भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 79, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 79

५८ वेणीसंहारं नाटकं किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यासि सम्भाविता । अन्यस्त्रीजनसंक्थालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये परिजनोपालम्भयोग्ये मयि ॥ ९ ॥ ( विचिन्त्य । ) अथवा । इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमविवृद्धमत्सरेण । अन्वयः — मया, प्रमादात्, कण्ठे, भुजलतापाशः, किम्, शिथिलीकृतः, अद्य, निद्राच्छेदविवर्तनेषु अभिमुखी, अद्य न, सम्भाविता ( किम् ) त्वया, अहम्, अन्यस्त्री- जनसङ्कथालघुः, स्वप्ने, लक्षितः, ( हे ) प्रिये, परिजनोपालम्भयोग्ये, मयि, कम्, दोषम्, पश्यसि ? ॥ ९ ॥ मत्तः किमपराधोऽभूदित्याह—किमिति । मया = दुर्योधनेन कण्ठे = मदीयग्री- वायाम्, भुजलतापाशः = त्वत्कृतभुजबन्धनम्, किम्, किं शब्दः प्रश्ने । प्रमादात् = अनवधानात्, सावधानतया न कथमपीदं सम्भाव्यत इति सूचितमनेन । शिथिली- कृतः न तु दूरीकृत इति भावः । किंशब्दस्य द्वितीयतृतीयचरणयोरप्यन्वयः । अद्य, निद्राच्छेदविवर्तनेषु = सुषुप्तिभङ्गेन पार्श्वपरिवर्तनेषु, अभिमुखी = आभिमुख्यं प्राप्ता, न, सम्भाविता = सालिङ्गनं न सम्मानिता, किम् । त्वया—भानुमत्या, अन्यस्त्री- जनसङ्कथालघुः = अन्यनारीजनवार्तालापेन लघुः निःसारः क्षुद्र इत्यर्थः । लघुरगुरौ च मत्ताजे निःसारे वाद्यवत् क्लीबमिति मेदिनी । अहं = दुर्योधनः स्वप्ने = निद्रा- वस्थायाम्, एतेन जागरणे नास्य सम्भावनापीति सूचितम् । लक्षितः = ज्ञातः, हे प्रिये परिजनोपालम्भयोग्ये = परिचारकसदृशपरिभावना । र्हे, मयि, एतेषां मध्ये, कं दोषम् = अपराधं, पश्यसि = अवलोकसे । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ अन्वयः — अस्मदुपाश्रयैकचित्ता, इयम्, प्रेमविवृद्धमत्सरेण, मनसा, अतिवल्लभ- त्वात्, मम, अपराधलेशम्, स्वयम्, उत्प्रेक्ष्य, नियतम्, कुपिता ॥ १० ॥ कथं क्रुद्धा भानुमतीत्याह—इयमिति । अस्मदुपाश्रयैकचित्ता = मदालम्बन- क्या कभी मैंने ( भूल कर ) कण्ठगत भुजा के बन्धनों को विच्छिन्न तो नहीं किया ? [ अर्थात् आपके प्रेमालिङ्गन का तिरस्कार तो नही किया ? ] अथवा शयनावस्था में करवट बदल कर मेरे सम्मुख होने पर आज मैंने क्या आपका स्वागत नहीं किया ? अथवा आपने स्वप्न में मुझे परस्त्री से बातचीत करने में अनुरक्त तो नहीं देखा फिर सेवाकार्यरहित मुझ में कौन सा अवगुण देखती हैं ? ॥ ९ ॥ ( सोचकर ) इन्होंने अपने चित्त को मेरे आश्रित कर दिया है । प्रेम के कारण इन के मन में