिततम = अतिशीघ्रम् । एवम्=भीमः पराजित इत्यादिप्रकारेण, विप्रलब्धाः=वञ्चिताः । धार्तराष्ट्रसखः=दुर्योधनमित्रम्, राजाहःसखिभ्यः' इति टच्; पुण्यजनापसदः= राक्षसेषु नीचः 'पुण्यजनो, नैर्ऋतो यातुराक्षसी' इत्यमरः । निगृहीतः=बद्धः, समीहितम् = अभिलषितम् । नियन्त्रण में धृष्टद्युम्न प्रभृति सेनापति तथा आज्ञारत मागध, मत्स्य और यदुवंशियों के साथ कन्धे पर तीर्थजल से पूर्ण कलश रखे हुए आपके राज्याभिषेक के लिए आए हुए हैं ॥ मैं यह देख कर कि आप चार्वाक राक्षस के कपटों से व्याकुल हो रहे हैं, अर्जुन को लेकर शीघ्र ही आया हूं । युधिष्ठिर—चार्वाक राक्षस के द्वारा क्यों हम लोग प्रतारित हुए ? भीमसेन—( क्रोधपूर्वक ) दुर्योधन का मित्र तथा राक्षसों में नीच वह राक्षस कहाँ है ? जिसने महाराज को व्याकुल कर दिया । कृष्ण—नकुल के द्वारा वह दुष्ट पकड़ लिया गया है । अतः कहिए महाराज, इसके

३२८ वेणीसंहारं नाटकं

स्मात्परं समीहितं संपादयामि । युधिष्ठिरः -- न किंचिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधार- णया बुद्ध्या संतुष्टोऽस्मि । न खल्वतः परम्भ्यर्थयितुं क्षमः । पश्यतु देवः- क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः । त्वं देवः पुरुषोत्तमः सुकृतिनं मामाहृतो भाषसे किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम् ॥ ४५ ॥ प्रीततरश्चेद भगवांस्तदिदमस्तु- पुरुषसाधारणया = अल्पया, अभ्यर्थयितुम्=याचितुम् । अन्वयः-क्रोधान्धैः सकलम्, रिपुकुलम्, हतम्, ते, वयम्, पञ्च, अक्षता, मम, दुर्नयोपजनितः, पाञ्चाल्या, निकारार्णवः, तीर्णः, देवः, पुरुषोत्तमः, आदृतः, त्वम्, सुकृतिनम्, माम्, भाषसे, प्रसन्नाद्, भगवतः, अतः, परम्, अन्यत्, अहम्, किन्नाम, याचे ॥ ४५ ॥ क्रोधान्धैरिति । क्रोधान्धैः अस्माभिरिति शेषः रिपुकुलम्=शत्रुवंशः, अक्षताः = कुशलाः, दुर्नयोपजनितः = दुष्टनीत्या द्यूतादिरूपया, उपजनितः उत्पादितः निकारा- र्णवः = समुद्रतुल्यापमानम्, तीर्णः, अस्माभिरिति भावः । सुकृतिनम् =पुण्यवन्तम्, मत्वेति शेषः । नातः परमभीष्टमस्ति यदहं याच इति भावः । शार्दूलविक्रीडितं छन्दः ॥ ४५ ॥ प्रीततरः-अतिप्रसन्नः । अनन्तर अब आपकी क्या इच्छा हैं जो हम लोग करें । युधिष्ठिर - 'भगवान् प्रसन्न होकर कुछ नहीं देते' यह बात तो नहीं है। मै पुरुष साधारण की बुद्धि से सन्तुष्ट हो रहा हूँ । इसके आगे याचना करने में मैं समर्थ नहीं हूँ । क्रोध के वश होने पर सम्पूर्ण शत्रु वंश का संहार कर लिया और पाँचो भ्राता हम लोग सुरक्षित रह गए, पाञ्चाली (द्रौपदी) ने मेरी दुर्नीति से उत्पन्न पराभवरूप समुद्र को पार कर लिया तथा आप पुरुषोत्तम भगवान् आदर के साथ मुझ सुकृति व्यक्ति से भाषण कर रहे है । अब इससे बढ़ कर और दूसरी क्या वस्तु है जिसके लिए मै भगवन् ! प्रसन्न आपसे अभ्यर्थना करूँ ॥ ४५ ॥ यदि भगवान् अधिक प्रसन्न हों तो यह आशीर्वाद दें-

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२९ अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषं भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे । दयितभुवनो विद्वद्वन्धुर्गुणेषु विशेषवि- त्सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः ॥ ४६ ॥ कृष्णः—एवमस्तु । ( इति निष्क्रान्ताः सर्वे । ) इति षष्ठोऽङ्कः । अन्वयः—अकृपणमतिः, जनः पुरुषायुषम्, कामम्, जीव्यात्, हे भगवन्, द्वैतम्, विना, पुरुषोत्तमे, भक्तिः, भवतु, दयितभुवनः, विद्वद्बन्धुः, गुणेषु, विशेषवित्, (भवतु) सततसुकृती, भूपः, प्रसाधितमण्डलः, ( भवतु ) ॥ ४६ ॥ लोकस्य कल्याणार्थं युधिष्ठिरो वरमभ्यर्थयते—अकृपणेति । अकृपणमतिः = क्षुद्रबुद्धिरहितः जनः, विशालबुद्धिरिति यावत्, पुरुषायुषम् = यावच्छास्त्रे पुरुषस्यायुः निर्धारितं तावत्, शतं वर्षाणीति तु निकृष्टार्थः । तदुक्तं श्रुतौ—'शतायुर्वे पुरुषः' इति । कामम् = यथेष्टम्, जीव्यात्, जीवधातोराशीषि 'आशिषि लिङ्लोटौ इति लिङ् । (हे) भगवन्, द्वैतम् = भेदबुद्धिम्, विना, अद्वैतरूपेणेत्यर्थः । पुरुषोत्तमे = पुरुषश्रेष्ठे त्वयि, भक्तिः=अनुरागः, जन इत्यस्य विभक्तिपरिणामेनाऽप्यन्वयः । भवतु, 'संसाराद् विरक्तानामभ्यर्हितत्वात्तदर्थं पूर्वं वरं याचित्वा संसारेष्वासक्तार्थं पश्चाद् याचते—दयितेति । दयितभुवनः = प्रियसंसारः, विद्वद्वन्धुः=पण्डितबान्धवः सन् गुणेषु विशेषवित्=विवेचकः, गुणज्ञ इति समुदितार्थः । भवतु एवं कृते सति विद्वद्भ्यो गुण- प्राप्तेर्ज्ञानोदयात्तस्यापि संसारदुःखाद्विमुक्तिः स्यादिति भावः । सततसुकृती = सततं पुण्यकर्माचारी, भूपः = नृपः, प्रसाधितमण्डलः==स्वायत्तीकृतदिङ्मण्डलः, भवतु । पृथिव्यां राजानः पुण्यवन्त एव भवन्त्विति भावः । हरिणी छन्दः ॥ ४६ ॥ इति पण्डितश्रीरामदेवज्ञान्यायव्याकरणाचार्येण मैथिलेन विरचितायां प्रबोधिनीव्याख्यायां षष्ठोऽङ्कः । लोग कृपण और रोगों से व्यथित न होकर पुरुष की आयुर्दाय के अनुकूल जीवित रहें । हे भगवन् ! बिना किसी सन्देह के पुरुषोत्तम भगवान् में भक्ति हो । राजा समस्त लोकों से प्रेम करते हुए, विद्वानों का पोषक बनते हुए और गुणों की महत्ता पर विशेष ध्यान देते हुए सर्वदा समुज्ज्वल कार्यकारी हों ॥ ४६ ॥ कृष्ण—ऐसा ही हो । ( यह कह कर सब लोग चले जाते हैं ) । ग्राम, पखनपुर पो० वहरियावाद, जि० गाजीपुरनिवासी श्री आदित्य नारायण पाण्डेय 'शास्त्री' 'विशारद' के द्वारा अनूदित वेणीसंहार नाटक का छठा अङ्क समाप्त ।

इदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना- .काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता- अन्वयः —ते, काव्यालापसुभाषितव्यसनिनः, राजहंसाः, गताः, ताः, गोष्ट्यः, क्षयम्, आगताः, सताम्, वाचः, गुणलवश्लाघ्याः न, कवीनाम्, सालङ्काररसप्रसन्नम- धुराकाराः, गिरः नाशम्, प्राप्ताः, भूमिवलये, अयन्तु, महान्, प्रबन्धः जीयात् ।। विदग्धस्निग्धवियोगदुर्मनसा = विदग्धाः चतुराः स्निग्धाः वत्सलाः तेषां यो वियोगः, साम्प्रतं गुणज्ञानामेतादृशपुरुषाणामभावादिति भावः । तेन दुर्मनाः दुःखित- चेताः तेन, कविना भट्टनारायणेन, विप्रलपितम् = दुःखालापः कृतः । साम्प्रतं मन्नि- र्मितकवितास्वादं कः कारयतीति, विप्रलापहेतुः । विप्रलापमेवाह —काव्यालापेति । ते प्रसिद्धा राजादयः, काव्यालापसुभाषितव्यस- निनः=काव्यानां दोषाभावविशिष्टगुणादिविशिष्टशब्दार्थयुगलानाम्, तदुक्तं काव्यलक्षणं प्रकाशकृता—'तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि' इति । तस्यायमर्थः—तत् काव्यम्, शब्दार्थौ, शब्दार्थयुगलमित्यर्थः । न चैवं काव्य- पदस्य प्रवृत्तिनिमित्तं व्यासज्यवृत्तिः स्यादिति वाच्यम्, इष्टापत्तेः, आस्वादव्यञ्जक- त्वस्योभयत्रापि तुल्यत्वात् । अत एव काव्यं पठितं काव्यं बुद्धमित्युभयविधलोक- व्यवहारः संगच्छते । यत्तु रसगङ्गाधरकृता काव्यपदप्रवृत्तिनिमित्तस्य व्यासज्यवृत्तित्वे एकस्मिन् द्वित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वेन एको न द्वौ इति व्यवहारवत्, श्लोकवाक्यं न काव्यमिति व्यवहारापत्तिः । यदि च शब्दार्थप्रत्येकपर्याप्तत्वमेव काव्य- पदवृत्तिनिमित्तम् तदैकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तिः, तस्मात् वेदत्वादिवत् रमणीयार्थप्रतिपादकः शब्दः काव्यम् । इति शब्दमात्रनिष्ठत्वमेव काव्यलक्षण- स्योक्तम् तन्नु तत्रैव मर्मप्रकाशटीकायां आस्वादव्यञ्जकत्वस्योभयत्रा विशेषादित्यादिना अनुभवव्यवहारविरुद्धमिदमिति प्रतिपादितमस्ति वेदपदप्रवृत्तिनिमित्तस्यापि शब्दा- र्थोभयवृत्तित्वमेव प्रतिपादितं 'तदधीते तद्वेद' इति पाणिनिसूत्रे भगवता पतञ्जलिना, यद्यपि दर्पणकृता—'वाक्यं रसात्मकं काव्यम्' इति काव्यलक्षण- मुक्तं तदपि, आग्रहमूलकमेव रसाभासाद्यात्मककाव्येऽव्याप्तेः । इष्टापत्तिस्तु न मन्त- वति कविसम्प्रदायभङ्गप्रसङ्गात् । अत एव महाकविवर्णितकपिकुलचरितान्यपि : काव्यानि । त्वन्मते तत्र रसाभावेन काव्यत्वं न स्यात् । यथाकथञ्चित् परम्परया रसस्पर्शस्य काव्यत्वप्रयोजकत्वे 'गौश्चरति', 'मृगो धावति' इत्यादेरपि काव्यत्वमा- पद्येति । दोषविशिष्टेऽतिव्याप्तिवारणाय अदोषविति लक्षणे निवेशः। न चादोषत्वं यत्किञ्चिद्दोषाभावः, दोषसामान्याभावो द्वौ वा । नाद्य । यत्किञ्चिदभावस्य सर्वत्र

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३३१ स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्या न वाचः सताम् । सालङ्काररसप्रसन्नमधुराकाराः कवीनां गिरः सुलभतया व्यावर्तकत्वापत्तेः । नान्त्यः 'तथाभूतां दृष्ट्वे' त्यादेरपि काव्यत्वानापत्तेः, तत्रापि न्यूनपदत्वदोषस्य सत्त्वात् । इष्टापत्तिस्तु न सम्भवति, प्रकाशकृतेव तृतीयो- ल्लासे 'तयाभूतामि' त्यत्र काकुसहकृतार्थध्वनित्वस्योक्तत्वादिति वाच्यम्, अदोषेत्यस्य रसोद्बोधविरोधि-दोषाभावे तात्पर्यात् । तथा च यत्र यस्य दोषस्य रसोद्बोध- विरोधित्वं तद्दोषत्वे न काव्यत्वं यत्र च न तादृग्दोषस्तत्र काव्यत्वमिति सहृदया एव प्रमाणम् । निर्गुणेऽतिव्याप्तिनिरासाय सगुणाविति । माधुर्यादिगुणवन्तौ काव्य- मित्यर्थः । यद्यपि गुणानां रसमात्रनिष्ठत्वेन शब्दार्थयोर्गुणवत्वमसम्भवि, तथापि स्वव्यञ्जकत्वसम्बन्धेन तत्र तेषां सत्त्वमिति न काऽप्यनुपपत्तिः निरलङ्कारेऽतिव्या- त्तिनिरासाय-अनलङ्कृतीति । अस्यायमर्थः-सर्वत्र सालङ्कारावेव काव्यम्-कुत्रापि स्फुटालङ्काररहितावपि, 'अलवणा यवागूरि' तिवद् नञोऽल्पार्थकत्वात् । अत्राल्पत्वम- स्फुटत्वमेव । अन्यस्य, निर्वक्तुमशक्यत्वात्-तथाच-नीरेऽपि अस्फुटालङ्कारसत्त्वे काव्यत्वप्रसक्तावपि न कश्चिद्दोषः । प्रदीपकारास्तु-रसादिलङ्कारश्च द्वयमेव चम- त्कारहेतुः एवञ्च यदि यत्र न रसादिः न वा स्फुटालङ्कारः तत्र चमत्कारहेतोरभावान्न काव्यत्वमित्याहुः । वयन्तु मन्यामहे-तत्रास्फुटालङ्कार एव चमत्कारहेतुः, अलङ्कार- मात्रस्यैव चमत्कारहेतुत्वात् । तत्र स्फुटत्वास्फुटत्वयोरकिञ्चिकरत्वादिति । अत्र युक्तायुक्तत्वे सहृदयाः स्वयमेव विभावयन्विति संक्षेपः प्रकृतमनुसरामः । एतादृशानां काव्यानां य आलापः सम्भाषणानि तेषु यत्सुभाषितम् तत्र यद्व व्यसनम् आसक्तिः तदस्त्यस्येति 'अत इनिठनौ' इतीन्प्रत्ययः । ते, राजहंसाः = श्रेष्ठनृपाः, गता क्षयमित्यस्यात्राप्यन्वयः । विनष्टा इत्यर्थः । ताः, गोष्ठ्यः विवेच- कानामित्यादि । क्षयम् = विनाशम्, आगताः मत्कवितानां क्षीरवत् गुण- ग्राहका न केऽपि सन्तीति भावः । सताम् = सज्जनानाम्, वाचः, गुणलवश्लाघ्याः = गुणस्य लवेन कणेनापि श्लाघ्याः प्रशंसनीयाः न, भवन्ति, कवीनाम् = उत्तम- प्रबन्धकारिणाम्, सालङ्काररसप्रसन्नमधुराकाराः = सालङ्काराः अलङ्कारसहिताः, अलङ्कारत्वञ्च-रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयित्व- सम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकता तदवच्छेदकत्वम् । भवति च अनु- प्रासादिविशिष्टशब्दज्ञानात्, उपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदय इति विष- यित्वसम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकतया तादृशे शब्दे अर्थे च तदव- च्छेदकत्वमनुप्रासादौ, उपमादौ चेति लक्षणसमन्वयः । व्यङ्ग्ये रसादिभिन्नत्वनिवे- शान्न रसवदलङ्कारासङ्ग्रहः । तादृशव्यङ्ग्यभिन्नत्वनिवेशान्न व्यङ्ग्योपमासङ्ग्रहः ।

३३२ वेणीसंहारं नाटकं प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥ ४७ ॥ समाप्तमिदं वेणीसंहारं नाम नाटकम् । रसप्रसन्नाः रसान्विताः अत एव मधुरा मधुरस्वरूपाः, गिरः = उक्तयः, नाशम्, प्राप्तः, गुणग्राहकव्यक्त्यभावादिति भावः अतः, भूमिवलये = भूमण्डले, अयम् = मदीयः, महान् = रसालङ्कारादिसंयुतः तुशब्दः पूर्वव्यच्छेदकः, प्रबन्धः = कविता, जीयात् = उत्कृष्टत्वेन वर्तताम् । अनेन प्रबन्धेन मम कीर्तिलाभः प्रसन्नता च भवत्विति कवेराशयः तदुक्तमग्निपुराणे व्यासदेवेन— निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिञ्च विन्दति ॥ इति । एतादृशं मदीयमपि काव्यमिति गूढाभिप्रायः । शार्दूलविक्रीडितं छन्दः ॥ ४७ ॥ उमरावाङ्गसम्भूतं नरसिंहस्य जन्मभूम् । अनहेरं कुलपतिं नौमि तं प्रपितामहम् ॥ १ ॥ विद्वद्वृन्दविलासिता भगवती संराजते सर्वदा । यतास्ते च विशालभालललिता लक्ष्मी स्वयं सुस्थिरा । पुण्ये तत्'पटसा'ख्यपत्तनवरे श्रीद्वारवङ्गस्थिते सानन्दं मृदुचेतसा निवसत। व्याख्या मया पूरिता ॥ २ ॥ ॥ इति प्रबोधिनीव्याख्या समाप्ता ॥ समाप्तश्चायं ग्रन्थः

श्लोकानुक्रमणिका

पद्यानिपृष्ठाङ्काःपद्यानिपृष्ठाङ्काः
अ-आउ-ऊ
अकलितमहिमान२४०उद्घातक्वणितविलोळ९०
अकृपणमतिः कामं३२९उपेक्षितानां मन्दानां१४४
अक्षतस्य मदापानैः१५९ऊरु करेण परिघट्टयतः३१०
अत्रैव किं न विशसेयं२३२
अद्य प्रभृति वो दत्तं३०३एकस्य तावत्पाकोऽयं११८
अद्य मिथ्याप्रतिज्ञो१४३एकेनापि विनानुजेन२०८
अद्यैवावां रणमुपगतौ१९७एतज्जलं जलजमील-३०३
अन्धोऽनुभूतशत२१६एतेऽपि तस्य कुपितस्य१०५
अन्योन्यास्फालभिन्न४२एह्यस्मदर्थहततात१३१
अपि नाम भवेन्मृत्युः१६५
अप्रियाणि करोष्येव२३२कथमपि न निषिद्धः१४२
अयि कर्ण कर्णसुखदां२१७कर्णक्रोधेन युष्मद्विजयि२३६
अयं पापो यावन्न१४७कर्णदुःशासनवधात्२६२
अवसानेऽङ्गराजस्य२६९कर्णाननेन्दुस्मरणात्२२०
अश्वत्थामा हत इति११०कर्णािलङ्गनदायी वा२२४
असमाप्तप्रतिज्ञेऽपि३०६कर्णेन कर्णसुभगं२३९
अस्रग्रामविधौ कृती१९२कर्ता द्यूतच्छलानां२२७
अस्रज्वालावलीढ१०४कलितभुवना मुक्ते२१०
आचार्यस्य त्रिभुवन-११९कालिन्द्याः पुलिनेषु
आजन्मनो न वितथं११४काव्यालापसुभाषित-३३०
आरमारामा विहित-३७किं कण्ठे शिथिली५८
आ शस्त्रग्रहणादकुण्ठ४९किं नो व्याप्रदिशां७२
आशैशवादमुदिनं३१५किं शिष्याद् गुरुद१०८
कुरु घनोरु पदानि७७
इन्द्रप्रस्थं वृकप्रस्थं२६कुन्त्या सह युवामद्य२०३
इयमस्मदुपाश्रयैक-५८कुर्वन्स्वाहा हतानां२३६

३३४ श्लोकानुक्रमणिका पद्यानि पृष्ठाङ्काः | पद्यानि पृष्ठाङ्काः कुसुमाञ्जलिरपर इव ६ | ज्ञेया रहः शङ्कितं २४६ कृतगुरुमहदादि- ३२४ | ज्वलनः शोकजन्मा २२१ कृतमनुमतं दृष्टं वा १२३ | कृष्टा केशेषु भार्या २३१ | कृष्टा येन शिरोरुहे १४८ | तथाभूतां दृष्ट्वा १७ कृष्टा येनासि राज्ञां ३२० | तद्दीर्घत्वं तव मम पुरः ६० कृष्णा केशेषु कृष्टा २३० | तस्मिन्कौरवभीमयोः २७७ कोदण्डज्याकिणाङ्कैः ८८ | तस्मै देहि जलं कृष्णे १०५ कौरव्यवंशदावेऽस्मिन् ३० | तस्यैव देहरुधिरोक्षित- क्रोधान्धैर्यस्य ३२२ | तस्यैव पाण्डवपशोः १६४ क्रोधान्धैः सकलं हतं ३२८ | तातस्तव प्रणयवान् १३२ क्रोधोद्गूर्णगदस्य नास्ति २६८ | तातं शस्त्रग्रहणविमुखं १२२ | तां वत्सलामनभिवाद्य ३०९ | तीर्णं भीष्ममहोदधौ २४३ गते भीष्मे हते द्रोणे २२४ | तेजस्वी रिपुहतबन्धु १२८ गतो येनाद्य त्वं ११५ | त्यक्तप्राजनरश्मि- २१४ गुप्त्या साक्षान्महानल्पः ४९ | त्यक्त्वोत्थितः सरभसं २५९ गुरूणां बन्धूनां २४९ | त्रस्तं विनापि विषयात् २४९ गृहीतं येनासीः ११८ | ग्रहाणां चरितं स्वप्नो- ६७ | | दग्धुं विश्वं दहन् १०६ | दत्त्वा द्रोणेन पार्थान् १५८ च्छन्दद्भुजअमितचण्ड ३३ | दत्त्वा भग्नं मोऽतिरथ १३० चत्वारो वयमृत्विजः ३९ | दत्त्वा मे करदीकृता २८३ चूर्णिताशेषकौरव्यः २२९ | दायादा न ययोर्बलेन २०४ | दिक्षु व्यूढाङ्घ्रिपादः ७४ | दिष्ट्यार्धश्रुतविप्रलम्भ- ६१ जन्मेन्दोर्विमले कुले २५५ | दुःशासनस्य रुधिरे १५२ जातोऽहमगतिकृत्या २०१ | दुःशासनस्य हृदय ८५ जात्या कलिमवध्यो- १४३ | दृष्टः सप्रेम देव्या ५ जीवत्सु पाण्डुपुत्रेषु २९ | देशः सोऽयमराति १३४ जृम्भारम्भाप्रचितत ५५ | द्रक्ष्यन्ति न चिरात्सुतं २३४ ज्ञातप्रीतिर्मनसि न २८५ |

श्लोकानुक्रमणिका २३५ पद्यानि | पृष्ठाङ्काः | पद्यानि | पृष्ठाङ्काः | | प्रत्यक्षं हतबन्धूनां | १८९ धर्मात्मजं प्रति यमौ | ८७ | प्रत्यक्षं हतबान्धवस्य | २१२ धिक्मानुजं कुरुपति | ११२ | प्रयत्नपरिवोधिनः | १३६ धृतराष्ट्रस्य तनयान् | १५ | प्रवृद्धं यद्वैरं मम | १६ धृतायुधो यावदहं | १४८ | प्राप्तावेकरथारूढौ | २२५ | | प्रालेयमिश्रमकरन्द | ५४ नाहं रक्षो न भूतः | ३१२ | प्रियमनुजमपश्यंस्त | ३११ निर्लज्जस्य दुरोदर | २८१ | प्रभावमृदुस्तिमित- | ७३ निर्वाणवैरदहनाः | ११ | | निर्वैर्यं गुरुशाप | १३८ | बालस्य मे प्रकृति | १६१ निर्वीर्यं वा सवीर्यं वा | २३९ | | निवापाञ्जलिदानेन | ११७ | भग्नं भीमेन भवतो | ८१ निविडोरस्येमिलुलित | १ | भवति तनय लक्ष्मीः | २२१ नूनं तेनाद्य वीरेण | २५० | भवेदक्षीभ्पद्रोणं | १२६ नोच्चैः सत्यपि | ४४ | भीष्मे द्रोणे च निहते | २१६ न्यस्ता न भ्रुकुटिर्न | ७६ | भूमौ क्षिप्तं शरीरं | ३१७ | | भूमौ निमग्नचक्रः | २२० पङ्के सैकते वा | २४५ | भूयः परिभवक्लान्ति | ४१ पद्मगहदाणं मंसए | ९२ | भ्रातुस्ते तनयेन | २९८ पञ्चानां मन्यसेऽस्माकं | २६१ | | पदे संदिग्ध एवास्मिन् | २७५ | मथ्नामि कौरवशतं | २४ परित्यक्ते देहे रण | १२१ | मदकलितकरेणु | १५९ पर्याप्तनेत्रमचिरोद्गत- | १८९ | मद्वियोगभयात्तातः | ११६ पर्यायेण हि दृश्यन्ते | ६६ | मन्थात्रस्तार्णवाम्भः | ३४ पाञ्चाल्या मन्युवह्निः | २५६ | मम प्राणाधिकं | २१८ पाप प्रियस्तव कथं | १४५ | मम हि वयसा | २९४ पापेन येन हृदयस्थ | २२२ | मया पीतं पीतं न तदनु | ३०४ पितुर्मूर्ध्नि स्पृष्टे | १२४ | मयि जीवति यत्तातः | १३३ पीताभ्यां मद्भुजाभ्यां | २३४ | महाप्रलयमारुत | १०० पूर्यन्तां सलिलेन | २६३ | मातः किमप्यसदृशं | २०२ प्रत्यक्षमरुधनुषां | १२० | मामुद्दिश्य त्यजन् | २१९

३३६ श्लोकानुक्रमणिका पद्यानि पृष्ठाङ्काः पद्यानि पृष्ठाङ्काः य श यत्तदूर्जितमत्युग्रं २१ शदयामि नो परिव- २८९ यत्सत्यव्रतभङ्गभीरु ३८ शक्यामि व्यपनीय १९९ यदि शस्त्रसुझिक्तं १४१ शल्येन यथा शल्येन २१५ यदि समरमपास्य १०४ शाखारोधस्थगित २१३ यद्दुर्योधनपक्षपात- १०१ शोकं स्त्रीवन्नयन- २३२ यद्वैद्युतमिव ज्योति- २२ शोचामि शोच्यमपि २१८ यन्मोचिस्तव पिता २४२ श्रवणाञ्जलिपुटपेयं ५ यस्मिंश्चिरप्रणय ६२ श्रुत्वा वधं मम नृपा १११ युक्तो यथेष्टमुपभोग १६३ स युष्मच्छासनलङ्घनहिंस्र १८ सकलरिपुजयाशा २२९ युष्मान्हेपयति २७ स कीचकनिषूदनो- २८२ येनासि तत्र जतु- २९३ सत्पक्षा मधुरगिरः १० योः यः शस्त्रं बिभर्ति १३३ सत्यादप्यनृतं श्रेयो- १५१ र स भीरुः शूरो वा १४० रक्षणीयेन सततं १६५ सर्वथा कथय ब्रह्मन् २७६ राज्ञो मानधनस्य १५५ सहभृत्यगणं सबान्धवं ५१ रिपोरास्तां तावत् ३१८ सीरीसत्वर २७७ रेणुर्वाधां विधत्ते ७९ सूतो वा सूतपुत्रो वा १३९ ल स्त्रीणां हि साहचर्यात् ३२ लाक्षागृहानलविषाग्न- १२ स्मरति न भवान्पीतं २४६ लुहिलाशवपाणमत्तिए ९३ ह लोलांशुकस्य पवना ८० हते जरति गाङ्गेये ५४ व हत्वा पार्थान्सलिल १९४ विकिर धवलदीर्घा- ७० हृदमाणुममंश ९१ विस्मृत्यास्यान्श्रुति २९५ हली हेतुः सख्यं ३०० व्यासोऽयं भगवागमी ३२६ हस्त्याकृष्टविलोय ८५ वृषसेनो न ते पुत्रो १५५ हीयमानः किल २०७