भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 76, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 76

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ५५ जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै- र्भाभिर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः । स्त्रीभिः सार्धं घनपरिमलस्तोक लक्ष्याङ्गरागा मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ ८ ॥ कञ्चुकी- देव, नन्वेषा भानुमती सुवदनया तरलिकया च सहोपविष्टा अन्वयः- जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैः, भानोः, भाभिः, स्पृश्यमानाः, ( अत एव ) विबुद्धाः, नृपतयः, इव, एते, द्विरेफाः, घनपरिमलस्तोक लक्ष्याङ्गरागाः, ( सन्तः ) स्त्रीभिः, सार्द्धम्, विकचनलिनीगर्भशय्याम्, मुञ्चन्ति ॥ ८ ॥ जृम्भेति । जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टैः = जृम्भारम्भेण विकासोप- क्रमेण प्रविततानि विस्तृतानि यानि दलानि पुष्पपत्राणि तेषामुपान्तः समीपवर्ति- स्थानम् तदेव जालम् गवाक्षरन्ध्रम्, नृपक्षे-तत्सदृशगवाक्षरन्ध्रम् , तेन प्रविष्टैः भानोः = सूर्यस्य, भाभिः = प्रकाशैः, स्पृश्यमानाः = स्पृश्यमानाः, अत एव विबुद्धाः = विनिद्राः, अन्योऽपि स्पर्शेन जागरितो भवति । नृपतयः = राजानः इव, अमरपक्षे विबुद्धाः = उत्थिताः, कीदृशाः घनपरिमलस्तोक लक्ष्याङ्गरागाः = घनपरिमलस्य निवि- डगन्धस्य नृपक्षे-चन्दनगन्धस्य स्तोकेन लक्ष्यः अनुमेयः अङ्गरागः सङ्गरक्तिमा नृपक्षे-गात्रानुलेपनयोग्यसुगन्धिद्रव्यम् येषां ते, एते, द्विरेफाः = भ्रमराः, स्त्रीभिः = नृपक्षे देवीभिः, भ्रमरपक्षे-भ्रमरीभिः, सार्द्धम् = सह, विकचनलिनीगर्भशय्यां = विकसितकमलिनीमध्यशयनीयम्, मुञ्चन्ति = त्यजन्ति । नृपतयोऽपि विबुद्धाः सन्तः स्त्रीभिः सार्द्धं शय्यां मुञ्चन्ति । भ्रमराः कमलवनं प्रातःकाले मुञ्चन्तीति भावः । अत्र पूर्णोपमाऽलङ्कारः विकचनलिनीगर्भशय्यामित्यत्र रूपकम् । मन्दाक्रान्ता- वृत्तम्=मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्ममिति लक्षणात् ॥ ८ ॥ नन्विति अवधारणे । सुवदनया = एतन्नामकसख्या, तरलिकया = एतन्नामक- कलियों के विकास के प्रारम्भकाल में फैलती हुई पंखड़ियों के अन्तिम भाग के अवकाशों के द्वारा प्रविष्ट सूर्य-किरणों के संस्पर्श से जगे हुए भ्रमर अपनी भ्रमरियों के साथ प्रचुर पराग के संलग्न होने के कारण शरीर का रंग थोड़ा-थोड़ा उपलक्षित कराते हुए प्रस्फुटित कमलिनी-दलरूपी शय्या का परित्याग राजाओं की भाँति कर रहे हैं। अर्थात् जिस प्रकार राजा लोग कमल किशलयतुल्य करों के द्वारा स्पृष्ट होकर निद्रा परित्याग कर स्त्रियों के साथ कमल- पुष्परचित शय्या का परित्याग करते हैं, उनके शरीर का अङ्गराग कुसुमादि के अधिक प्रलेप से थोड़ा-थोड़ा झलकता रहता है ॥ ८ ॥ कञ्चुकी-महाराज, यह महारानी भानुमती बैठी हुई सुवदना और तरलिका से